विपश्चिता तेन भरते वात्सल्यरसस्याभावः प्रदर्शितः[1]। नायं नूतनाक्षेपः । सर्वेऽपि विवेकिनो विशदानुभवशीलिनो निर्विवादमङ्गीकुर्वन्ति यद्रससङ्ख्यामीमांसापेक्षया रससिद्धान्तः परमं गरीयानिति । मुनिनापि भरतेन तत्र तत्र प्रादर्शि स्वागमे यच्छास्त्रविस्तरणं गच्छता कालेन यथोचितरीत्या सूरिभिः कार्यमिति । प्रायेण विधिमिममेव शिरसिकृत्वा नैक आलङ्कारिकमूर्धन्याः स्वं स्वं विचारं यद्भरतोपज्ञोपष्ठम्भकं प्राचीकटन् । समग्रमिदं शास्त्रमखण्डैकवृत्त्या जङ्गमशीलतया च ग्राह्यमिति सुधीमतां मतम् । तदिदं सर्वविद्यानामपि निर्वर्णनलक्षणमिति च गम्यते । अन्यच्च रतिर्नाम स्वात्मसंतर्पणभाव इति चिन्तयामश्चेदन्यैव या कापि संविद्विच्छित्तिः प्रस्फुरेद्यथा –
रतिः सकामा शृङ्गारो निष्कामा वत्सलत्वभाक् ।
अन्यच्च सर्वभावानां रसत्वाप्तिः क्वचिन्मता ॥
श्लोकोऽयं व्यापकं व्याख्यानमपेक्षत इति नात्र विस्तृतिरिष्यते ।
नाट्यवेदे रसस्तु कलाकृन्निष्ठो न तु सहृदयस्येति कोऽप्याक्षेपः[2]। अत्र कृष्णमूर्तिमहोदयस्यापि सहमतिरस्तीति सूचनापि काचिच्चकास्ति । अश्रद्धेयमिदं परमार्थतः । यतः -
नाभिज्ञाते सहृदये रसः किं वा प्रयोजनम् ।
कलालोकस्य सर्वस्य वक्रतावर्त्मनः परम् ॥
कलाकृद्यदि भोक्ता स्याद्रसस्यानन्यमात्रकः ।
तर्हि सोऽपि भवेत्स्वस्य निर्मितेः सहृदेव हि ॥
सर्वसामान्यविवेकवेद्यं यच्चरमगत्या रसो यदि न सहृदयहृदय आविष्कृतो न भवति तर्हि सर्वदा सर्वथा च तस्य वैतथ्यं वैयर्थ्यं च सिद्धम् । रसस्य मूलं वस्तुनि वा कलाकृति वा पात्रे वाप्यनुकर्तरि वा यत्र कुत्रापि स्यान्नाम ; परं तत्पर्यन्तभूमिः सहृदय एव । अस्याः सरण्याः साधनकाले प्रायेण लोल्लट-शङ्कुक-भट्टनायिकादीनां वादाः प्रसृताः स्युः । परं सर्वेऽपि तात्पर्येण सहृदयनिष्ठा इति निभालनीयम् । यथा सर्वाण्यपि भारतीयदर्शनानि वेदान्तपर्यवसायीनीति हिरियण्णवर्यमतं तथैवात्रापि ज्ञेयम् । किं बहुना भरतागमस्य प्रथमाध्याय एव विधातरि देवदानवमानवानां क्रीडनीयकाभ्यर्थनावधौ रूपकप्रेक्षकलक्षणनिरूपणे च तत्त्वमिदमेव स्फुरति ।
पुनश्च पोल्लाक् वर्यः अलङ्कारशास्त्रं नाट्यमीमांसापेक्षया क्वचिदर्वाचीनमपि मनुते[3]। एतदस्माकं विचारमूढमिति प्रतिभाति । यतः –
साहित्यगीतचित्राद्याः कला नाट्ये प्रतिष्ठिताः ।
अतस्तासां च मीमांसा तत्त्वदृष्ट्या सनातनी ॥
