मर्त्यानां वियद्विहारवाञ्छा चिरनिरूढैव। विहायसि विहरन्तं विहङ्गवृन्दं वारं वारं पश्यत्सु मानवेषु डिडयिषा समुत्पन्नेति जीवविकासवादिनो विद्वांसो मन्वते। प्रायेण गतेषूपशतेषु वर्षेषु लिप्सेयं शक्यसाध्या समभूदिति तन्त्रज्ञानेतिहासाद्विज्ञायते। परं भौतशिल्पवैचित्र्याणां प्रागेव कल्पनाजगति विहरद्भिः सुकविभिः काङ्क्षेयं वागर्थमाध्यमेन साधितेति साहितीविदामपरोक्षम्। काव्यमार्गमनुसरन्त्यो नृत्यचित्रशिल्पाद्याः कलाश्च मानवस्य गगनगमनतर्षं स्वेन स्वेन माध्यमेन यथाकामं तर्पयामासुरित्यस्य वर्तन्त एव साक्ष्यभूताः परःशताः कौशलचमत्काराः। भौतादिशास्त्रानुरोधेन वसुवर्त्मविहृतिर्महतीं साधनसामग्रीमपेक्षते। किन्तु वागर्थमात्रोपकरणप्रतिष्ठिते काव्यतन्त्रे सर्वमिदं कविप्रतिभायत्तम्। एवं सुकवीनां नियतिकृतनियमरहितानां हस्तापचेयेव मन्दारमञ्जरी वियद्विहृतिः परमसुलभा। तथापि नात्र बहवः कवयः प्राप्तसाफल्या इति विचित्रं वास्तवम्। यतो हि निरालम्बे नभोवर्त्मनि प्रतिभाविशिष्टा अपि कवयः प्रगल्भितुं न पारयन्ति। अत्र वैश्वामित्रीव काचिदनन्या शक्तिरपेक्षिता। अत एवाङ्गुलिमेयाः केचन कवयः स्वकविताविमानैः सहृदयान् समुन्नयन्ति, दर्शयन्ति च नभोनिलयात् परमरमणीयां नैकनगनदीनगरविपिनविशिष्टां भगवतीं भूतधात्रीम्। अस्मिन् रससाहसे प्रायः संस्कृतकवयः प्रथमार्हणामर्हन्ति। यद्यप्यन्याभिर्भाषाभिरीदृशा यत्नास्तत्र तत्र विहितास्तथापि न तेषां कालदृशा प्रत्नत्वं कल्पनादृशा नूत्नत्वं च विद्यत इति जगत्साहित्यविदो वदन्ति।
ऋक्संहितायां नासत्ययोर्विमानयानं मन्त्रदर्शिभिर्दर्शितम्। रामायणमहाभारतादिष्वितिहासेषु विविधेषु पुराणेषु च वियद्विहारप्रस्तावा अविरलं विलसन्ति। तथापि नैतेषु वयं सम्प्रति समुत्सुकाः। यतो ह्यत्र गगनगमनवर्णनमेव प्रतिभाति, न तु नभस्तलादवनिदर्शनानुभवः। केवलमम्बरविहारं कल्पयितुं बालैरबोधमुग्धैरपि शक्यत एव। परन्तु वियत्तलात् कथमियं वसुमती विलोक्यत इति वर्णयितुं प्रेक्षावन्तः प्रतिभाप्रबुद्धाः कवय एव समर्थाः। आद्यं तावद्भ्रान्तिविलसितमपि भवितुमर्हति। अपरं केवलं प्रतिभाव्युत्पत्तिपरिपाकाधीनम्। अन्यच्च गगनादवनेरवलोकनं नाम काव्यव्यापारमेव ध्वनति। किं नाम साहित्यम्? भवलोकमतीत्य, भावमूलरागद्वेषनिगडेभ्यः स्वात्मानं मोचयित्वा च क्रियमाणं भवभावयोः सहानुभूतिभास्वरं दर्शनं ननु। अनया दृशा निर्वर्णयन्तो वयं चिरन्तनानां केषाञ्चन संस्कृतकवीनां रचनाः काश्चन सम्प्रति विमृशामः।
