३. अलङ्कारसुधानिधेः स्वरूपं तत्कर्तृत्वं च
यदा हि उपात्तविद्यो द्वितीयः सङ्गमः स्वयं राज्यधुराम् अवोढ तदा सारस्वतानि कार्याणि निर्वर्तयितुं सायणाचार्येण पर्याप्तः अवसरोऽलम्भि। तथा हि उदयगिरिस्थितेन तेन १३५५ वर्षस्य १३६५ वर्षस्य चान्तराले विद्यमाने संवत्सराणां दशके अलङ्कारसुधानिधिः प्रणीत इति प्रतीमः॥
अलङ्कारसुधानिधौ उन्मेषनामानः सन्ति त्रयोऽध्यायाः। (वृत्तौ क्वचिदुल्लासशब्दः प्रयुक्त इत्यन्यदेतत्।) प्रथम उन्मेषः काव्यमार्गप्रतिष्ठापनमिति यथार्थमभिधानं धत्ते। द्वितीयस्तु गुणीभूतव्यङ्ग्यनिरूपणमिति व्यपदिष्टोऽपि नाम्ना सूचितं विषयं केवलमन्ते निरूपयति, अन्यानेव ध्वनिप्रमुखान् विषयान् प्राधान्येन प्रतिपादयतीति नैतदभिधानं चतुरस्रम्। तदास्ताम्। तृतीय उन्मेषः शब्दार्थालङ्कारान् लिलक्षयिषुः उपमेयोपमाया ऊर्ध्वं भग्नः सन् खण्डमात्रम् उपलभ्यते॥
तृतीयेऽध्याये चित्रकाव्यप्रकरणे कानिचन प्रक्षिप्तानि पद्यानि लक्ष्यन्ते। इमानि हि चमत्कारचन्द्रिका-काव्यप्रकाश-समुद्रबन्धकृतालङ्कारसर्वस्वटीका-देवीशतक-सरस्वतीकण्ठाभरणेभ्यो ग्रन्थेभ्यः सञ्चितानि। अत्र त्रयः अष्टदलपद्मबन्धाः, द्वौ षोडशदलपद्मबन्धौ खड्गबन्धौ चक्रबन्धौ च दृश्यन्ते। चमत्कारचन्द्रिका हि अलङ्कारसुधानिधेरनन्तरं विरचिता कृतिरिति, इमानि पद्यानि न सायणाचार्यं नतरां द्वितीयसङ्गमं नतमां विजयनगरसाम्राज्यम् उपश्लोकन्त इति च गमकं भागस्यास्य प्रक्षिप्तत्वं द्रढयति॥
ग्रन्थेनानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः समश्रायि सन्दर्भणक्रम इत्यवोचाम। यद्यपि पुष्पिकायां सायणाचार्य एव ग्रन्थकृदुक्तः, अथापि ग्रन्थमामूलचूडं परिशील्य युक्तिभिः परामृश्य च कारिकाकृत् वृत्तिकृत् उदाहरणपद्यकृच्च अन्य एवेत्यातिष्ठामहे॥
अत्रत्यानाम् उदाहरणपद्यानां रचयिता सायणाचार्यस्य कनीयान् भ्राता भोगनाथः। तेन हि पूर्वम् उदाहरणमालानाम्नी कृतिरारचिता, यस्या एव पद्यान्यत्र भूयिष्ठमुदाहृतानि।[1] कतिचन तु भोगनाथविरचितान्यकाव्येभ्य उद्धृतानि। तानि—त्रिपुरविजयं गौरीनाथाष्टकं रामोल्लासः शृङ्गारमञ्जरी महागणपतिस्तवः मूषिकाष्टकं च। गद्यचूडामणिनामा ग्रन्थः केवलं नाम्ना उट्टङ्कितः। इमानि च उदाहरणपद्यानि प्रायः सायणाचार्यम् आगूर्य विरचितानि। एभिः प्रतिपादिता विषयास्तु—सायणाचार्यस्य वैदुष्यं वाग्ग्मित्वं सम्प्रदायश्रद्धा मन्त्रित्वं विद्वत्पक्षपातो वदान्यत्वं शौर्यं रूपं शृङ्गारजीवनं गार्हस्थ्यजीवनं कीर्तिः सर्वपथीना सिद्धिश्च। अथ चात्र सङ्गमराजः सायणाचार्यकृतसङ्गमराजशिक्षणं सङ्गमसायणयोः उभयायत्तसिद्धिः इत्येवञ्जातीयका अपि विषयाः सन्ति॥
