“इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयं यदि शब्दाह्वयं ज्योतिरा संसारान्न दीप्यते” इत्येतद्दण्डिवचनं श्रद्दधानैः किल भारतीयैः भुवनभासिका भारती पुष्कलं समुपासिता समर्धिता च। अस्मत्प्राचीनैः साक्षात्कृतधर्मभिः दैवी वागन्वभावि; लौकिकी च वाक् समस्कारि। यथा हि शाब्दिकाः कृतकेतरां वाचं यथावदन्वाख्याय मानुषीं भाषां बहुधा व्याचक्रुः, तथैव छन्दःशास्त्रज्ञाः श्रुतिं छन्दःसञ्ज्ञां यथावत् समाम्नाय लौकिकानि बहूनि छन्दांसि प्रतिपादयामासुः। वेदपुरुषस्य चरणत्वेन छन्दः स्वीकृत्य तद्वर्णनव्याजेन विश्वविसृत्वरं पदविलासं ते वर्णयामासुः। छन्दःशास्त्रं वेदाङ्गमपि काव्याङ्गमपि। वेदवारिधौ पुप्लूषमाणेभ्यः काव्यसागरम् उत्तितीर्षुभ्यश्च तदेतदनिवार्यम्। किं बहुना, छन्दःशास्त्रं वैदिकं वाङ्मयं लौकिकेन सम्बध्नातीति सन्तोषस्य परा काष्ठा तदुभयजुषाम्॥
छन्दोऽध्ययनं प्राचीनैः प्रायेण लक्ष्यलक्षणसमन्वयमात्रपर्यवसायि प्रवर्तितम्। आधुनिकाः पुनरैतिहासिकं गणितीयमिति द्वेधा विभज्य तत्प्रवर्तयन्ति। अस्त्वनयोः साङ्कर्यं क्वचित्। अन्यविषयप्रस्तोतारः प्राज्ञा उभयत्र सन्ति। ते तावदल्पसङ्ख्याकाः। व्यपदेशास्तु प्राधान्येन भवन्तीति सर्वमनवद्यम्। इत्थं प्रवर्तमाने छन्दःशास्त्रे तत्सौन्दर्यम् अपहस्तितमिव, उपेक्षितमिव, प्रस्मृतप्रायमिव चाभूत्। तच्च प्रत्यभिज्ञातुं गतितत्त्वम् अवश्यम् आकलनीयमिति मन्यमानेन तत्र भवता कृष्णभट्टेन छन्दोगतिनामा नूतनो ग्रन्थः प्रणीतः॥
सेडियापुग्रामाभिजनो भट्टोपाह्वः कृष्णवर्यः (१९०२–१९९६) आयुर्वेदवैद्यः सन् कन्नडभाषाम् अध्यजीगपत्। प्रज्ञाचक्षुरसौ धीमान् (जीवितस्योत्तरार्धे नेत्रपाटवेन विलोपितः) सर्वमपि विचारं युक्तिप्रत्युक्तिकोटिभिः पर्यालोच्य प्रतिपादयति स्म। अनारोग्येण दारिद्र्येण च बाल्यात्प्रभृति पीडितोऽप्यमन्देनाभियोगेन भगवतीं सरस्वतीं चिरं सिषेवे। “नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते” इतीदं मल्लिनाथवचनं प्रमाणयतानेन धीमता यद्यदारचितं तदत्यन्तं बोधमोदनान्तरीयकं समजनि। लेखोद्योगः कुतः प्रारब्धव्य इति विवृण्वता तेन त्रीणि कारणान्युपात्तानि—सर्वप्रयोजकं नूतनं कमपि विषयं प्रतिपादयितुम्, परम्परया समाम्नातस्य कस्यचन विचारस्य परिधिं विस्तारयितुम्, कञ्चन दुर्व्याख्याविषमूर्च्छितं विचारं सञ्जीवयितुं चेति। सर्वाण्यपीमानि तत्र भवता निजनिबन्धेष्वविकलं पाल्यन्ते। छन्दो-निरुक्त-व्याकरणादिषु शास्त्रेषु गभीरां गतिं वहन्नयं सङ्ख्यावान् अन्यैरचुम्बितान् विषयान् विशयलेशविवर्जितान् विधाय विशदयति। छन्दःशास्त्रमागूर्य ’छन्दोगति’, ’कन्नड छन्दस्सु’ इति द्वौ मौलिकौ ग्रन्थौ स व्यरीरचत्। ’तथ्यदर्शन’, ’कॆलवु देशनामगळु’, ’विचारप्रपञ्च’ चेत्यादयः तदीयाः कन्नडग्रन्थाः। तमेनं बहुभाषाभिज्ञं पम्पप्रशस्तिप्रमुखाणि सम्माननानि पर्यभूषयन्॥