चक्षुःप्रतिघातकप्रकाशप्रकृष्टे निर्जीवज्योतिर्गणगण्ये च विष्णुपदे, वातप्रकोपकम्पिते कालिमकलङ्किते क्षणप्रभाक्षुब्धे श्रवणकुहरकदर्थकस्तनितस्फूर्जथुस्थविष्ठे नयनायनतिरस्करिणीभूतपृषत्पटलपृथुले च जल(ड)दमण्डले का वास्ति जैविकी रमणीयता निभालयितुम्? यथा भगवती श्रुतिराह “दुर्भिक्षं देवलोकेषु मनूनामुदकं गृहे” इति, तथा सुराणां पदवीमधिष्ठायापि वयं नराणामेव पदं सकलसन्तोषास्पदं बहुमन्महे। कविः परिणाममिमं यावन्मात्रं साधयति तावन्मात्रं तस्य काव्यं प्रतिष्ठां भजते।
* * *
“पुरा कवीनां गणानाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा” इत्यस्याः सूक्तेरनुसारेण कविकुलगुरुरेव प्रथमगण्यो भवति। सुकविरयं न केवलं गुणेन, किन्तु गात्रेणापि गण्यं गगनादवलोकनं कारयति। अनेन खण्डकाव्य-दृश्यकाव्य-महाकाव्यमुखेन निजवाङ्मयं त्रिधा निबद्धमिति विदितमेव। अत्र प्रातिनिधिकरूपेण मेघदूते अभिज्ञानशाकुन्तले रघुवंशे च मर्त्यलोकदर्शनममर्त्यभूमिकायाः कारितम्। अस्य कणिकाः क्रमशः स्वदामहे।
मेघदूतगतं पूर्वमेघमाद्यन्तं मेघद्वारतलादवलोकनमेव। अत्र न वाहनभूतं किमपि विमानं विद्यते। न चापि वियच्चारिणो मनुजा वर्तन्ते। धूमज्योतिःसलिलमरुतां सन्निपातः पयोद एवात्र नक्षत्रपथयात्री। तेन कथङ्कारं जगदिदं दर्श्यत इति यक्षे कृतपरकायप्रवेशः कविरेव कथयति। जीमूतेन स्वकुशलमयीं प्रवृत्तिं हारयिष्यन् यक्षः कौबेरपुरमार्गं तं विवृणोति। आदावेवात्र गिरिराम्रकूटो वर्ण्यते—
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
स्त्वय्यायारुढे शिखरमचलः स्निग्धवेणीसवर्णे।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥मेघदूतम्, 1.18
परिणतफलैः काननाम्रैः समाच्छादितं मेघादिष्ठितं गिरिं सर्वेऽपि कवयः क्षितौ स्थित्वा वर्णयेयुः। किन्तु सानुमानयं सुरवर्त्मनि सरद्भिरमरमिथुनैः कथं प्रेक्ष्यत इति कालिदास एव कल्पयितुं प्रभवति। पर्वतं पृथ्वीस्तनत्वेन सर्वेऽपि कवयो गणयन्ति। किन्तु श्यामाग्रं स्तनमिति तमेव चित्रयितुं परा प्रतिभा हि वाञ्छ्यते। अन्यच्च चूचुकानां श्यामलिमा तावदन्तर्वत्नीष्वेव दृष्टचरं किमपि सौभाग्यम्। ऋतुषु प्रावृडेव काश्यप्या मातृत्वं कल्पयति। एवं प्रावृषेण्यपयोदव्यपदेशेन मर्त्येतरायां प्रकृत्यां कामपि वात्सल्यवेल्लितामुदारदर्शनां च मर्त्यभावनां जनयन् कविः कृतार्थो भवति। अत्र तु कारणं “गगनादवलोकनम्” एव। अतः खलु पूर्वसूरिप्रसिद्धमपि पर्वतपयोधरयोरौपम्यभावं कयापि विच्छित्त्या नवीकुरुते कविकुलगुरुः।
चर्मण्वतीपयःपिपासुं पयोधरमेवं वर्णयति कविः—
