४. ग्रन्थविस्तरः तद्विमर्शश्च
ग्रन्थेऽस्मिन् प्रतिपादितानि शास्त्रप्रमेयाणि विषयानुक्रमण्यां साकल्येन निरूपितानि। अत्र केवलं केचन विशिष्टा विषयाः सङ्गृह्य प्रतिपाद्यन्ते।
४.१. कविः काव्यं च
रस एव काव्यस्य परमार्थः सकलमौलिभूतं प्रयोजनं चेति समेषाम् आलङ्कारिकाणाम् ऐककण्ठ्यम्। यदाह भरतमुनिः—“न हि रसादृते कश्चिदर्थः प्रवर्तते” (नाट्यशास्त्रम्, ६.३१ गद्यम्)। सोऽयं रस आनन्दं व्युत्पत्तिं च यौगपद्येन सहृदयेभ्यः प्रयच्छतीति लोचने (३.१४) अभिनवगुप्त आह—“न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव। द्वयोरप्येकविषयत्वात्।” सायणाचार्यो हि भरताभिनवगुप्तयोर्मतम् ओमित्यङ्गीकुर्वन् सरसात् काव्यात् यदुपदेशः प्राप्यते तन्नूनं हेम्न आमोद इति कथयति—
यथा वेतनवित्तस्य लाभः पुण्ड्रेक्षुभक्षिणाम्।
तथोपदेशलाभोऽपि रसास्वादविधायिनाम्॥ १.३१
काव्यहेतुत्वेन प्रतिभाव्युत्पत्ती कलयन्नसौ अभ्यासं व्युत्पत्तेरेव भेदविशेषं मनुते। शक्त्यपरपर्यायां प्रतिभां काव्यमातरं जानानस्तां विना काव्यं न जातु जायत इति सङ्गिरते च—
शक्तिः कवित्वबीजं हि प्राक्तनी कापि संस्क्रिया।
यया विना न प्रसरेत्काव्यं शिक्षावतामपि॥ १.३५
यदि शक्तिशून्यः कश्चन शिक्षाबलात् काव्यं प्रणिनीषति स नूनम् उपहास्यतां याति—
व्युत्पत्तिगौरवबलाद्यदि किञ्चित्कथञ्चन।
प्रसारितं परं तच्च हास्यमेव न संशयः॥ १.३६
सायणाचार्यः प्रतिभां देव्याः श्रुतिमय्या वाचः सखीम् अवगमयति—
पराया जीवितसखीं देव्या वाचस्त्रिधातनोः॥ १.३७
सदृशं चैतत् त्रयीव्याख्यातुरिति हृष्यामो वयम्॥
अलङ्कारसुधानिधिः व्युत्पत्तिं त्रेधा विभिनत्ति, शास्त्रवृत्तज्ञान-लोकवृत्तज्ञान-अभ्यासभेदात्। किंरूपोऽयम् अभ्यास इति जिज्ञासायाम् उच्यते—काव्यज्ञैः कवीबुभूषुणा विद्योपादानं पद्यरचनायाम् अमन्दोऽभियोगश्चेति—
काव्यं कर्तुं विवेक्तुं च ये जानन्ति त एव हि।
काव्यज्ञास्तैस्तदभ्यस्येदुपदिष्टेन वर्त्मना॥ १.५७
उपदिष्टेन काव्यज्ञैरेवंरूपेण वर्त्मना।
मुहुर्मुहुः समभ्यस्येत्तैः समं काव्यनिर्मितिम्॥ १.५८
अत्रान्तरे वामनम् आनन्दवर्धनं चानुसरन् सायणाचार्यः शब्दपाकं शब्दार्थयोः सम्पृक्तिं च निरूपयतीति बोध्यम्॥
वीतलोकवृत्तज्ञानः कविः सर्वथा ऋष्यशृङ्ग इव लोकैर्विडम्ब्यते—
अज्ञातलोकवृत्तो यः शास्त्रकाव्यविदप्यसौ।
ऋष्यशृङ्ग इवाशेषैर्घुष्यते मुग्धसंसदि॥ १.४२
तदिदम् उपमानं सायणामात्यस्य लोकस्वभावपरिज्ञानं तद्विषयकं गौरवं च निपुणम् अभिव्यनक्ति॥
कवित्वं प्रेप्सुः शास्त्रकाव्यपुराणानि यथास्वम् अधीयीत। न ह्येकविज्ञाने सति शिक्षां शमयेत्, विद्यानां मिथो भेदात्—
अन्या हि गतिरश्वस्य गतिरन्या खरोष्ट्रयोः।
मदक्लिन्नकपोलस्य गतिरन्या हि दन्तिनः॥ १.५२
लोकशास्त्रपुराणानां रीतयो हि पृथक्पृथक्।
रीतिरन्यैव काव्यानां लोकोत्तरपदस्पृशाम्॥ १.५३
क्षेमेन्द्रम् अनुधावन् सायणाचार्यः काव्यविद्यास्नातका महाकविभिः कालिदासप्रभृतिभिः प्रणीतानि सर्वाण्यपि काव्यानि अभीक्ष्णं परिशीलयेयुरिति अनुशास्ति—
लोकशास्त्रविशेषज्ञः काव्यनिर्माणकौतुकी।
काव्यानि कालिदासादेः सततं परिशीलयेत्॥ १.५०
तस्मादालोचिताशेषलोकशास्त्रेण धीमता।
कर्तव्यं कालिदासादेः काव्यानां परिशीलनम्॥ १.५५
कालिदासविरचितानां काव्यानां वर्तते वेदानामिव सर्वातिगं प्राशस्त्यमिति उपपादयन् भट्टाचार्यवाक्येन स्वमतम् उपोद्बलयति—
इतः कविभ्यः कालिदासस्य वैशिष्ट्यं तद्वाक्यानां वेदवत्प्रामाण्यं च भट्टाचार्यपादैः प्रतिपादितम्। यथा—
“कवयः कालिदासाद्याः कवयो वयमप्यमी।
पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम्॥” इति।
अथ च वेदप्रामाण्यपुरःसरं कवेर्महिमानं व्यञ्जयति—
कवीनां लोकोत्तरत्वं वेदेऽपि विशिष्टदेवतावाचकत्वेन “अनन्तमव्ययं कविम्”, “कविं कवीनाम् उपमश्रवस्तमम्”, “कविं सम्राजमतिथिं जनानाम्” इत्यादौ प्रतिपादितत्वात्। व्यासवाल्मीकिप्रभृतिषु ब्रह्मणो मुखेन प्रतिपादनात् क्रान्तदर्शिनां कवीनां लोकोत्तरत्वम्।
