इह जगति कालिदासस्य प्रतिष्ठा बहुविधा जागर्ति। तत्काव्यरचनाचातुरीमनुलक्ष्य तमुपमाकविं रसेश्वरं वैदर्भगिरामावासं च सहेतुकं समामनन्ति सङ्ख्यावन्तः। सकलमिदं स्वागतार्हमेव। परमत्र कटाक्षितान् गुणानतिरिच्य काचिदन्या विच्छित्तिश्चकास्ति कविकुलगुरोः काव्यनिर्मितौ, या तदीयं विशेषणवैशिष्ट्यमनुधावति॥
सर्वं जगदिदं सविशिष्टं प्रतिभाति। किन्त्वत्र वैशिष्ट्यानां न काचिदौचिती प्रतीयते। काव्यकलायां न तथा। अत्र न केवलं वाक्येषु पदेषु वा, प्रत्ययेषु वर्णेष्वपि रसोपनिषद्भूतमौचित्यं विलसेत्। काव्यरहस्यस्यास्य हृदयवेदी कालिदासः। स न केवलमस्य वेत्ता परं तदनुरोधेन निरूप्यमाणस्य काव्यजातस्य वक्ता प्रयोक्ता च। किं बहुना, जगति दृश्यमानेषु सामान्येष्वपि वस्तुषु विशेषमवलोकमानः कविर्भवति। एवमेव विशेषेषु सामान्यस्य साक्षात्कर्ता दार्शनिकः शास्त्रकृद्भवति। सहृदयास्तु कविकर्मणा प्रत्यभिज्ञातस्वान्ताः सर्वसामान्यान् भावान् विभावयन्तो रसमनुभवन्ति। प्रयोजनपरायणा जना जगज्जीवेश्वराणां हृदि वर्तमानं सामान्यं परिज्ञाय तत्तद्विद्यास्थानानुसारं निजमभीप्सितं लाभं प्राप्नुवन्ति। एवं काव्य-शास्त्र-कवि-शास्त्रि-सहृदय-जिज्ञासूनां विवेकः प्रवर्तते। इमामेव सरणिमादृत्य काव्येषु विशेषणानां माहात्म्यं वेत्तुं युक्तम्॥
कालिदासीये काव्यसप्तके ऋतुसंहारादृते षट्स्ववशिष्टेषु काव्येषु सार्थकानां विशेषणानां पारम्यं दरीदृश्यते। अमीषां प्रयोग उपमाप्रयोगात् त्रिगुणः चतुर्गुणः पञ्चगुणो वापि दृश्यत इति नातिशयोक्तिः। विशेषणानि न केवलं सङ्ख्यापरतया विपुलानि, परन्तु गुणैरपि गरिमाणमञ्चन्ति। किं वाचारम्भणेन, कालिदासकाव्यजीवातुभूतमिदं विशेषणसन्दर्भणम्॥
साहित्ये विशेषणं नाम वाक्याङ्गभूतानां कर्तृकर्मक्रियादीनां पोषकं किमपि पदम्। यद्यपि कालिदासप्रयुक्तानि विशेषणानि समस्तपदभूयिष्ठानि विभिन्नान् समासानाश्रयन्ते, तथापि प्रायः परिणामे बहुव्रीहौ पर्यवस्यन्ति। अत एवात्र लिङ्गवचनविभक्तीनां सामानाधिकरण्यमनिवार्यम्। उपमायामप्ययमेव गुणः काङ्क्ष्यते। अत एवोपमाविशेषणयोर्भेदम् आपातदर्शनेन मुग्धा न जानीयुः। अत्र पण्डिता अपि कदाचिन्मुह्येयुः। तस्मादेव कालिदासस्य विशेषणकवित्वं ज्ञातुं बहवो न प्रभवन्ति॥
यथा काव्यादर्शे दण्डी स्वभावोक्तिं द्रव्य-गुण-जाति-क्रियात्मना चतुर्धा विभज्य निरूपयति,[1] तथैव कालिदासस्यापि विशेषणानि विवेक्तुमर्हन्ति विबुधाः। यद्यपि नयोऽयं मनागिव पारस्परिकव्यभिचारदूषितः, तथापि पूर्वसूरिक्षुण्णपथत्वात् स्वीकार्यः। सर्वाणि लक्षणानि सापवादानीति विदितवेदितेभ्यो न किञ्चिदस्ति पार्थक्येन व्याख्यातुम्। तत्त्वमिदं स्पष्टीकर्तुं कानिचनोदाहरणानि प्रस्तूयन्ते॥
* * *
द्रव्यम्
“पयोधरीभूतचतुस्समुद्रां जुगोप गोरूपधरामिवोर्वीम्” (रघु० 2.3)[2]। अत्र गोरूपिण्या धराया विशेषणत्वेन द्रव्यात्मकं समुद्रचतुष्टयमुपात्तम्॥