अमूनि हि श्रुतिपेशलानि पद्यानि तत्कर्तुः पटुपाणितां प्रकटयन्ति। विषमविकटान्यपि छन्दांसि लीलया निर्वोढुं समर्थस्य सुकवेर्भोगनाथस्य शब्दसम्पदपरिमिता विलोक्यते।[2] स न क्वापि मध्येरचनम् इदमदो वा पदं प्रयुञ्जीयेति विचिकित्सते। पदपाकपरिष्कृता शब्दार्थालङ्कृतिपरिकर्मिता च तद्वाणी प्रावृषेण्येव तरङ्गिणी निर्निबन्धा सरीसरीति। तदेवंविधेन कौशलेन कन्दलितो भोगनाथः प्रतिभानपाण्डित्यप्रतीकं स्वाग्रजयुगलम् अभ्यास इवानुधावन् सचेतसां चेतांसि धिनोतितराम्॥
अलङ्कारसुधानिधिगतानां कारिकाणां कर्ता सायणाचार्य एवेति पुष्पिकया प्रतिपद्यते।[3] इमाः कारिकाः प्रथम उन्मेषे अनुष्टुप्श्लोकेन द्वितीयतृतीययोश्च विविधैरार्याप्रभेदैः सन्दृब्धाः। अनुष्टुभा विरचिताः कारिका निरवद्यच्छन्दोगतयः सत्यो विवक्षितं विषयं वैशद्येन उपस्थापयन्ति। आर्याप्रभेदैः प्रणीतास्तु क्वचन भग्नगतयः स्खलन्तीव भान्ति। आर्यां गीतिम् उपगीतिम् आर्यागीतिं च तत्र तत्र सम्मिश्र्य यथाकथाच प्रयुञ्जानः कारिकाकृत् मात्रासङ्ख्यां गणव्यवस्थां च आविलयन्निव प्रतिभाति। यथोचितलेखने प्रमाद्यन् लिपिकृदत्र वाच्यः। एतदाकारकाणां स्खालित्यानां कारणान्तरमपि उत्पश्यामः—द्वितीय उन्मेषे विशिष्य रसभावनिरूपणावसरे दशरूपकम् अनुसरन् कारिकाकृत् तत्र अनुष्टुभा निरूपितान् अर्थान् आर्याप्रभेदैः प्रतिपादयितुकामः छन्दःपरिवर्तनाध्वनि कुण्ठितपादः स्खलति॥
वृत्तिकारस्तु न सायणाचार्यो न वा भोगनाथ इति वयमध्यवस्यामः। अत्रैतानि गमकानि भवन्ति। न भोगनाथो वृत्तिकृत्। यतः किल वृत्तौ बहुत्र प्रथमपुरुषप्रयोगेण स व्यपदिष्टः[4]। क्वचन हि ग्रन्थकाराः प्रथमपुरुषेणापि स्वं व्यपदिशन्तीति प्रायोवादः। परं बहवोऽन्ये उत्तमपुरुषेणैव आत्मानं ख्यापयन्ति। तत्तावदास्ताम्। भोगनाथो न वृत्तिकृदित्यत्र बलीयः साक्ष्यम् एवं भवति—वृत्तेः शैली उदाहरणपद्यानां शैल्या न स्तोकं संवदते। नापि सायणाचार्यो वृत्तिकारः। स तावदनुत्सेकधनः स्वात्मस्तुतिपराणि पद्यानि न जातुचिदुदाहरेत्। एवं च इहत्या वृत्तिः सायणविरचितेषु धातुवृत्ति-वेदार्थप्रकाशप्रभृतिषु ग्रन्थेषु दृश्यमानां प्रसन्नगम्भीरां गद्यशैलीं कलयापि न कलयति। सा च क्वचन व्याकृतिदोषदुष्टेति पूर्वमेव न्यरूपि। तस्माद्वृत्तिः केनाप्यन्येन विरचिता इत्यनुमीयते॥[5]