चुलुकीकृताम्नायसागरोऽपि सायणाचार्यो न काव्यम् अवगणयति, प्रत्युत तस्य अभ्यर्हणीयताम् उररीकरोति—
रसभावगुणौचित्यघटनालङ्क्रियादयः।
काव्यादन्यत्र दृश्यन्ते कुत्र वा वेदशास्त्रयोः॥ १.५४
अलङ्कारसुधानिधिप्रतिपादितं काव्यलक्षणमेवं भवति—
लोकोत्तरगतावर्णवर्णनानिपुणः कविः।
तस्य कर्म भवेत्काव्यं रसभावनिरन्तरम्॥ १.६०
ईषदिव दुर्बोधेयं कारिका वृत्तिबलादुन्नेया। कविं लोकोत्तरगतावर्णवर्णनानिपुणं ब्रुवाणः सायणाचार्यो भट्टतौतस्य “तदनुप्राणनाजीवद्वर्णनानिपुणः कविः। तस्य कर्म स्मृतं काव्यम्” (काव्यानुशासने उद्धृतम्, १. ३) इत्येतद्विख्यातं वचनकदम्बकं व्यक्तमेव उपजीवति। अवर्णता ह्यवाच्यतापर्यवसायिनी अनवद्यता। कविकृता वर्णना यावच्छक्यं मुक्तदोषा स्यादिति तात्पर्यम्। रसभावनिरन्तरम् इत्येतत् पदम् आनन्दवर्धनोपस्थापितं रसादिं कटाक्षयति। सायणाचार्यः प्रायेण काव्यादर्शात् (१.१८) प्राप्तस्फूर्तिः पद्यपादमेनं जग्रन्थ॥
विविधप्रस्थानोपबृंहितम् अलङ्कारशास्त्रं सङ्गृह्णन् सायणाचार्यो रुय्यकप्रदर्शितं पन्थानमवलम्बते। यथोक्तम् अलङ्कारसर्वस्वे (१.१ वृत्तिः)—
“इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थं वाच्योपस्कारकतया अलङ्कारपक्षनिक्षिप्तं मन्यन्ते। तथा हि—पर्यायोक्त-अप्रस्तुतप्रशंसा-समासोक्ति-आक्षेप-व्याजस्तुति-उपमेयोपमा-अनन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन “स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्” इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः। रुद्रटेन तु भावालङ्कारो द्विधैवोक्तः। रूपक-दीपक-अपह्नुति-तुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः। उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। रसवत्प्रेयःप्रभृतौ रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः। तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव। वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङ्कारतयैवोक्तः। केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता। उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम्। विषयमात्रेण भेदप्रतिपादनात्। सङ्घटनाधर्मत्वेन शब्दार्थधर्मत्वेन चेष्टेः। तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम्। वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यस्य जीवितमुक्तवान्। व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे। अभिधानप्रकारविशेषा एवालङ्काराः। सत्यपि त्रिविधे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरा। उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः। केवलमुक्तिवैचित्र्यजीवितं काव्यं न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम्। भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। तत्राप्यभिधाभावकत्वलक्षणव्यापार-द्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः। ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनाव्यापारस्य अवश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव च व्यङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान्॥”
इत्थं काव्यमीमांसाम् आञ्जस्येन विदन्नपि सायणाचार्य आनन्दवर्धनाभिनवगुप्तयोरेव मतम् अङ्गीकुरुते। अन्यान् शास्त्रकृतः सर्वत्र एकवचनेनैव परामृशन् ताविमौ बहुवचनेन आचार्यशब्देन च विशिंषन् तद्विषयं गौरवं द्योतयति॥
सायणाचार्यः आनन्दवर्धनाभिनवगुप्तानुयायिना ध्वनिसमर्थकाग्रेसरेण मम्मटेन प्रणीतम् “तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि” (काव्यप्रकाशः, १.४) इत्येतत् काव्यलक्षणम् अनुसरति समर्थयते च॥
To be continued.