छन्दो हि वृत्त-मात्राजाति-कर्षणजातिभेदेन त्रेधा विभज्यते। कृष्णभट्टवर्येण त्रिविधमपि छन्दः सविमर्शं व्याख्यातम्। छन्दोगतिनामके ग्रन्थे वृत्तानि मात्राजातयश्च वर्ण्यन्ते। ’कन्नड छन्दस्सु’ इत्यस्मिन् ग्रन्थे तु कर्णाटविषयाः कर्षणप्रधाना जातयः प्रतिपाद्यन्ते। इत्थं समग्रमपि छन्दःशास्त्रं तेन सनाथीकृतम्। इदं च सङ्गीतशास्त्रस्य नेपथ्ये साधितमिति शास्त्रयोरनयोः समानतन्त्रत्वं द्रढयतितराम्॥
छन्दोगतौ हलायुधकृतव्याख्यासंवलितानि छन्दःसूत्राणि, सुधाव्याख्यानसंवलितं नामलिङ्गानुशासनम्, जयकीर्तिविरचितं छन्दोऽनुशासनम्, अभिनवभारतीसंवलितं नाट्यशास्त्रम्, शार्ङ्गदेवरचितः सङ्गीतरत्नाकरः चेत्यादयः शास्त्रश्वासभूता ग्रन्थाः पौनःपुन्येन समाश्रीयन्त इत्युत्सवः सुधियामलम्। ग्रन्थेऽस्मिन् नव परिच्छेदाः सन्ति। अध्यायान् परिच्छेदशब्देन निर्दिशता ग्रन्थकृता स्वीया विवेकवाञ्छा निष्कर्षप्रवणता च न्यरूपि॥
अनेन लेखेन ग्रन्थस्यास्य दिङ्मात्रं परिचयः क्रियते। प्रतिपदविशदं विविधविनूतनविषयनिरूपकं च ग्रन्थं लघुकायेन लेखेन परिचाययितुं प्रवृत्तोऽहं चोद्यतां प्रतिपद्येय। अथापि यथाप्रतिभं प्रयते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्!
अथ छन्दःशब्देन विचारः प्रारभ्यते। शब्देनानेन वेदः, वेदाङ्गं किञ्चन शास्त्रम्, पद्यम्, इच्छा, कामचार इत्यादयो बहवोऽर्थाः सूच्यन्ते। तथा हि “छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः” इति मेदिनी। एषु कःस्वित् प्रधानोऽर्थः? न कोऽपि; गुरुलघुविन्यास एव छन्दःशब्दस्य प्रधानोऽर्थ इत्यातिष्ठते कृष्णभट्टवर्यः। कथमिति जिज्ञासायामुच्यते। शब्दाः खल्वक्षरसङ्ख्यानेन मात्रासङ्ख्यानेन च मीयन्ते। गणेशः, माधवः, कुचेल इत्येते शब्दा अक्षरसङ्ख्यया मात्रासङ्ख्यया च समानाः। यतः प्रत्येकं तेषु त्रीण्यक्षराणि पञ्च मात्राश्च विद्यन्ते। एवं स्थिते कस्तेषां विभाजकोपाधिः? गुरुलघुविन्यासः। स एव छन्दः। अनेन “छन्दोहीनो न शब्दोऽस्ति नच्छन्दः शब्दवर्जितम्” इत्यस्य प्राचीनवचनस्य ’गुरुलघुविन्यासविरहितः शब्दो नास्ति, शब्दादृते गुरुलघुविन्यासो नैव जायते’ इति स्वरसो युक्तिसहश्चार्थः सिद्ध्यति॥
