२. रचयिता
२.१. अन्वयो गुरवश्च
सायणाचार्यः कर्णाटमध्यूषुषोः विप्रदम्पत्योः श्रीमती-मायणयोः पुत्रत्वेन जज्ञे। स हि कुलधनमिव बिभ्राणः श्रौतं तेजः गोत्रेण भारद्वाजः सूत्रेण बौधायनः स्वाध्यायेन यजुषा तैत्तिरीयः कुलेन होय्सळ-कार्णाटश्च बभूव। तत्कुलवृद्धाः हासन-शिवमोग्ग-चिक्कमगळूरुनामकेषु साम्प्रतं प्रसिद्धेषु प्रदेशेषु अवात्सुरिति तद्विदो वदन्ति। इमे च प्रदेशाः पुण्यक्षेत्रं शृङ्गगिरिं निकषा सन्ति, यत्र गतः सायणाचार्यः सर्वा अप्यनवद्या विद्या अधिजगे। तदग्रजो माधवाचार्यः पारिव्राज्यमुपाश्रित्य विद्यारण्य इत्यन्वर्थेन अनन्यगामिना च नाम्ना पप्रथे। सिङ्गले तस्य अनुजा भोगनाथश्च कनीयान् भ्राता। माधवाचार्यस्तु सायणाचार्यात् द्वित्रवर्षैः ज्यायान्। अनयोः कनीयसी सिङ्गलाम्बिका। भोगनाथश्च मायणापत्येषु कनिष्ठ इति कुटुम्बकवृत्तसङ्क्षेपः॥
अलङ्कारसुधानिधौ विद्यमानानि कानिचन पद्यानि सायणाचार्यस्य गार्हस्थ्यं जीवनं परिचाययन्ति। एभिर्विज्ञायते यत्तस्य कम्पण-मायण-शिङ्गणनामानः त्रयो मनोजवसाः पुत्त्रा बभूवुरिति। कम्पण इति विजयनगरस्थापकेषु सङ्गमसहोदरेषु अन्यतमो राजा, यत्स्मृत्या प्रायेण सायणाचार्यः स्वीयं ज्येष्ठपुत्त्रं कम्पणनामानं विदधे। मायण इति माधवस्य कर्णाटभाषायां रूपम्, यदेव सायणाचार्यस्य पितुरग्रजस्य च नाम। अलङ्कारसुधानिधेः आविष्कर्ता रा. नरसिंहाचार्यवर्यः सायणाचार्यस्य भार्याया नाम हिमवतीति स्पष्टमाचष्ट,[1] किन्तु साम्प्रतमुपलभ्यमानासु मातृकासु नैतन्नाम दृश्यते। यदा तु नरसिंहाचार्य एवमभ्यधात्, तदा कस्याञ्चिन्मातृकायाम् इदं दृष्टम्, तत उत्तरं त्रुटितं च स्यात्॥
कदा खलु सायणाचार्यः स्वजनुषा भुवमलञ्चकारेति ज्ञातुं माधवाचार्यजीवनवृत्तान्तः शरणीकरणीयः। माधवाचार्यः १३७७ तमे वर्षे[2] निर्धूतभवबन्धः संन्यासं जग्राहेति नागलापुरनाम्नि ग्रामे स्थितेन शिलालेखेन विज्ञायते।[3] तदा हि सोऽशीतिवर्षदेशीयः समभूत्। अनेन च १२९५ तमे १२९६ तमे वा वर्षे स जज्ञे इति शक्यमध्यवसातुम्। शृङ्गगिरिस्थितात् हरिहरकृतात् ताम्रशासनात् आर्यगृह्योऽयं १३८६ तमे वर्षे भौतिकं देहं विसृज्य विदेहमुक्तिं लेभे इति निश्चीयते।[4] एभिः साक्ष्यैः सायणाचार्यः १२९७ तमे १२९८ तमे वा वर्षे जात इति सम्प्रतिपत्तुमर्हामः। एवं जातः स वर्षाणां नवतिं यावत् कर्मयोगमनुष्ठाय अनन्यसाधारणानि कार्याणि सलीलं ससाधेति महान् प्रकर्षो हर्षस्य सनातनधर्मानुरागिणाम्॥