अन्यच्च लक्षणादीनां वृत्तीनां चिन्तने मुनिः ।
इतिवृत्तेऽपि तद्ब्रूते छन्दसां विवृतावपि ॥
प्रायेण बहवोऽपि विपश्चिदपश्चिमाः प्राच्यभारतीयसंस्कृतौ कालानुपूर्वीविषये विविधतत्त्वानां वादानामुपजीव्योपजीवित्वप्रसक्तौ विविधविषयानधिकृत्य तत्तद्ग्रन्थेषु समुपकल्पितस्थलपरिमाणतारतम्यविचारे च महतीं विचिकित्सां जनयन्तो विवादशालीनतायामेव स्वात्मानं धन्यं मन्यन्ते । किञ्च भारतीयनैसर्गिकभावरीतिः काचिद्विभिन्नैव । नूनमेतेषामुपरि निर्दिष्टानां विचाराणां महत्वं किमप्यस्त्येव । तथापि सर्वे च ते भारतीयसंवेदनस्य हृद्भागं न कदाप्यधिवसन्तीति तथ्यम् । केवलमङ्गभूताः खल्वेते । विवेकमिमं भूयोऽप्युपप्लावयन्तो महान्तोऽपि मुह्यन्ति मोहयन्ति च । तदिदमत्राप्यापतितम् । सर्वमिदं श्रीनरसिंहभट्टेन सम्यक्प्राबोधि स्वीयकृतिषु । नाट्यशास्त्रे षट्त्रिशल्लक्षणानां विवरणे व्याकरणालङ्कारच्छन्दोविचित्यादिषु काव्यमात्रस्य नैकान्यङ्गानि प्रपञ्चितानि । तथा चेतिवृत्त-वृत्ति-रूपकप्रभेद-सन्धि-सन्ध्यङ्गादिष्वपि काव्यसंबन्धीनि भूयांसि तत्त्वानि तत्र तत्र प्रस्फुरन्तीति प्रकटमेव ।
मान्यलेखकः क्वचित्काव्योक्तिर्नाट्यप्रयोगापेक्षया गरीयसीति मनुते[4] । अत्र तस्येङ्गितं तु श्रव्य-दृश्यकाव्ययोर्मध्ये किमपि वैमनस्यं जनयितुमिव प्रतिभाति । रुचीनां वैविध्ये यत्किमपि कथञ्चिदपि भवितुमर्हति । परं विशुद्धशास्त्रचिन्तनावसरे सर्वासामपि कलानां तत्तन्मात्रा कापि सार्वभौमिकी स्थितिर्जागर्तीति निःसंशयः । अन्यच्च प्रत्येकोऽपि कलाविशेषः स्वकीयं वैशिष्ट्यं यन्निजमितिमहितं बिभ्रतीति दृष्टचरमेव । यथा गाने याऽमूर्तता विशुद्धभावैकप्रवणता वर्वर्ति सा प्रायेण शब्दार्थमयकथनात्मकसाहित्ये मनागिव कनीयसी स्यात् । किञ्च वस्तुन एकस्य स्वभावप्रस्तावे नानाविधानां मूर्तामूर्तानां वस्तूनां वा भावानां क्रियाणां वा स्थलानां प्रस्तावमपि वक्रवाग्व्यापररूपेण सुलभतया समानेतुं साहित्ये शक्यं स्यात् । परमिदं गीते क्वचिन्नृत्ते वा सर्वथा दुःशकमिति दृष्टचरमेव । अथ च नृत्ये सकलानामपि सात्त्विकभावानां सूक्ष्मातिसूक्ष्मसुविशदसुनिपुणप्रकटीकरणं रससिद्धेन केनापि कलाविदा शक्यत एव । अस्याच्छमाक्षिकरसास्वादसदृक्षस्य तीव्रानुभवस्य जानुदघ्नमपि नायाति कदाचित्साहित्यरसचर्वणा । चित्र-शिल्पेषु या काप्यधिष्ठानसुषमा सुविस्तृता विलसति सा प्रतिक्षणोन्मीलितनिमीलितमधुरिम्णि