“प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भां नवोपकार्याम्” (रघु० 5.63)। अजस्य पटकुटी प्राग्द्वारे पूर्णकुम्भालङ्कृता व्यलसदिति कथयति कालिदासः। अत्र पूर्णकुम्भात्मकं द्रव्यं प्रस्तुतम्॥
“गृध्रपक्षपवनेरितध्वजं रक्षसां बलम्” (रघु० 11.26)। अत्र दैत्यसेनाध्वजाः गृध्रपक्षपवनैराकम्पिता इति वस्तुनिर्देशो विद्यते॥
“प्रभ्रश्यमानाभरणप्रसूना लतेव सीता” (रघु० 14.54)। सीताया उपमानभूता लता प्रभ्रश्यमानाभरणप्रसूनेति द्रव्यात्मना विशेषिता कविना। अत्र विशेषणान्तर्गतं रूपकमपि स्वतन्त्रमवधानमर्हति॥
“इङ्गुदीस्नेहकृतप्रदीपम् उटजम्” (रघु० 14.81)। अत्रोटजं प्रकाशयितुं सज्जीकृत इङ्गुदीस्नेहमयो दीप इति द्रव्यविशेषः प्रस्तुतः॥
गुणः
“पत्त्रसङ्करकषायाणि जलानि” (अभि०शा० द्वितीयाङ्कारम्भः)। जलानि पत्त्रसङ्करकषायाणीति कथनेन कश्चन रुचिगुणो व्यपदिष्टः॥
“हरितकपिशं नीपम्” (मेघ० 1.21)। नीपकुसुमानां हरितकपिशकर्बुरा छाया कञ्चन वर्णगुणं निर्दिशति॥
“मुखेन लोध्रपाण्डुना” (रघु० 3.2)। आननस्य पाण्डिमेति वर्णगुणोऽत्र सूचितः। लोध्रमिव पाण्ड्विति उपमितः समासोऽप्यत्र लक्ष्यते॥
“भवति विरलभक्तिर्म्लानपुष्पोपहारः” (रघु० 5.74)। पुष्पाणां विरला भक्तिः संयोजनमासीदिति कश्चन रचनागुणो विशेषितः॥
“तीरेषु तालीवनमर्मरेषु” (रघु० 6.57)। अत्र तीरविशेषणत्वेन तालीवनसञ्जातमर्मराख्यः शब्दगुणो विवक्षितः॥
जातिः
“निरायतपूर्वकायाः निष्कम्पचामरशिखाः निभृतोर्ध्वकर्णाः रथ्याः” (अभि०शा० 1.8)। अश्वजातेरिह स्यन्दनवहनप्रसङ्गोचितानि बहूनि विशेषणान्युपात्तानि॥
“आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः राजहंसाः” (मेघ० 1.11)। अत्र राजहंसाख्याया जातेरा कैलासात् बिसकिसलयच्छेदपाथेयवत्त्वं विशेषितं कविना॥
“निर्धौतदानामलगण्डभित्तिर्वन्यो गजः” (रघु० 5.43)। वन्यगजाभिधाया जातेरत्र सरःसलिलनिर्धौतदानत्वाद्गण्डस्य निर्मलत्वं वर्णितं विशेषणमुखेन॥
“विषाणपरिमोक्षलघूत्तमाङ्गान् खड्गान्” (रघु० 9.62)। खड्गमृगसञ्ज्ञाया जातेरत्र विषाणपरिमोक्षणेन लघूकृतोत्तमाङ्गत्वं विशेषणवर्त्मना कथितं कविना॥
“अभिमुखतरुस्कन्धभग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशो भिन्नसारङ्गयूथः स्यन्दनालोकभीतो गजः” (अभि०शा० 1.30)। इह हि गजाख्याया जातेरनेकानि विशेषणानि रुचिराणि रचितानि कविकुलगुरुणा॥
क्रिया
“स्पर्शनिमीलिताक्षीं मृगीम्” (कु०सं० 3.36)। अत्र तु प्रियकृतकण्डूयनेन निमीलिताक्षी मृगी समभूदिति कथनेन निमीलनक्रिया वर्णिता॥
“दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादं चक्रीकृतचारुचापम् आत्मयोनिम्” (कु०सं० 3.70)। अत्र मन्मथस्य विशेषणत्वेन निवेश-नमन-आकुञ्चन-चापचक्रीकरणाद्या विविधाः क्रियाः कटाक्षिताः॥
“ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः प्रथमोदबिन्दवः” (कु०सं० 5.24)। प्रथमोदबिन्दूनाम् अधरताडनं पयोधरोत्सेधपातेन चूर्णीभवनं च वर्णितम्॥
“चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ललाटबद्धश्रमवारिबिन्दुः स [अजः]” (रघु० 7.66)। अजस्य युद्धात् प्रतिनिवृत्तस्य निधाननिकर्षणबन्धनाद्याः क्रिया इह विविधवस्तुसम्पृक्ताः सूचिताः॥
“प्रस्पन्दमानपरुषेतरतारम् अन्तश्चक्षुः” (रघु० 5.68)। चक्षुषि स्पन्दमाना मृद्वी कनीनिका समभूदिति वर्णनेनात्र स्पन्दनक्रिया समादृता॥
* * *
यस्य कस्यापि प्रतिभावतः कवेः काव्येषु विशेषणानि साभिप्रायाण्येव भवन्ति। तत्तादृशां कवीनां प्राग्रहरः कालिदासः। साभिप्रायाणि विशेषणानि निरपवादमिव ध्वन्यङ्गतां यान्ति, यतोऽत्र गुणीभूतव्यङ्ग्यस्य व्याप्तिर्विद्यते। ध्वनिकृन्मते सर्वे सार्थका अलङ्कारा गुणीभूतव्यङ्ग्या एव भवन्ति। अतो हि कालिदासकाव्यगतानि विशेषणानि सालङ्काराणीत्येव स्थितिः। अत्र वर्तमाना अलङ्काराः स्वप्रसिद्ध्यनुरोधेन क्वचित् स्फुटाः क्वचिदस्फुटाश्च भवेयुः। स्फुटेष्वलङ्कारेषु स्वभावोक्तिरग्रताम्बूलमर्हति। तद्भिन्नेषु लुप्तोपमा, रूपकम्, अतिशयोक्तिश्चेत्यादयो गणनामर्हन्ति। साकूतविशेषणसद्भावाज्जायते परिकरालङ्कारः काव्यमीमांसासमयप्रसिद्धः। यद्यस्य कुक्षावेव सर्वाणि विशेषणानि निवेशयामः, वञ्चितप्रायो भवेत् कविप्रतिभाव्यापारः, मुषितप्रायश्च भवेत् सहृदयहृदयावर्जनावकाशः। तस्मादत्रत्यं विशेषणविशिष्टं सर्वमप्यलङ्कारं परिकरत्वेन अस्वीकृत्य तत्तद्रचनानुसारेण काव्याशोभाकरा धर्मा व्यपदिश्यन्ते। तथापि परिकरोचितान्युदाहरणान्यवश्यं प्रदर्श्यन्ते॥
लुप्तोपमा
“वेणुकर्कशपर्वया अङ्गुल्या” (रघु० 12.41)। शूर्पणखाङ्गुलीनां वेणुपर्वसमानं कर्कशत्वमासीदिति कथ्यते कविना। वाचकलुप्तोपमात्र प्रतीयते॥
“कलमाग्रपिङ्गला जटाः” (कु०सं० 5.47)। पार्वत्या जटाः कलमाग्रपिङ्गला अभूवन्निति वर्णनेन वाचकलुप्तोपमा सूच्यते॥
“स्त्रीनखपाटलं कुरवकम्” (विक्र० 2.7)। कुरवकपुष्पं स्त्रीनखवत् पाटलमासीदिति वर्णितम्। अत्रापि वाचकलोप्तोपमा लक्ष्यते॥
“बन्धुजीवपृथुभी रक्तबिन्दुभिः” (रघु० 11.25)। रक्तबिन्दवस्तु बन्धुजीवसुमवत् पृथुलत्वं भजन्त इति वर्ण्यते कविना। उपमावाचकाभावादत्र वाचकलुप्तोपमा वर्तते॥
“भूर्जत्वचः कुञ्जरबिन्दुशोणाः” (कु०सं० 1.7)। कुञ्जराणां वयःसहजतया जाताः पद्मकाख्या बिन्दव इव रक्ता भूर्जत्वचः समभूवन् इति कथयति कालिदासः। इहापि वाचकलुप्तोपमा प्रतीयते॥
स्वभावोक्तिः
“उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छदः पुष्पोद्गमः” (वि० 4.34)। अशोकवृक्षस्य पुष्पोद्गमोऽत्र महत्या सूक्ष्मेक्षिकया जात्यलङ्कारप्रयोगेण वर्णितः कविना॥