समानवयस्कौ माधवसायणौ अतुल्यचरितावपि परस्परं तुल्यधर्माणौ, मनसा वाचा कर्मणा च मिथोऽनुकूलौ सनातनधर्मं समर्धयामासतुः। उभावपि शृङ्गगिरिशारदापीठस्य दशमाधिपतेः विद्यातीर्थस्वामिनः सन्निधौ श्रेयःपारम्परीप्रसूं परां विद्यां निपुणम् आकलयामासतुः। यतीशाने तस्मिन् महतीं श्रद्धां वहन्ताविमौ स साक्षात् परमेश्वर इति व्यस्रम्भेताम्। यदुक्तं सायणाचार्येण—
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ (कृष्णयजुःसंहिता, उपोद्घातभाष्यम्, ७)
यद्यपि सायणाचार्यस्य कृतिषु विद्यातीर्थ एक एव तद्गुरुत्वेन स्मृतः संलक्ष्यते, अथापि माधवाचार्यस्य गुरवः श्रीकण्ठ-भारतीतीर्थ-शङ्करानन्दा अपि तं प्राबोधयन्निति नः प्रेक्षा॥
सायणाचार्यः स्वाग्रज इव सम्यगाराधितविविधविद्याविद्योतितचेताः चतसृषु श्रुतिषु षट्सु वेदाङ्गेषु आयुर्गान्धर्ववेदयोः धर्मार्थशास्त्रयोः षट्सु दर्शनेषु द्वयोरितिहासयोः अष्टादशसु पुराणेषु च कृतभूरिपरिश्रमः सर्वत्र अप्रतिहतगतिरभूदिति न खलु तिरोहितं तद्ग्रन्थावलोकिनाम्। अतः स्वजीवितावधेः आद्यानि माकिं त्रिंशतं वर्षाणि तेन अध्ययन एव अतिवाहितानीति तर्कः प्रसीदति। स एष मन्त्रोच्चारण इव मन्त्रालोचनेऽपि, हवेष्विव आहवेष्वपि कृतहस्त इति अदसीयग्रन्थगतकतिपयपद्येभ्यः स्फारीभवति॥
२.२. राज्यतन्त्रधौरन्धरी
माधवसायणयोः प्राञ्चो वंश्याः सङ्गमकुलगुरुपदवीम् अलञ्चक्रुः। सेयं पदवी एताभ्यामपि भ्रातृभ्यां भूषिता बभूव। एवमश्रौष्म—सङ्गमस्य पञ्च पुत्त्रा हरिहरः कम्पणो बुक्करायो मारप्पो मुद्दप्पश्च होय्सळसम्राजः तृतीयबल्लाळस्य सेनाप्रमुखा अभूवन् इति। ते च होसपेटेनाम्न्यां होय्सळसाम्राज्यस्य औदीच्यां राजधान्याम् अधिकृता इति। १३३० वर्षाभ्यन्तरे वर्षीयसि तृतीयबल्लाळनृपतौ शीर्यमाणशरीरे तत्पुत्त्रः चतुर्थो बल्लाळो राज्यधुरां वोढुं नितरामसमर्थोऽभूत्। तदात्वे समग्रा दक्षिणापथमेदिनी निष्करुणैः तुरुष्कैराक्रम्यमाणा बहुतरं ससाद विषसाद च। एवम्भूते व्यतिकरे क्षात्त्रतेजसा भ्राजमानाः सङ्गमराजस्य पुत्त्राः तत्रभवतो माधवाचार्यस्य ब्राह्मं वर्चः पुरोधाय विजयनगरसाम्राज्यं प्रत्यतिष्ठिपन्। इत्थं राज्यलक्ष्मीं होय्सळवंशात् सङ्गमवंशं प्रति तृतीयबल्लाळस्य महिषी श्रीवीरकेक्कायी दीपाद्दीपं द्युतिमिव प्रदीपिका सङ्क्रामयामास॥