कालप्रवाहतरलिम्नि गाने कथं वा परिलब्धुम्? अतः सर्वास्वपि कलासु या काप्यनिर्वचनीयविच्छित्तिरनन्या नानटीतीति निश्चप्रचम् । तदेव भङ्ग्यन्तरेण ब्रूते तत्रभवान्काव्यादर्शकारः[5] । अन्यच्च मनोरङ्गस्थले नाट्यायमानत्वेन विना न कासामपि कलानां कलात्वं, तन्नाम रसास्वादत्वं, शक्यत इति लोकत्रयानुभवः । तदेव पुनरत्र व्यपदिष्टं । यथा –
प्रयोगत्वमनापन्ने काव्ये नास्वादसंभवः ।
इति तौतीयवाक्येनाद्वैतं सर्वकलास्वपि ॥
दृढसंशयालुना विदुषा रसः कृतिगतो वा पात्रगतो वा सहृदयगतो वेति पुनश्च संशीतिमुत्थापयति[6]। तदिदमस्माभिः पौनःपुन्येन स्पष्टीकृतम् । हन्त! पुनश्च परापतति प्रकारान्तरेण पिशाचिकेयं समुच्चाटनार्थम् । उक्तं हि महतः शास्त्रस्य शतशताब्दविस्तृतस्य निर्माणान्वयकालस्य विविधानि चिन्तनानि महीयसापि विवेकेन स्वीकार्याणि परीक्ष्याणि निरूप्याणि च ।तदा ज्ञायत एवेदं तथ्यं यत्कविर्वा गायनो वा नटो वा चित्रशिल्पी वा स्वकलानिर्माणचिकीर्षायां यदा प्रेरितश्चान्तर्बहिश्च तदा बाह्यमिदं जगदान्तरमात्मनश्चित्तवृत्तीः कोऽपि सहृदय इव विविधकलाविशेषान्प्रतिमुहुर्निर्वर्ण्य तत्पश्चान्निजकलारचनायां व्यग्रो भवति । अस्मिन्नपि काले तदा तदा कर्तृत्वेन भोक्तृत्वेन ज्ञातृत्वेन विमृशयितृत्वेन चैवं बहुभूमिकामयेन भावेन स्वमेव निर्माणं परिशीलयन्ननुशीलयन्कामपि लोक-लोकोत्तरभावनामनुभवति । तत्पश्चादवसिते सति तत्कार्ये (काव्य-चित्र-शिल्पादिषु) प्रयोज्यमाणे वा (आशुकविता-गीत-नृत्यादिषु) सहृदयस्तद्रसं समास्वादयति । सर्वेष्वेतेषु स्तरेषु कारयित्री-भावयित्रीप्रतिभयोः पर्यायपातीनि कटाक्षाणि यद्यपि प्रविलसन्ति तथापि सहृदय एव समग्रसमास्वादनसंभवः । यतः कलाकृदेकः स्वीयकलाप्रेरणावधौ निर्माणावधौ वापि यदि रसानन्दं समनुभवति सहृदयास्तु नूनमसङ्ख्याका एव तस्य कलाकृतो निर्माणेन सर्वदा सर्वत्र च स्वादमास्वादयेयुः । अनेनापि विधिना ज्ञायते यत्पर्यन्ततो रसः सहृदयनिष्ठो यतः कलाकृदपि मूलतस्तत्त्वतः सहृदय एव । संदिहानाः केचन मन्येरन्यत्हृदयोऽपि स्वीयभावयित्रीप्रतिभात्वात्कलाविदेव किलेति । तदत्रास्माकं समाधानं कलाविदि द्वे अपि प्रतिभे स्थे । किञ्च सहृदये तावदेकैव । अनयोः सामानाधिकरण्याद्भावयित्रीति ह्येकैव तिष्ठति । अतः सर्वेऽपि सहृदयाः । अन्यच्च सहृदयत्वेन परमार्थत आस्वाद एव चिरं स्थास्यति सत्त्वोद्रेकस्वरूपी ; न तु रजःस्पर्शमयी निर्माणशक्तिरित्यभ्युपगम्यते ।इदमेव भारतीयसंवेदनसारं यदास्वादः साधनापेक्षया वरमिति । सर्वमिदमत्र सङ्क्षिप्तमेवम् –