“आतपात्ययसङ्क्षिप्तनीवारासु भूमिषु” (रघु० 1.52)। निदाघात्यये नीवाराः सङ्क्षिप्यन्ते राशीक्रियन्ते वेति वर्णयति कालिदासः। अत्र जात्यलङ्कारः स्फुटं संलक्ष्यते॥
“तं [अजम्] कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम्” (रघु० 5.65)। अत्राजं विशेषयन्तः शब्दाः स्वभावोक्तिमयाः सन्ति॥
“पयोधरोत्सेधविशीर्णसंहति वल्कलम्” (कु०सं० 5.8)। पयोधरोत्सेधविशीर्णसंहतीति जात्यलङ्कारसहितः शब्दः पार्वत्या वासोविन्यासं विशिनष्टि॥
“कुशाङ्कुरादानपरिक्षताङ्गुलिः करः” (कु०सं० 5.11)। अत्र पार्वत्याः करं वर्णयितुं स्वभावोक्तिरादृता कविना॥
परिकरः
“ऐरावतास्फालनकर्कशेन हस्तेन” (कु०सं० 3.22)।
“वधूदुकूलं कलहंसलक्षणम्” (कु०स० 5.67)।
“जनकतनयास्नानपुण्योदकेषु रामगिर्याश्रमेषु” (मेघ० 1.1)।
“त्वयि स्निग्धवेणीसवर्णे” (मेघ० 1.18)।
“रेवतीलोचनाङ्कां हालाम्” (मेघ० 1.49)।
अत्र सर्वत्रापि सन्ति साभिप्रायाणि विशेषणानीति हेतोः परिकरालङ्कारः स्फुटं संलक्ष्यते॥
अतिशयोक्तिः
“वेगदीर्घीकृताङ्गः अद्रिः” (कु०सं० 3.76)। हिमालयः स्वसुतालोकनकुतुकी वेगदीर्घीकृताङ्ग आसीदिति कविरतिशयमाख्याति॥
“उमा मीनपङ्क्तिपुनरुक्तमेखला” (कु०सं० 8.26)। मीनपङ्क्तिरुमाया अपरैव मेखला समपद्यतेति कविरतिशयं सूचयति॥
भ्रान्तिमान्
“वलभयः सन्दिग्धपारावताः” (वि० 3.2)। धूमावृता वलभयस्तु तत्र पारावता आसीना वेति सन्देहमुपजनयन्तीति कथनादत्र भ्रान्तिमानलङ्कारः प्रयुक्तः॥
अनुगुणः
“कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचम्” (कु०सं० 3.46)। “प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” इत्यनुगुणालङ्कारलक्षणम् (कुवलयानन्दः, 144)। अत्र तु त्वचः प्राक्सिद्ध्ः कृष्णवर्णः कण्ठप्रभासङ्गेन स्फुटतरोऽभूदिति कविरनुगुणाश्रयेण र्वर्णयति॥
उपचारवक्रता
अमूर्ताभिधायिना शब्देन यत्र मूर्तं वस्त्वभिधीयते तत्रोपचारवक्रता विलसति। (वक्रोक्तिजीवितम्, 2.14 वृत्तिः)। तथा ह्युदाहरणानि—
“निद्राविधेयं नरदेवसैन्यम्” (रघु० 7.62)। अत्र हि निद्राख्यश्चेतनगुणोऽचेतने सैन्ये समारोपित इत्युपचारवक्रता॥
“प्रियाचरणनिक्षेपशंसी नूपुररवः” (वि० 4.13 गद्यम्)। अचेतनस्य नूपुररवस्य प्रियाचरणनिक्षेपशंसनाख्यश्चेतनगुणः कथित इत्युपचारवक्रता चकास्ति॥
[1] जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्। शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम्॥ (काव्यादर्शः, 2.13)
[2] सङ्केताक्षराणि—रघु० रघुवंशम्; कु० सं० कुमारसम्भवम्; मेघ० मेघदूतम्; अ० शा० अभिज्ञानशाकुन्तलम्; वि० विक्रमोर्वशीयम्; मा०अ० मालविकाग्निमित्रम्॥
अत्रत्यानि सर्वाण्युदाहरणानि तत्रभवता द्विवेदेन रेवाप्रसादेन सङ्कलितायाः कालिदासग्रन्थावल्या उद्धृतानि॥ [वाराणसी: काशीहिन्दूविश्वविद्यालयः, 1976]
To be continued.