सायणाचार्यः कारिकाः स्वयं प्रणीय वृत्तिम् उदाहरणपद्यानि च रचयितुं स्वीयं शिष्यं सहकारिणं वा कमपि न्ययूयुजदिव भाति। स एष शिष्यः सहकारी वा सायणाचार्यं बहुमन्यमानः तत्स्तुतिपराण्येव पद्यानि सञ्चित्य उदाहार्षीत्। स प्रायेण भोगनाथेन सम्मन्त्र्य तत्पद्यानि ग्रन्थेऽस्मिन् न्यवीविशत्, वृत्तिं च स्वयं व्यररचत्। नूनमयं विद्याधर-विद्यानाथप्रभृतिभिः “प्रशस्ति”ग्रन्थकारैः प्रभावितः सन् तदुपज्ञपद्धतिपथिकः समभूत्। एकावली-प्रतापरुद्रीयप्रभृतयः प्रशस्तिग्रन्थाः कर्तुराश्रयदातारम् अभिष्टुवन्ति, अलङ्कारसुधानिधिस्तु कर्तारमेव साक्षात् स्तौति इत्येतावांस्तयोर्भेदः। तदेतत् ग्रन्थस्यास्य वैशिष्ट्यम्॥
कुतः किल सायणाचार्यः स्वीयं ग्रन्थं पूरयितुं कमप्यन्यं नियोजयामास? इयमस्माकं धारणा—स तावदमात्यपदवीम् अलङ्कुर्वाणो महतीं राज्यधुरां निर्वहते स्म, रणाङ्गणे च स्वयं युद्ध्यते स्म। अथ च पौगण्डवयसि स्थितं युवराजं द्वितीयसङ्गमं विनेतुं तत्स्थाने स्थित्वा राज्यं पालयितुं च रात्रिन्दिवं प्रयतते स्म। एवं कञ्चित्कालम् उदयगिरावतिवाह्य बुक्कराय-माधवाचार्याभ्यां वेदभाष्यप्रणयनाय विजयनगरं प्रत्याहूतस्तत्र जगाम। अस्मिन् महति सारस्वतसवने धृताध्वर्यवस्य सायणाचार्यस्य मानसं न मनागपि कार्यान्तरेषु व्यापारं सहते स्म। अस्यां स्थितौ अलङ्कारसुधानिधिं सकृदपि पुनरवलोक्य परिष्कर्तुं स न प्राभवत्। अत एव यथास्थितोऽयं ग्रन्थः परिष्कारसापेक्ष इति प्रतीयते॥
[1] प्रागेव प्रभुमुद्दिश्य चाटुश्लोका य ईरिताः। उदाहरणमालायां त एवात्रापि योजिताः॥ १.६
[2] क्वचित् पद्येषु यतिरुल्लङ्घिता सती पठनसौख्यम् अपाकरोति। तद्यथा हरिण्याम्—“व्यपदिशति ते बाह्यं श्रीसाय*णार्य कुलं द्विषाम्”, “विघटयति तद्वाक्ये विस्र*म्भभावमपह्नवे”। शार्दूलविक्रीडिते—“पादाग्रे पतनं मुहुः प्रणयको*पेक्षा च पर्वक्रमात्”, “नासावन्मनुजाग्निमारुतमव*न्ध्याग्नेयमन्तर्मनः”।
[3] “श्रीमत्सायणामात्यस्य कृतावलङ्कारसुधानिधौ”।
[4] “तेषामुदाहरणानि भोगनाथकाव्येषु द्रष्टव्यानि”। “भोगनाथविरचिते गौरीनाथाष्टके”। “भोगनाथभक्तिभावप्रतिपादनपरे”। “सखीसमावर्जनरूपनायकस्य भोगनाथादेर्वचनमिदम्”। “श्रीभोगनाथविरचितेषु गद्यचूडामणिप्रभृतिषून्नेयाः”।
[5] ग्रन्थादौ दृश्यमानाः केचन त्रुटिताः श्लोकभागा अत्र यच्छन्ति साक्ष्यम्—“…रसाश्चार्थसङ्ग्रहे [सा]यणप्रभोः। आज्ञया व्याक्रियन्तेऽर्था अलङ्कारसुधानि[धौ]”।
To be continued.