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥मेघदूतम्, 1.46
समधिवसन्नीलजलदा कुटिला चर्मण्वतीप्रवाहपद्धतिः पुष्करपथचरिष्णूनां कथं प्रत्यभादिति कालिदासः कथयति। दृश्यमिदमपि नूनमभौमम्। अत्राप्युपमालङ्कृतिः सखीमतल्ली कालिदासकवितायाः सुनिपुणं वरिवस्यति।
* * *
प्रायेण मेघदूते कविरारोहणावरोहणप्रयासदूरं वियद्विहारं निरूपयति। किन्त्वभिज्ञानशाकुन्तले मातलिचालितस्य सङ्क्रन्दनस्यन्दनस्य स्पृहणीयमवरोहणं पद्येनैकेन कल्पयति—
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः।
सन्धानं तनुभागनष्टसलिलव्यक्त्या व्रजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥ अभिज्ञानशाकुन्तलम्, 7.8
दुष्यन्तेन पठ्यमानमिदं पद्यमुत्प्रेक्षाद्वितयसंवलितेन स्वभावोक्तियुगलेन भूषितम्। इदम्प्रथमविमानयात्रिणामपि परिशीलनोत्साहं स्पृहणीयतया वर्णयन् कालिदासो मनुष्याणां हृदये चिरनिविष्टां वियद्विहाररसिकतां ध्वनति। अत्र भौतशास्त्रीयः कश्चिद्विलोकनविभ्रमश्च निरूपितः। अचलकटकेषु महेन्द्रस्यन्दनेऽवतरत्यपि शैलाः प्रवर्धमाना इव भान्ति। एवमेव तरुषु पूर्वं दृश्यमानाः स्कन्धविटपादयः पश्चात् प्रतीयमानाः पर्णपल्लवादयश्च सम्प्रति प्रतीपं गताः। किं बहुना, महीमुपेयुषां विबुधरथगामिनां पृथिव्येवोत्क्षिप्तेति भ्रान्तिर्जायते। हन्त, गगनादवलोकनं सकलममप्यधरोत्तरं जातमिव प्रतीतिं जनयति। अत्यन्तं सङ्कीर्णं भावं कविरनाकुलेन वचसा द्योतयति।
* * *
रघुवंशे कालिदासीयं गगनादवलोकनं विश्वरूपं धत्ते। अस्य निदर्शनं त्रयोदशस्य सर्गस्य सिंहभाग इति नातिशक्योक्तिः। आदौ समुद्रवर्णनावसरे विविधाभिर्नदीभिः पूर्यमाणं पारावारं तथा च तस्योत्सर्पणावसर्पणादिकं प्रत्यक्षायमाणमिव कविर्वर्णयति। दृश्यमिदं न केनापि भूमौ स्थित्वा द्रष्टुं शक्यम्। नदीमुखान्निःसरतां वारिस्रोतसां, तथा च समुद्रगर्भान्नदीपात्रं प्रविशतां लवणजलानां गमनागमनजं शाबल्यं गगन एव स्थित्वा निर्वर्णयितुं साध्यम्। तदिदं रोमहर्षकमपूर्वं प्रकृतिचित्रं नायिकानायकव्यपदेशेन विरचयन् कालिदासो गीतं नृत्येनेव सौन्दर्यस्य कामपि काष्ठामाविष्कुरुते। ततस्तिमितिमिङ्गिलादीनि यादांसि वर्णयंस्तेषामत्यन्तं वैज्ञानिकं वास्तविकं च स्वरूपं नयनसात्कारयति। समुद्रदूरेषु प्रान्तेषु प्रायेण निवसतः कवेः कदा वा कथं वा विशिष्टानुभवोऽयं प्राप्त इति मनसा कल्पयितुमपि न वयं शक्नुमः। किमयं स्वपरिचितैः सांयात्रिकैरुत मध्येसमुद्रं लीलया सञ्चरद्भिर्द्वीपान्तरवणिग्जनैः कर्णाकर्णिकया वृत्तान्तमिमं लेभे। तथापि साम्प्रतिके काले महतीनां नौकानां महतां विमानानामद्भुतानां दूरदर्शकानां समर्थानां बिम्बग्राहिणां च साहाय्येन बहुभिर्विज्ञानयन्त्रशिल्पकोविदैरेव शक्यसाध्यमिदं दृश्यावतरणम्। एतादृक्कवनं न कदाचिन्मर्त्यचक्षुषा निभालयितुं पार्यते। प्रतिभोन्नीतममर्त्यं कवेरक्षि साक्षात्कारयति सर्वम्—