माधवाचार्यः प्रथमं हरिहरं बुक्करायं च, सायणाचार्यः प्रथमं कम्पणं द्वितीयं सङ्गमं च प्राबूबुधताम्। संन्यस्तसङ्कल्पे तुरीयाश्रमम् उपतस्थुषि माधवाचार्ये सायणाचार्य एव तदीयानि राज्यतन्त्रसम्बन्धीनि कार्याणि निर्वर्तयितुं प्रारेभे, तदानुगुण्येन बुक्करायं द्वितीयं हरिहरं च प्रबोधयाञ्चकार। उदयगिरौ स्थितः प्रथमः कम्पणो विजयनगरसाम्राज्यसंस्थापने माधवाचार्येण प्रदर्शितां चातुरीं दर्शं दर्शं विस्मयमानः साम्राज्यमितोऽपि उत्कर्षं नेतुं तन्मार्गदर्शनम् अचीकमत। माधवाचार्यस्याज्ञया च सायणाचार्यं स्वमन्त्रित्वेन १३४६ तमे वर्षे न्ययूयुजत्। गच्छता कालेन व्याधिभिः पीड्यमानः सन् स्वं पुत्त्रं द्वितीयसङ्गमं पालयितुं सायणाचार्यं प्रार्थयामास। तदित्थं १३४६ वर्षमारभ्य १३६५ वर्षं यावत्सायणाचार्यः उदयगिरौ स्थित्वा युवराजं राज्यं च पालयामास। अथ कदाचित् चोळमहीपतिः चम्पशाम्भुवरायो व्याधिबाधितं प्रथमं कम्पणं विज्ञाय विजयनगरम् अभिद्रोतुमुदयुङ्क्त। सततोत्थितः सर्वतश्चक्षुः सायणाचार्यः स्वीयेन स्पशजालेन तामेनां वार्तां विदित्वा अनुपदमेव महतीं सेनां सन्नह्य मधुरापुर्यभिमुखं प्रस्थाय काञ्च्यां सम्पन्ने साम्पराये चम्पशाम्भुवरायं पराजित्य च विजयनगरीम् अन्वर्थयामास॥
सायणाचार्यः १३५५ वर्षं यावत् द्वितीयसङ्गमं पर्यपालयत्। सिंहासनमारूढे तस्मिन् प्रधानामात्यस्थानम् अलङ्करिष्णुः सकलजनकल्याणैषिणीं राज्यनिर्वाहनैपुणीं प्रादर्शयत्। इत्थं संवत्सरदशकानन्तरं राज्यस्य शुभोदर्कं निश्चित्य राजानम् अनुचरितुं स्वानुजं भोगनाथमाज्ञाप्य विजयनगरं प्रति प्रातिष्ठत।[5] गच्छता कालेन भोगनाथः सङ्गमराजस्य नर्मसचिवः समभूत्॥[6]
एतावता च प्रथमहरिहरानन्तरं माधवाचार्यप्रदर्शितमार्गो बुक्करायः साम्राज्यं पालयति स्म। सनातनधर्मं परिरक्षितुं परिपोषयितुं च बद्धदीक्षौ गुरुशिष्यौ वेदभाष्यप्रणयनाय सायणाचार्यं चोदयाञ्चक्रतुः। स च तयोराज्ञां शिरसा वहन् दैवदुर्लभमिदं कर्म श्रद्धया निरवीवृतत्, पूर्वमारब्धायां सुधानिधिनाम्न्यां कृतिश्रेण्यां नैकान् ग्रन्थांश्च अररचत्। सेयं सुधानिधिसरणिः बुक्करायानन्तरं राज्यं शासति हरिहरमहीपाले समाप्तिमगात्॥
२.३. सारस्वतसिद्धिः
यावत् सायणाचार्यः सारस्वते स्रोतसि मिमङ्क्षुरभूत् तावता पराम् अपरां च विद्यां प्रतिनिदधत्सु सर्वेष्वपि विद्यास्थानेषु महान्तो भूयांसश्च ग्रन्था अन्यैः सङ्ख्यावद्भिः प्राणायिषत। एवं च तदात्वे तुरुष्काक्रमणेन मुषिता सनातनी वाङ्मयश्रीः राहुग्रस्तेव चन्द्रकला हतप्रभाभूत्। अतः कालोऽयं सकलविद्यासङ्कलनस्येति सायणाचार्यः स्पष्टमकलयत् तस्यां दिशि आत्मानं व्यापारयितुं समकल्पयच्च॥