कवेः कल्पनकाले तु वस्तुनिष्ठा रसादृतिः ।
काव्यनिर्माणवेलायां कृतिनिष्ठा भविष्यति ॥
रसिकस्य समास्वादे तन्निष्ठैवेति कथ्यते ।
परं सर्वमिदं स्वस्मिन्सर्वथा सर्वदा स्थितम् ॥
सङ्ख्यावानसौ ख्यापयति क्वचिदत्र भारतीयकाव्यपरम्परा बौद्धमूलीयेति[7]। इदं तु कौटिल्यवैकल्यभ्रान्त्यादिनैकेषां व्यभिचारिणां दुर्विलसितमिति सर्वथा भाव्यम् । यतः –
बौद्धानां काव्यमूलत्वं न कदाचन कल्प्यते ।
यतो वेदेषु तद्दृश्यं कलानामपि भूरिशः ॥
सर्वथा चित्तवृत्तीनां कलाद्वाराऽनुशीलनम् ।
समस्तनरलोकाप्तिर्मतं नात्र विशिष्यते ॥
इह जगति सर्वास्वपि नागरकतासु संस्कृतिषु च मूलभूताः कलाः स्वस्वोपज्ञा एवेति प्रेक्षावतामपरोक्षम् । काव्यं गीतं नृत्तं चित्रं वा प्रागैतिहासिकमानवा अपि कल्पयन्तः रञ्जयन्ति स्म स्वात्मान इति समूह्यमेव । कापि संस्कृतिः कस्मादपि जनसमुदायात्काव्यप्रकारं वा छन्दःप्रभेदं वा वक्रोक्तिभङ्ग्यन्तरं वा स्वीकुर्यान्न तु साक्षात्काव्यकलामेव । विशिष्य वेद-वेदाङ्ग-कथेतिहासवाङ्मयसमृद्धे सनातनधर्मे निवृत्तिमात्रमुग्धाद्बौद्धात्कथमिव शृङ्गारादिपुरुषार्थचतुष्टयप्रतिपादकरसमयस्य काव्यकलाप्रवरस्य सङ्ग्रहणसंभवः? अस्माभिः पूर्वमेव चिरन्तनतमस्य बौद्धकवेरश्वघोषस्य रामायणानृण्यता प्रत्यपादि । तथा च भारतीयकाव्यस्य सनातनधर्ममूलत्वं च प्रादर्शि नैकेषु प्रकरणेष्वित्यलम्[8] ।
वेदान्तदर्शनं नूनं रससिद्धान्तहृद्गतम् ।
अस्यार्वाचीनता नैव व्याख्याभिर्युज्यतेतमाम् ॥
काव्यशास्त्रकाञ्चनकशाश्ममानिना माननीयेन रसमीमांसा तु गच्छता कालेन 'वेदान्तीकृते’ति च कोऽप्यभियोगः कल्पितः[9] । इदं तावदत्यन्तमसन्मृगमरीचिकेवेति वच्मो वयम् । अवस्थात्रयमीमांसाकेन्द्रभूतस्य माण्डूक्योपनिषदो मूलस्रोतसस्तावदथर्ववेदस्य किल रसमूलत्वं मुनिना भाषितं पुरा! स्कम्भोच्छिष्टादिसूक्तेषु मुण्डकादिष्वप्युपनिषत्सु रससिद्धान्तस्य जीवातुभूतं ब्रह्मानन्दाद्वैततत्त्वं सुप्रसिद्धमेव । सर्वमिदं समीक्ष्य किं न केनापि याथार्थ्यं ज्ञायते? विचारोऽयं प्रथितयशोभिरानन्दकुमारस्वामिप्रमुखैर्नैकत्र नैकधा प्रपञ्चितमिति नास्माभिरत्र पुनर्विपुलीक्रियते ।