अथ गतिशब्दः। अनेन तावदाकर्षिका छन्दःसरणिः सूच्यते। छन्दःसरणेराकर्षकत्वं गद्ये पद्ये च दृश्यते। इदं च गद्ये नैयत्येन न लक्ष्यते। पद्ये तु नैयत्येनैव लक्ष्यते। अतो नियता गतिः पद्यस्य लक्षणम्, अनियता च गद्यस्य लक्षणम् इत्यवसीयते। निगदव्याख्यातमेतत्॥
सामान्यतः पद्यं वृत्तजातिभेदेन द्वेधा विभज्यते। किं वृत्तलक्षणम्? किं पुनर्जातिलक्षणम्? स्मर्यते हि किञ्चन प्राचीनं वचनम् “पद्यं चतुष्पदं ज्ञेयं वृत्तं जातिरिति द्विधा। एकदेशस्थिता जातिर्वृत्तं गुरुलघुस्थितम्” इति। अस्य पाठान्तरं किञ्चित् “एकदेशस्थिरा”, “गुरुलघुस्थिरम्” इति शब्दौ प्रस्तौति। तौ समीचीनौ कथयन् कृष्णभट्टवर्यो वृत्तस्य जातेश्च निर्दुष्टं लक्षणं प्रतिपादयति। तथा हि गुरुलघुस्थिरत्वं सर्वदेशस्थिरत्वं वा वृत्तस्य लक्षणम्। कस्यचन वृत्तस्य लक्षणत्वेनाभ्युपगतो गुरुलघुविन्यासः सर्वथा तन्निबद्धं पादं (यद्वा पादौ, अर्धसमेषु वृत्तेषु) पद्यं काव्यं चाञ्जस्येन प्रतिनिधत्ते। जातिस्तु न गुरुलघुस्थिरा। जातिशब्देन गुणैः साम्यं भजतां पदार्थानां समूहो बोध्यते (genus)। तस्मिंश्च समूहे विविधा व्यक्तयो भवन्ति (species), यासां प्रतिस्वं बहूनि वैशिष्ट्यानि विलसन्ति। तथा हि मात्रासङ्ख्यया साम्यं भजमाना आर्या-गीति-आर्यागीत्यादिभिः छन्दोभिः सन्दृब्धा रचना जातिवर्गे भवन्त्यन्तर्गताः। किञ्च तासु प्रत्येकं पादे पद्ये च वैशिष्ट्यं भवति। अत्रोपजातिरपि भागमर्हति। अनुष्टुप्श्लोकोऽपि वर्गेऽस्मिन्नेव गणनां भजेत, यतस्तस्य सर्वदेशस्थिरत्वं नास्ति। एकदेशस्थिरत्वं तु वर्तते। किञ्च न स मात्रासङ्ख्यया नियम्यत इति कारणाज्जातिवर्गेऽपि तदन्तर्भावो दुःशकः। तस्मात् अक्षरजातिरिति तदधिष्ठानभूतः कश्चिन्नूतनो वर्गः कृष्णभट्टवर्येण निपुणं निष्पादितः॥
द्रुत-मध्य-विलम्बितभेदेन त्रिप्रकारा गतिरुपलक्ष्यते छन्दःसङ्गीतशास्त्रयोः। छन्दःशास्त्रे तावल्लघुबहला द्रुता, गुरुबहला विलम्बिता, गुरुलघुमिश्रिता मध्येति च तद्विवेकः। तानेतान् गतिभेदान् आधारीकृत्य कृष्णभट्टवर्यो यतितत्त्वं लिलक्षयिषति। प्राञ्चः सर्वेऽप्याचार्या यतिर्नाम विराम इति, विच्छेद इति, अवस्थानमिति च लक्षणान्याचचक्षिरे। पद्ये पठ्यमाने क्वचित् अवस्थानमपेक्ष्यत इति तात्पर्यम्। कुतः खल्ववस्थानमिष्यत इति प्रश्नः प्रायः केनापि शास्त्रकृता न समाहितः। अत्र वक्ति कृष्णभट्टवर्यः। वृत्तेषु यतिर्नाम विभिन्नगतीनां मेलनस्थानम्। यत्र स्थाने विभिन्ना गतयः स्त्रिय इव भूषणापणे समवयन्ति तत्र विरामोऽनुभूयत इति। विरुद्धगतीनां समायोगेन यतिः प्रबलायते। तद्यथा मालिनी-हरिणी-शिखरिण्यादिषु वृत्तेषु। सदृशगतीनां समायोगेन यतिः दुर्बलायते। तद्यथा रथोद्धता-वसन्ततिलका-चम्पकमालादिषु वृत्तेषु॥