मुखार्पणेषु प्रकृतिप्रगल्भाः
स्वयं तरङ्गाधरदानदक्षः।
अनन्यसामान्यकलत्रवृत्तिः
पिबत्यसौ पाययते च सिन्धूः॥ रघुवंशम्, 13.9
ससत्त्वमादाय नदीमुखाम्भः
सम्मीलयन्तो विवृताननत्वात्।
अमी शिरोभिस्तिमयः सरन्ध्रै-
रूर्ध्वं वितन्वन्ति पयःप्रवाहान्॥ रघुवंशम्, 13.10
अन्तरिक्षेण विहरणावसरे विहङ्गमदृष्टिमेव भजन्ते विमानयायिनः। अतः पयोधिपाथःपूरेण वेलासु विकीर्यमाणानि मुक्ताफलानि कामपि नवां सुषमां दधते। व्यापकमिदं चित्रणमवनितल एव कीलित्वा प्राप्तुमशक्यम्। तथैवानुतीरं प्रवृद्देभ्यः पूगतरुभ्यः परितः पतितानि स्थूलस्थूलानि फलानि वियच्चारिणां नयनासेचनकानि भवन्ति, न तु वसुमतीवर्तिनाम्। सर्वमिदं निभाल्य जानकीजानिर्विमानवेगस्य विशिष्टमनुभवं प्रेयसीं प्रति कथयन् सविपिना विपुलेव निष्पततीत्युत्प्रेक्षते। कल्पनेयं पूर्वं परामृष्टस्य शाकुन्तलस्य पद्यमनुधावति—
एते वयं सैकतभिन्नशुक्ति-
पर्यस्तमुक्तापटलं पयोधेः।
प्राप्ता मुहूर्तेन विमानवेगात्
कूलं फलावर्जितपूगमालम्॥ रघुवंशम्, 13.17
कुरुष्व तावत्करभोरु पश्चा-
न्मार्गे मृगप्रेक्षिणि दृष्टिपातम्।
एषा विदूरीभवतः समुद्रात्
सकानना निष्पततीव भूमिः॥ रघुवंशम्, 13.18
पञ्चाप्सरःसरसः सौन्दर्यं मेघान्तरालक्ष्यं पीयूषकरबिम्बमनुकरोतीति कथयता रामेण व्योमचारिणां प्रतीतिरेव हृद्यतया निरूपिता। पद्यस्यास्य माधुर्यमितोऽपि विभाव्यम्। यथा भूतलगतैर्घनाच्छन्नं सुधांशुबिम्बमुद्वीक्ष्यते तथैव विमानगतैः पयोदपटलतिरोहितं विमलोदकमदः सरो विलोक्यते। एवं किमप्यधरोत्तरमत्र वास्तवमुपकल्पितम्। सर्वमिदं कविकुलगुरोः प्रतिभाविलसितम्। इत्थं दर्शनेन्द्रियचमत्कारकारि किमपि वस्तु प्रस्तूय ततः श्रवणेन्द्रियावर्जकं किञ्चिदन्यत् कल्पयति कविः—पञ्चाप्सरःसरोगतानां सुरसुन्दरीणां तौर्यत्रिकप्रस्तावकलरवः पुष्पकान्तःपातिषु चन्द्रशालास्वपि प्रतिश्रूयते। इत्थं दूरसंवेदकेन्द्रियद्वितयस्यापि तर्पकं केवलमेकेन काव्यकर्मणा साधयति कालिदासः—
एतन्मुनेर्मानिनि शातकर्णेः
पञ्चाप्सरो नाम विहारवारि।
आभाति पर्यन्तवनं विदूरा-
न्मेघान्तरालक्ष्यमिवेन्दुबिम्बम्॥ रघुवंशम्, 13.38
तस्यायमन्तर्हितसौधभाजः