सहृदयंमन्येन तेन विदुषा क्वचिद्भारतीयानां रुचिभेदपरिज्ञानं नासीद्रसास्वादे लोकनीति-भावनीतीनामपि संवेदनं नासीच्चेति साकूतं समाक्षिप्यते[10]। विशिष्योदाहरणरूपेण मुग्धामन्तर्वत्नीं शकुन्तलां निराकुर्वता दष्यन्तेनानुष्ठिते निर्घृणकर्मणि रससिद्धान्तस्य किं वा दायित्वमिव च पृच्छति । हन्त! सर्वेषामीदृषामाक्षेपाणां मूलं तु कलास्वाद-लोकास्वादयोरद्वैतं कल्पयतां प्रयोजनैकलोलुपानां सत्त्वातिशायिनि साक्षिभावेऽपि रजोरूषितकर्तृत्व-भोक्तृत्व-मदाहङ्कारहुङ्कारिणां रसवैमुख्यमेव । तदिदं पर्यन्ततो ब्रह्मनिराकरणमेव, प्रत्युत निजानन्दन्यक्कारणमेव भवतीति पौनःपुन्येन प्रतिष्ठितमस्माभिः । यदि विश्वस्मिन्सत्यस्य सौन्दर्यस्य शिवस्य चापि भारतीयार्षभावस्य विरोधि किमप्यस्ति चेत्तदिदमेव रसविद्वेषणं व्युत्पत्त्याभासभावनं समाजसुधारणाभासदुरहङ्कारदुर्विलसितमिति निरूपयामो यथा –
रसास्वादनसंस्कारः शनैर्व्यञ्जनवर्त्मना ।
व्युत्पत्तिं विविधां सूते तत्र का परिदेवना ॥
परन्त्वानन्दमात्रेण सर्वसङ्कल्पताऽदृतिः ।
सिद्ध्यतीति स्वयं वेद्यं रसस्त्वव्याज एव हि ॥
नीतिः सामाजिकी रीतिर्व्याख्या वापि यदृच्छया ।
रसानन्दस्य न क्वापि कर्मदुर्वार्यमुच्यते ॥
यथा ब्रह्म समस्तानां कर्मणामुत्तरं तथा ।
रसानन्दोऽपि सर्वासां व्युत्पत्तीनामिति स्थितिः ॥
कदाचिदौचित्यं रसस्य नैतिक-सामाजिकमौल्यमार्गदर्शीत्यनुबुद्ध्यता साध्वनेन धीमता पुनरलङ्कृत्यशिरश्छेदन्याय इवास्य तत्त्वस्य कृपणतामपि कथयति[11]। परं न कारणानि विवृणोति । किञ्चास्मदविकलनिश्चयस्तावदौचित्यं सर्वासामपि व्युत्पत्तीनां परमायतनमिति । यतो दर्शनशास्त्रेषु विवेक इव साहित्यविद्यायामौचित्यम् । अत एव यथा नास्तिकास्तिकादिभेदानतिरिच्य सर्वाण्यपि दर्शनानि नित्यानित्यविवेकादिकं स्वस्वचिन्तनश्रेण्यां मोक्षोपायत्वेन स्वीकुर्वन्ति तथा समस्तान्याप्यालङ्कारिकप्रस्थानानि समामनौचित्यम् । विवेकमतीत्य नैतिक-सामाजिकादिमौल्यानां को वान्यः प्रबलतमो विद्यते विज्ञानदण्डः? तस्मादभियोगोऽयमप्यपास्त एव । तद्यथा –
कार्यकारणभावानां व्युत्पत्तीनां तथैव च ।
भूमिका त्वौचिती ह्येकाऽप्यनयाऽलं विवेकिनाम् ॥
ग्रन्थारण्यगन्धेभस्तावदसौ ग्रथनकुशलः स्वस्यालङ्कारशास्त्रपाण्डित्यतपसः परमं फलमिव रससिद्धान्त एव यातयाम इति गतरस इति चतुरतया कथयति[12]। तदिदं तस्य कृतिगीतस्य निगूढध्रुवपदमिव प्रतिभाति प्रेक्षावताम् ।