अत्रोदाहरणं यथा—
शान्ताकारं । भुजगशयनं । पद्मनाभं सुरेशम् ।
अस्मिन् मन्दाक्रान्तोपनिबद्धे पादे त्रयः खण्डाः सन्ति। प्रथमो गुरुबहलः। द्वितीयो लघुबहलः। तृतीयश्च गुरुलघुमिश्रितः। प्रथमे खण्डे विलम्बिता, द्वितीये द्रुता, तृतीये च मध्या गतिरनुभूयते। प्रथमद्वितीययोः, द्वितीयतृतीययोश्च खण्डयोरन्तराले गतिमेलनं भवतीति कारणात् तत्स्थानद्वयं यतिस्थानशब्देन व्यपदिश्यते। पादस्यान्ते च वृत्तसमयानुसारेण यतिस्थानं समस्ति॥
ततः परं यतिभङ्गः प्रतिपिपादयिषितः कृष्णभट्टवर्येण। तं च प्रतिपादयितुं छन्दःपदगतिरिति भाषापदगतिरिति च द्वौ पारिभाषिकौ शब्दौ स निरूपयति। अथ छन्दःपदगतिः। निरर्थकैः एकाक्षरपुञ्जैः पठ्यमाने पद्ये तदंशे वा सम्यगनुभूयमानाः छन्दःखण्डाः सर्वे छन्दःपदानीत्युच्यन्ते। तदीया गतिः छन्दःपदगतिः॥
तद्यथा—
ना ना ना ना। ना न ना ना न ना ना।
शालिन्युपनिबद्धे पादेऽस्मिन् द्वौ छन्दःखण्डौ वर्तेते। तदीया गतिः शालिनीछन्दःपदगतिः॥
अथ भाषापदगतिः। इयं हि सार्थकपदनिवेशजन्या। तामेनां सम्यगवबोद्धुं प्रत्येकं पदानाम् आदिममक्षरं तदितराक्षरापेक्षया स्फुटतरम् उच्चारणीयम्। तद्यथा पूर्वोक्तायां शालिन्याम्—
मार्गे मार्गे। नूतनं चूतखण्डम्।
[अधोरेखया लक्षितान्यक्षराणि स्फुटतरम् उच्चारणीयानि।]
छन्दःपदभाषापदगत्योः अस्वरसेन समायोगेन यतिभङ्गः सिद्ध्यति। अतः पदभङ्ग एव यतिभङ्गस्य बीजमिति गम्यते। तद्यथा—
गाम्भीर्यं परिखास्पदं घनधृतिः प्राकार उद्यद्गुण-
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु॥
शिवानन्दलहर्या उद्धृतेऽस्मिन् शार्दूलविक्रीडितनिबद्धे पद्ये तृतीयपादे भग्ना यतिरनुभूयते। “अखिलसामग्री” इत्यत्र “सा” इत्यस्मिन्नक्षरे छन्दःपदभाषापदगत्योः अस्वरसं मेलनमनुभूयते, यदेव यतिभङ्गस्य गमकम्॥
छन्दसः सुभगत्वमसुभगत्वं वा निश्चेतुं तत्सम्प्रदायप्रभाविता सहृदयानां गतिप्रज्ञैव प्रमाणमिति सविस्रम्भं वदति कृष्णभट्टवर्यः। तदिदम् आनन्दवर्धनेन कृतां सहृदयश्लाघां स्मारयतीव—“शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते। वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम्॥”