यद्यपि स्वतन्त्रग्रन्थान् रचयितुमावश्यकीं वैपश्चितीं सायणाचार्यः स्वात्मनि धारयामास, अथापि स भूयसा भाष्याणि व्याख्यानानि टिप्पणीः फक्किकाः प्रमेयसङ्ग्रहात्मिकाः कृतीश्च सरलसुभगया सर्वसुग्रहया शैल्या प्रणिनाय। निनाय च परम्पराप्राप्तां ग्रन्थराजिं रक्षापथं प्रति। अत एव परमतनिराकरणप्रवणान् शास्त्रसद्भावापेक्षया शास्त्रपरिष्कारं पुरस्कुर्वतश्च वादग्रन्थान् नायम् उपनिबबन्ध। अथ च तुरुष्काक्रमणपरित्रस्तान् विदुषः सङ्गमय्य तन्मयीं महतीं पण्डितमण्डलीं च समायोज्य तद्द्वारा बह्वीः कृतीः कारयामास। यदवधि स्वामिविद्यारण्योपदर्शितेन पथा विजयनगरसाम्राज्यं पुरः ससार तदवधि परार्थैकपरैः प्राज्ञैः काप्यभिख्या सनातनधर्मस्य उपाकल्प्यत॥
ततः सहस्रात् समानां प्राक् गुप्तान्ववायैः पार्थिवैः भारतवर्षम् अभ्युदयस्य परां काष्ठां प्रापितम्। तदा हि त्रय्याम् आन्वीक्षिक्यां वार्तायां दण्डनीतौ, किं बहुना चतुष्टय्यां च पुमर्थस्य सकलवर्णशुभङ्करी शिष्टजुष्टा श्रीरतिवेलम् उदजृम्भत। माधवसायणाभ्यां परिपालितं विजयनगरसाम्राज्यमपि गुप्तोर्जितेन पथा पदं निदधत् सार्वजनीनां समृद्धिम् असाधयत्। यदि माधवसायणौ नाभविष्यतां नाद्यत्वे सनातनधर्मानुयायिनो वयं प्राणिष्याम। तत्ताभ्यां महद्भ्यां नतिततीः समर्पयाम॥
सायणाचार्येण इमे ग्रन्थाः प्रायोऽनेनैव क्रमेण व्यरचिषत—
- सुभाषितसुधानिधिः
- कर्मविपाकापरनामा प्रायश्चित्तसुधानिधिः
- माधवीया धातुवृत्तिः
- आयुर्वेदसुधानिधिः
- अलङ्कारसुधानिधिः
- पुरुषार्थसुधानिधिः
- वेदार्थप्रकाशः
- यज्ञतन्त्रसुधानिधिः
एषु सुभाषितसुधानिधिप्रथमा अलङ्कारसुधानिध्यन्ताश्च ग्रन्थाः प्रथमकम्पणे द्वितीयसङ्गमे च शासति उपन्यभन्त्सत। पुरुषार्थसुधानिधिः आञ्जस्येन वेदार्थप्रकाशस्य केचन भागाश्च बुक्कराये शासति समदर्भिषत। वेदार्थप्रकाशस्य शिष्टा भागा यज्ञतन्त्रसुधानिधिश्च द्वितीयहरिहरे शासति अग्रन्थिषत इति ज्ञेयम्॥
वेदार्थप्रकाशो हि समग्रं वेदं व्याचिख्यासोः परिणतप्रज्ञस्य सायणाचार्यस्य पक्त्रिमं फलम्। वेदभाष्यपरम्परायामस्य ग्रन्थप्रवेकस्य वर्तते विशिष्टं स्थानम्। वेदस्य विविधाः शाखाः सायणाचार्यः प्रायोऽनेन क्रमेण व्याख्यत्—