प्रसक्तसङ्गीतमृदङ्गघोषः।
वियद्गतः पुष्पकचन्द्रशालाः
क्षणं प्रतिश्रुन्मुखराः करोति॥ रघुवंशम्, 13.40
पञ्चाग्निमध्ये तपस्यन्तं तीक्ष्णतपसं सुतीक्ष्णं वर्णयता कविना वियच्चारिभिर्विश्वम्भरास्थाः कथं विभाव्यन्त इति सुनिपुणमुपनिबद्धम्। अक्षमालावलयितेन बाहुना वीज्यमानेन रामादीन् सभाजयन्तं मुनिं वयमपि पश्यामः। पञ्चमाग्निप्रतीके सहस्रमरीचिमालिनि हेलिनि कीलितदृष्टिरसौ ऋषिः कथं क्षणमेकं विमाने दत्तावधान आसीदिति सूचयता कविना मुनेरूर्ध्वावलोकनव्यापारोऽपि कटाक्षितः। सर्वमिदमनन्तपथिकसापेक्षमतिमात्रं स्वारस्यं जनयति—
एषोऽक्षमालावलयं मृगाणां
कण्डूयितारं कुशसूचिलावम्।
सभाजने मे भुजमूर्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते॥ रघुवंशम्, 13.43
वाचंयमत्वात्प्रणतिं ममैष
कम्पेन किञ्चित्प्रतिगृह्य मूर्ध्नः।
दृष्टिं विमानव्यवधानमुक्तां
पुनः सहस्रार्चिषि सन्निधत्ते॥ रघुवंशम्, 13.44
सुमहान् गिरिश्चित्रकूटः पुष्पकगामिनां दृशा लटभः कोऽपि ककुद्मानिव निभाल्यते। एतावतैव पर्याप्तिमाप्तुं नायं कविः कविसामान्यः। वप्रक्रीडाविलासिनां वृषभाणां शृङ्गाग्रेषु लिप्यमानं पङ्कं चित्रकूटस्य शिखराग्रे निषण्णेन प्रावृषेण्येन घनाघनेन सह समीकुर्वन् कविश्चित्रमिदं परिपूर्णतां नयति। मेघदूते खल्वेवमेव जलदजुष्टं प्रालेयाचलचूलं स वर्णयतीत्यवधेयम् (1.52)। तस्यैव शिलोच्चयस्य कटकेषु वलमानां मन्दाकिनीं महीमहिलागलगतामिव मुक्तावलीं कलयन् कविरन्यदपि व्योमवीक्षाचित्रं चित्रावहं तनुते—
धारास्वनोद्गारिदरीमुखोऽसौ
शृङ्गाग्रलग्नाम्बुदवक्रपङ्कः।
बध्नाति मे बन्धुरगात्रि चक्षु-
र्दृप्तः ककुद्मानिव चित्रकूटः॥ रघुवंशम्, 13.47
एषा प्रसन्नस्तिमितप्रवाहा
सरिद्विदूरान्तरभावतन्वी।
मन्दाकिनी भाति नगोपकण्ठे
मुक्तावली कण्ठगतेव भूमेः॥ रघुवंशम्, 13.48
अत्रिमुनेराश्रमं वर्णयता कविना निवातनिष्कम्पाः पादपाः प्रस्तुताः। अहो सूक्ष्मेक्षिका सुकवेः! न खलु वियच्चारिभिरभिज्ञेयानि भवन्ति पृथ्वीगतविटपिनां दरकम्पनानि। दवीयसां दृशा जङ्गममपि जगत् स्थावरमिव प्रतिभातीति विचित्रं किमपि तथ्यम्—
वीरासनैर्ध्यानजुषामृषीणा-
ममी समाध्यासितवेदिमध्याः।
निवातनिष्कम्पतया विभान्ति
योगाधिरूढा इव शाखिनोऽपि॥ रघुवंशम्, 13.52
रामायणे प्राप्तपदः श्यामसञ्ज्ञो वटः कालिदासेनापि कटाक्षितः। हरित्पत्त्रमयः पाटलफलसम्पन्नश्च महानसौ महीरुहो मरकतपद्मरागमणीनां राशिरिव सीतारामयोः प्रतिभाति। क्व शिफासहस्रकस्य विपुलशाखस्य न्यग्रोधस्य विस्तारः, क्व पुनः स्वल्पगात्राणां मणीनां समुच्चयः! अनयोः परिमाणवैषम्येणैव कविरवनिगगनयोरन्तरं ध्वनति।