अथ लयः। अयं सङ्गीतशास्त्रेण छन्दःशास्त्रेण च कथं सम्बध्यत इति कृष्णभट्टवर्येण विवृतम्। गानावसरे सशब्दक्रियाभिः, निःशब्दक्रियाभिर्वा कालो मीयते। प्रतिक्रियं कालखण्डाः सञ्जायन्ते। तादृशकालखण्डानां मिथः समत्वं लय इत्युच्यते। अयमेव तालस्य मूलम्। छन्दःशास्त्रे तु पद्यपादावयवानां मात्रासमत्वं तेषां समतालबद्धता वा लयशब्देन बोध्यते। लयान्वितं छन्दः सतानमिति कथ्यते। यथा भुजङ्गप्रयातमुखानि वृत्तानि, आर्याद्या मात्राजातयश्च। लयरहितं छन्दो वितानमिति कथ्यते। यथा शार्दूलविक्रीडितादीनि वृत्तानि, अनुष्टुप्श्लोकाद्या अक्षरजातयश्च॥
सतानच्छन्दस्सु परस्परसदृशानां मात्रागणानां पौनःपुन्येनावर्तगतयः सिद्ध्यन्ति। त्रिमात्राणां गणानां परस्परं पुनरावर्तनेन त्र्यश्रगतिः, चतुर्मात्राणां चतुरश्रगतिः, पञ्चमात्राणां खण्डगतिः, सप्तमात्राणां च मिश्रगतिः स्वरूपमापद्यते। त्र्यश्रचतुरश्रगत्योः क्रमेण सङ्कलितद्रुतावर्तगतिः (२+४ / ४+२) सङ्कलितमध्यावर्तगतिश्च (३+५ / ५+३) समुद्भवतः॥
सर्वस्या अपि भाषायाः स्वरूपसहजा काचिद्गतिर्भवति। तां प्रतिनिधीकुर्वद्भिरेव छन्दोभिः साहित्यं भूयो निर्मीयते। संस्कृतस्य मध्याक्षरगतिः सहजेति हेतोः तां प्रतिनिधीकुर्वद्भिरेव छन्दोभिः साहित्यं भूयो रचितं परिलक्ष्यते। अनुष्टुप्श्लोकः, वसन्ततिलका, शार्दूलविक्रीडितं चेदॄंशि छन्दांसि॥
अथ वैदिकच्छन्दोलक्षणम्। तन्न त्रैस्वर्यम्। यतः किल वेदेषु त्रैस्वर्यसंवलिता गद्यभागा अपि सन्ति, यत्र छन्दसः प्रसक्तिर्नास्ति। त्रैस्वर्यं तावद्वैदिकभाषायाः प्रधानं लक्षणं, न वैदिकच्छन्दसः। सर्वस्या अपि वाण्याः प्राक्कालिकानि छन्दांसि प्रायो लयान्वितानि भवन्ति। लयान्वितत्वं गेयाधिक्यम् उपजनयति। गेयाधिक्येन चार्थावगमो ह्रासमुपयाति। गेयाधिक्यं दूरीकृत्यार्थगाम्भीर्यं प्रति पाठकानां मनांस्याकर्ष्टुं प्रायेण लयरहितानि छन्दांसि प्राचीनैराविष्कृतानि। वैदिकाल्लौकिकं रूपं भजमानायां संस्कृतभाषायाम् अनुष्टुप्श्लोकः, उपजातिः, करम्बजातिश्चेत्यादीनि सम्यञ्चि कानिचन छन्दांस्याविर्बभूवुः। तानि वैदिकं लौकिकं च वाङ्मयं सीव्यन्तीव भान्ति॥
तन्त्रीलयस्वरूपम्, तानस्वरूपम्, रघटाछन्दोविचारः, रिधम् इत्यस्य शब्दस्य पारिभाषिकोऽर्थः, तद्व्याप्तिः, तमनुसरन् भारतीयच्छन्दःशास्त्रीयः शब्दः, गरिष्ठमावर्तपरिमाणम्, भरतमुनिकल्पिता गणानां त्रिकव्यवस्था, गणसन्धानम्, वृत्तगन्धिविचारः, ओवीछन्दोरूपम्, पठनगानयोर्भेदः—चेत्यादयो ग्रन्थकर्तुः सूक्ष्मेक्षिकां प्रकटयन्तो विषया अत्र वर्तन्ते। न ते सर्वे लेखेनानेन शक्यन्ते निरूपयितुम्। एतावता स्थालीपुलाकन्यायेन ग्रन्थगताः कतिपये विचाराः सङ्क्षेपेण प्रतिपादिताः। तत्स्वादयन्तु विबुधा यथेप्सितमिति सर्वं शिवम्॥