A story for a verse - Rāmabhadrāmba
कलारत्नं गीतं गगनतलरत्नं दिनमणिः
सभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा |
निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी
महीरत्नं श्रीमान् जयति रघुनाथो नृपवरः ||
कलारत्नं गीतं गगनतलरत्नं दिनमणिः
सभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा |
निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी
महीरत्नं श्रीमान् जयति रघुनाथो नृपवरः ||
कतिकति न कुसत्पयः किं ते तु कदापि नायकायन्ते |
कौ पादपास्तु सन्त्यपि किं ते सन्तानपादपायन्ते ||
वेणीभूतेषु केशेष्वतसिफणिधिया द्रष्टुमागत्य केकी
पश्चादारभ्य योद्धुं प्रतिशिखिमनसा तेषु विस्रंसितेषु |
भूयो धमिल्लितेषु प्रकटघनधिया नर्तनायोज्जजृम्भे
तन्नृत्तालोकनान्मे प्रियसख मम भून्मण्डनश्रीविलंबः ||
“ಧೀರೋ ವಿಶಿಷ್ಟೋ ರಸಃ” ಎಂಬ ತಮ್ಮ ಶೋಧಪ್ರಬಂಧದಲ್ಲಿ ಶತಾವಧಾನಿ ಡಾ|| ಆರ್. ಗಣೇಶರು ’ಧೀರ’ಎಂಬ ನೂತನರಸದ ಬಗೆಗೆ ಚರ್ಚಿಸಿ ಸಾಂಪ್ರದಾಯಿಕವಾಗಿ ಸ್ವೀಕೃತವಾಗಿರುವ ರಸಗಳ ಪಟ್ಟಿಯಲ್ಲಿ ಧೀರರಸಕ್ಕೂ ಅನನ್ಯವಾದ ಸ್ಥಾನವಿದೆಯೆಂದು ಪ್ರತಿಪಾದಿಸಿದ್ದಾರೆ. ಶಾಸ್ತ್ರೀಯಶೈಲಿಯಲ್ಲಿ ರಚಿತವಾಗಿರುವ ಮೂಲಪ್ರಬಂಧವು ಕಾರಿಕೆ-ವೃತ್ತಿಗಳ ರೂಪದಲ್ಲಿ ಸಾಗಿದೆ. ಪ್ರಕೃತಲೇಖನವು ಸಂಸ್ಕೃತಭಾಷೆಯಲ್ಲಿರುವ ಗಣೇಶರ ಲೇಖನದ ಸಂಗ್ರಹಾನುವಾದ.
~
-೧-
ಅನಂತರಸವಿಸ್ತೀರ್ಣಾಮಖಂಡರಸಮಂಡನಾಮ್ |
विपश्चितामपश्चिमे विवादकेलिनिश्चले
सपत्नजित्ययत्नतस्तु रत्नखेटदीक्षिते |
बृहस्पतिः क्व जल्पति क्व सर्पतीह सर्पराट्
असंमुखस्तु षण्मुखश्चतुर्मुखोsपि दुर्मुखः ||
अप्पदीक्षित ! किमित्यतिस्तुतिं वर्णयामि भवतो वदान्यताम् |
सोऽपि कल्पतरुरर्थसिद्धये त्वद्गिरामवसरं प्रतीक्षते ||
निष्पिष्टापि परं पदाहतिशतैः शश्वद्बहुप्राणिनां
संतप्तापि करैः सहस्रकिरणेनाग्निस्फुलिङ्गोपमैः |
छागाद्यैश्च विचर्चितापि सततं मृष्टापि कुद्दालकै
र्दूर्वा न म्रियते तथापि तरां धातुर्दया दुर्बले ||
विपश्चिता तेन भरते वात्सल्यरसस्याभावः प्रदर्शितः[1]। नायं नूतनाक्षेपः । सर्वेऽपि विवेकिनो विशदानुभवशीलिनो निर्विवादमङ्गीकुर्वन्ति यद्रससङ्ख्यामीमांसापेक्षया रससिद्धान्तः परमं गरीयानिति । मुनिनापि भरतेन तत्र तत्र प्रादर्शि स्वागमे यच्छास्त्रविस्तरणं गच्छता कालेन यथोचितरीत्या सूरिभिः कार्यमिति । प्रायेण विधिमिममेव शिरसिकृत्वा नैक आलङ्कारिकमूर्धन्याः स्वं स्वं विचारं यद्भरतोपज्ञोपष्ठम्भकं प्राचीकटन् । समग्रमिदं शास्त्रमखण्डैकवृत्त्या जङ्गमशीलतया च ग्राह्यमिति सुधीमतां मतम् । तदिदं सर्वविद्यानामपि निर्वर्णनलक्षणमिति च गम्यते । अन्यच्च रतिर्नाम
यथा वेदान्तविद्यायां जीवन्मुक्तपरम्परा ।
तथा साहित्यविद्यायां महाकविपरम्परा ॥
अपर्याप्तमुदाकारामामपर्यायतमास्मिताम् ।
प्रपद्ये सकलास्वादां निष्कलां रसभारतीम् ॥
पूर्वपीठिका