त्वया पुरस्तादुपयाचितो यः
सोऽयं वटः श्याम इति प्रतीतः।
राशिर्मणीनामिव गारूडानां
सपद्मरागः फलितो विभाति॥ रघुवंशम्, 13.53
अद्यापि गङ्गायमुनयोः सङ्गमः सर्वेषां नेत्रनिर्वाणाय कल्पते। कालिदासोऽप्यमुं तीर्थराजं सम्भावयितुं हृद्यं पद्यचतुष्टयं प्राभृतरूपेण समर्पयति। विशिष्यात्र तुरीये पद्ये तुरीय इव पुरुषार्थे काचिदुपसर्पिणी शोभा प्रादुरास्ते। ईदृशं वर्णनं तु वियद्विहारिण्या कालिदासस्य प्रतिभयैव कर्तुं पार्यते। यतो हि न कापि मर्त्या दृष्टिरत्र प्रभवति। देवनद्योरनयोः पार्थिवं प्रयागविस्तारं निरूपयितुं दिव्यं किमपि शाम्भवं चित्रमुपकल्पयति कविः। अत्र जाह्नवीप्रवाहव्यपदेशेन भसितभासुरा शार्वी तनुः प्रस्तुता, कृष्णोरगव्यतिकर इव कलिन्दजाकल्लोलसन्दोहश्च संस्तुतः—
क्वचिच्च कृष्णोरगभूषणेव
भस्माङ्गरागा तनुरीश्वरस्य।
पश्यानवद्याङ्गि विभाति गङ्गा
भिन्नप्रवाहा यमुनातरङ्गैः॥ रघुवंशम्, 13.57
अन्ते यथा विमानमयोध्यामुपसर्पति तथा तरङ्गहस्तै राममुपगूहतीव सरयूतरङ्गिणी वर्णिता। तदिदं वियच्चित्रं विमानस्य वेगं वसुन्धराविस्तारं च सूचयति।
सेयं मदीया जननीव तेन
मान्येन राज्ञा सरयूर्वियुक्ता।
दूरे वसन्तं शिशिरानिलैर्मां
तरङ्गहस्तैरुपगूहतीव॥रघुवंशम्, 13.63
* * *
कविः कुमारदासः कालिदासस्य दासतां भजतीति नातिशयोक्तिः। अनेन स्वकीये जानकीहरणाख्ये महाकाव्ये साकेतपुरीं यियासोः कौसलेयस्य मुखेन सुविपुलं वियदालोकनवर्णनं कारितम्। उपरि गच्छतः पुष्पकविमानस्य यात्रिणः क्रमेण ह्रस्वीभवनं भुवः समनुभवन्ति। तामिमामनुभूतिमाश्रित्य कविः क्रमशः पारावारविस्तारे तिरो यान्तीं सशैलकाननां लङ्कामेवमुत्प्रेक्षते—
पयोधिरत्नालयमीक्ष्य ते समं
समुन्नमद्वीचिविभिन्नमप्यदः।
निमज्जतीवाम्बुनिधौ समन्ततः
क्रमेण लङ्का सहशैलकानना॥ जानकीहरणम्, 20.10
वियच्चराः समस्तां वसुमतीं सम्पिण्डितामिव निभालयन्ति ननु। इमां भ्रान्तिमाश्रित्य, विमानवर्तिनः श्रीरामस्य महोन्नता महीधरा अपि कुब्जा वल्मीका इव, विपुलप्रवाहाः स्रवन्त्योऽपि ह्रस्वाः पन्नगा इव प्रत्यभानिति कथयति कविः। कल्पनेयं सुतमां हृदयहारिणी।
विशालशृङ्गः शिखरैरधिष्ठितो
विभाति वल्मीक इवैष भूधरः।
यतः स्रवन्त्यः सरितः समन्ततः
परिस्फुरन्त्यः कुटिला इवोरगाः॥ जानकीहरणम्, 20.11
पूर्वोक्तं सम्पिण्डितमवलोकनमेव धरित्रीचरेषु मानवेष्वन्वीय कुमारदासः पद्यमपरं निर्माति। अत्र वर्तमानोपमा निजयाभिनवतया रसिकानां हरति मनांसि—