- तैत्तिरीयसंहिता तैत्तिरीयब्राह्मणं तैत्तिरीयारण्यकम्
- ऋग्वेदसंहिता ऐतरेयब्राह्मणम् ऐतरेयारण्यकम्
- सामवेदसंहिता ताण्ड्यब्राह्मणं षड्विंशब्राह्मणं सामविधानब्राह्मणम् आर्षेयब्राह्मणं देवताध्यायब्राह्मणं छान्दोग्यब्राह्मणं संहितोपनिषद्ब्राह्मणं वंशब्राह्मणम्
- शतपथब्राह्मणं काण्वसंहिता
- अथर्वसंहिता
अमीषां ग्रन्थानां विशिष्य वेदार्थप्रकाशस्य प्रणयने बहवः सङ्ख्यावन्तः सहचक्रुः। सायणाचार्यस्तु विविधासु वेदशाखासु नदीष्णान् विदुषः समग्रे भारतदेशे अन्वेषमन्वेषम्, तांश्च विजयनगरम् आह्वायमाह्वायम्, तान् यथोचितं पोषयितुं राजानम् आदेशमादेशम्,[7] गभीरान् शास्त्रार्थांस्तैः सह वादं वादम्, शास्त्रार्थोद्घाटितान् ग्रन्थग्रन्थीन् शिथिलयितुं माधवाचार्यं श्रायं श्रायम्, सम्भूय स्वातन्त्र्येण च ग्रन्थान् रचयितुं व्युत्पन्नान् चोदं चोदम्, तद्रचिताः कृतीः परिष्कारं परिष्कारम्, स्वयं च प्रत्यहम् अधीतिबोधाचरणप्रचारणानि अनुष्ठायमनुष्ठायं च महान्तमनेहसम् अतीयाय। तमेनम् अप्रतिमं सारस्वतोद्यमं मनसा परिभावयन्तो विनयावनता वयं रोमाञ्चकञ्चुकितकायाः स्मः॥
[1] Annual Report of the Mysore Archaeological Department, 1908. p. 27
[2] वर्षनिर्देशिकाः सर्वा अत्रत्याः सङ्ख्याः सामान्यशकगणनाम् अनुसरन्ति।
[3] Epigraphia Carnatica, vol. 6. p. 304
[4] Mysore Archaeological Report, 1933, pp. 138
[5] सायणाचार्यस्य प्रसृत्वरा कीर्तिः सम्पूर्णं विजयनगरं व्यानशे। अत्र किमपि विशिष्टं गमकमुपलभामहे—कृष्णदेवरायः सायणापुरनामानम् अग्रहारं स्वगुरवे व्यासराजाय १५१३ तमे वर्षे समर्पयामास।(South Indian Inscriptions, vol. 4, p. 72)
[6] भोगनाथेनैव रचिते बिट्रगुण्टप्रदेशस्थिते ताम्रशासने एवं पठ्यते—“इति भोगनाथसुधिया सङ्गमभूपालनर्मसचिवेन।” (Epigraphia Indica, vol. 3, p. 24)
[7] अत्र प्रभूतानि सन्ति साक्ष्याणि। तद्यथा—द्वितीयो हरिहरः नारायणवाजपेयि-नरहरिसोमयाजि-पण्ढरिदीक्षितनामभ्यः श्रुतिप्राग्रहरेभ्यः अग्रहारान् अदात् (Mysore Archaeological Report, 1908, p. 14)। स एव महीपो बोन्नलापुरनामानं बृहत्परिणाहम् अग्रहारं स्वमातुः स्मृत्या षट्त्रिंशते विद्वद्भ्यः समर्पयामास। स्वीकर्तॄणामाद्य आसीत्सायणाचार्यः। स च निःस्पृहः स्वभूभागं वेदकोविदाय रामचन्द्रभट्टाय अनुपदं समर्पयामास (Mysore Archaeological Report, 1914–15, p. 42)॥
To be continued.