सावधिर्विवेकः परमविवेको निरविधिरिति प्रत्यहं प्रत्यूचुरस्मदुपाध्याया महामहोपाध्यायाः श्रीरङ्गनाथशर्माणः साहित्यालङ्कारवेदान्तवर्माणः । तदत्रान्वेयमित्यस्माकं भागधेयम् । अद्यापि वाल्मीकिरस्मान्रञ्जयति व्यासो निरञ्जयति चेति कालिदासः समञ्जयति ; कतिपयसहस्रवर्षप्राचीनाः केचन मोहन-हिन्दोल-मध्यमावतीत्यादिरागा अनुरागेण निबध्नन्ति ; भारतीयं नाट्यशास्त्रं नैकनट-नर्तकाभिनीतिभिरनुबध्नाति ; साञ्ची-एल्लोरा-बादामि-देवगडीयादीनि शिल्पानि समाह्लादयन्ति । एवमेवाधुनाधुननिर्मितानि कथानकानि चलच्चित्राणि गेयानि चास्मान्सममेव सन्तोषयन्ति भूषयन्ति च । सर्वत्र वयं रससूत्रेणैकेन सर्वानपि सुन्दरान्कलामणीन्स्वदेशीयान्विदेशीयान्वा समकालीनानन्यकालीनान्वा निरुपाधिकं निबध्नीमो निजहृदये च बध्नीमः । किमिदं नालं निदर्शनं रसतत्त्वस्य सदातनत्वार्थम्? नूनमिदं दर्शनमेव । रस-ध्वन्यौचित्य-वक्रतेति चतुःस्कन्धात्मकं भारतीयं सौन्दर्यशास्त्रं वस्तुतन्त्रत्वेन समग्रस्य विश्वस्यापि गर्वास्पदमिति निवेद्य विरम्यते । तदत्र सङ्ग्रहः –
यातयामं गतरसं रसतत्त्वं यदि स्वयम् ।
तर्हि मानुषसर्वस्वं नष्टमित्यवधार्यताम् ॥
मनसा मानवाः सर्वे मनोवृत्तिः सदातनी ।
विभावा यदि भिद्यन्ते भावानां का नु वा क्षतिः ॥
विभावा अर्थमात्रा हि भावा वै कामरूपिणः ।
अतः सर्वोऽप्यर्थजातः कामसेवापरायणः ॥
पाकपात्राणि भिद्यन्तां पाक एको हि सोऽप्यथा ।
भिद्यते यदि चैकैव बुभुक्षा तर्पणा तथा ॥
चोद्यं तावदभियोगकण्टकमालामध्ये क्वापि निजनम्रताकम्रकुसुमान्यपि स्रगाभासपरिपूर्त्यै गुम्फति माननीयो मनीषी[13] ।
स्वाभिप्रायविशुद्धीनां मितिसंशीतयोऽसकृत् ।
विदुषा भणिता आदाविति काचिद्विलक्ष्यता ॥
तदिदं सत्यमिति वयं श्रद्धधाना विरमामः ।
Notes
[1] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. pp. 28-29
[2] Ibid. p. 29
[3] Ibid. p. 30
[4] Ibid. p. 32
[5] इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरस्वत्यापि शक्यते॥(१.१०२)
[6] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 34
[7] Ibid. p. 37
[8] Ganesh, R., Ravikumar, Hari. The Bhagavad-Gita Before The Battle
[9] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. pp. 39-40
[10] Ibid. p. 47, 53
[11] Ibid. p. 54
[12] Ibid. 54-55
[13] Ibid. p. 48
Concluded.