परिभ्रमन्तो मनुजा महीतले
विदूरभावादतिसूक्ष्मदर्शनाः।
विभान्त्यमी वर्त्मनि शुक्लवाससो
मुखाहिताण्डा इव कीटपङ्क्तयः॥ जानकीहरणम्, 20.26
* * *
कालिदासेनोद्घाटितं मार्गमनुसरद्भिरनेकै रामयणरूपकरचयितृभिः श्रीरामस्य विमानयानं बहुधा वर्णितम्। अमीषां कवीनामग्रेसरः खलु भवभूतिः। अयं निजेन महावीरचरितेन तथ्यमिदं निरूपयति। एतावता यद्यदस्माभिर्विवेचितं तत्सर्वमपि सूत्ररूपेण श्लोकेऽस्मिन्नुपनिबध्नाति कविः—
संस्तूयन्ते विप्रकर्षाद्भौमा नोपाधयः स्फुटम्।
अन्तरिक्षाः पुनरमी सर्वतः सदृशा इव॥ महावीरचरितम्, 7.22
उपरि चरतां रजताचलनीलाचलौ पर्यायेण श्रीखण्डकस्तूरीलिप्ताविव पुथ्वीपयोधरौ प्रतिभात इति या कल्पना भवभूतिना विहिता सा नितरां मनोग्राहिणी। अनया कृत्स्ना वसुन्धरा योषिदाकृतिं बिभर्तीति पौराणिकी प्रसिद्धिर्याथार्थ्यं गमिता—
कैलासाञ्जनशैला-
वेतौ तुल्योन्नतत्वपरिणाहौ।
चन्दनमृगमदलेपं
गमितौ क्षोण्या नु वक्षोजौ॥ महावीरचरितम्, 7.24
* * *
सिन्धुसञ्ज्ञा सरित् पद्मावतीं पुरीं कटिनटत्परिकराकारेण संवृणोतीति पद्यस्यास्य पूर्वार्धे कविरतिशयं कल्पयति। अनेन वर्णनेन विहायस्तलान्नगरीयं कथं दृश्यत इति स्वयं प्रस्फुटीक्रियते। उत्तरार्धे विद्यामानोत्प्रेक्षा तावत् पूर्वोक्तं सम्पिण्डितत्वमेव सम्यगनुधावति—
पद्मावती विमलवारिविशालसिन्धु-
पारा सरित्परिकरच्छलतो बिभर्ति।
उत्तुङ्गसौधसुरमन्दिरगोपुराट्ट-
सङ्घट्टपाटितविमुक्तमिवान्तरिक्षम्॥ मालतीमाधवम्, 9.1
* * *
प्रायेण कालिदासादनन्तरं निर्मितेषु काव्येषु पद्यमिदमेव गगनादवलोकनं सार्थकीकुरुते। यद्यपि भासनाम्ना प्रसिद्धमविमारकं रूपकम्, तथ्यतः केनापि केरलीयेन कविना रचितमिति श्रूयते। अस्य कर्ता बोधायन इति केचन विपश्चितो मन्यन्ते। कविर्यः कोऽपि स्यात्; तदीयं काव्यं कमनीयम्। पद्येऽस्मिन्न केवलं सम्पिण्डितत्वम्, प्रत्युत निसर्गविसंष्ठुलाया वसुधायाः प्रातिभासिकी समीकरणमपि व्यपदिष्टम्—
शैलेन्द्राः कलभोपमा जलधयः क्रीडातटाकोपमा
वृक्षाः शैवलसन्निभाः क्षितितलं प्रच्छन्ननिम्नस्थलम्।
सीमन्ता इव निम्नगाः सुविपुलाः सौधाश्च बिन्दूपमा
दृष्टं वक्रमिवाभियाति सकलं सङ्क्षिप्तरूपं जगत्॥ अविमारकम्, 4.11
अग्रिमे पद्ये घनिष्ठाः पर्वताः पेलवाः पयोधरा इव वियद्विहारिणां भ्रान्तिमजनयन्निति कविरुत्प्रेक्षालङ्कारवर्त्मना वर्णयति। नूनमभिराममिदं कल्पनम्। एवमेव कालिदासोपजीवित्वेन काश्यपी वेगादभिपततीवेति यदुत्प्रेक्षितं तदपि चेतोहारि—
जलदगहनमुज्झतीव वेगा-
दभिपततीव मही समुद्रमुद्रा।
जलदसमयतोयदा इवामी
भृशमभियान्ति नगा विजृम्भमाणाः॥ अविमारकम्, 4.12
* * *
भवभूतेः पदपद्धतिमनुसरन्तः सुबहवः कवयो रामायणरूपकान्यररचन्। किन्तु नैकेनापि स्वोपज्ञता साधिता। रसश्च न पोषितः। सत्यपि कालिदासप्रणीते रघुवंशे तस्य सत्प्रभावो न मनागप्येतेषु दृश्यत इति खेदास्पदम्। मुरारि-जयदेव-राजशेखरादयः सर्वेऽपि च्युतौचित्याः कवयो वृथा प्रजगल्भिरे, येन भौगोलिकपरिज्ञानहीनो हृदयङ्गमकल्पनाविरहितो वाग्विग्लापनमात्रविजृम्भितः काव्याभासः प्रववृते। तथापि राजशेखरोपज्ञं किञ्चन पद्यमस्मदवलोकनमर्हति। अत्र सरलया रीत्या वियत्सापेक्षतया सङ्कुचन्ती मेदिनी विमानवेगेन सहोत्प्रेक्षिता—
यथा यथा रोहति बद्धवेगः
व्योम्नः शिखां पुष्पकमानताङ्गि।
महाम्बुधीनां वलयैर्विशालै-
स्तथा तथा सङ्कुचतीव पृथ्वी॥ बालरामायणम्, 10.22
* * *
केरलीयस्य सुकुमारकवेः श्रीकृष्णविलासकाव्यं स्वस्य चरमसर्गे वियद्विहारं किञ्चिदिव प्रस्तौति। नरकासुरवधानन्तरं सत्यभामासमेतस्य वैनतेयसादिनः श्रीकृष्णस्य मुखेन भरतभुवमभिवर्णयति कविः। तत्र पद्यमेकं मनोग्राहि। पुष्पकरथरथिकानां पुष्करपथपथिकानां वा यानि यानि कुम्भिनीदृश्यानि नयनपथमायान्ति तानि तानि सर्वाण्यपि निजमहिम्ना च्यावितानि केवलमणिमानं भजन्त इति समेषां सुपरिचितमेव। इदमेव तथ्यं हृदि निधाय सुकुमारः प्रतिनवां कामपि कल्पयति वैचित्रीम्। अनया शारा इव शैला रेखा इव सरित्कुल्याः प्रादुरभूवन्। किं बहुना, कृत्स्ना च पृथिवी तावदष्टापदफलकतां ययाविति गम्यते—
दूरेण तुच्छा इव लक्ष्यमाणाः
शारश्रियं बिभ्रति भूभृतोऽमी।
इयं च रेखाभिरिवापगाभि-
र्धत्ते धरा तत्फलकस्य लक्ष्मीम्॥ (श्रीकृष्णविलासः 12.35)
* * *
वेङ्कटनाथेन स्वके यादवाभ्युदये श्रीकृष्णस्य गरुडगमनविनोदं वर्णयतापि नैकेनापि पद्येन गगनादवलोकनमकारि। तत्र समग्रोऽप्यष्टादशः सर्गः पार्थिवमेव दर्शनं विदधाति न तु पौष्करम्। समग्रमपि विश्वगुणादर्शं चम्पूकाव्यं गन्धर्वयुगलस्य विमानविहारप्रकारेणैव तन्वता विडम्बनकविना वेङ्कटाध्वरिणा नैकवारमप्युर्वरा व्योम्नो विलोकितेव प्रतिभाति। इत्थमेव मेघदूतममोघमनुकर्तुं मोघं यतमानानि बहुसङ्ख्याकानि सन्देशकाव्यान्यपि सहृदयहृदयेषु गगनादवलोकनं कारयितुं न पारयन्ति। अस्यामतिदीर्घपङ्क्तौ वेङ्कटनाथविरचितात् हंससन्देशादारभ्य रूपगोस्वामिप्रणीतं हंसदूतं यावत् सन्ति सुबहूनि पवन-चन्द्र-शुक-कोकिल-सारिकाधिकृतानि दूतकाव्यानि। अमीषां प्रपञ्चनं प्रायेण ग्रन्थविस्तरभीतिमेव जनयन्तीत्यलं विस्तरेण।
* * *
नायं लेखः संस्कृतनिबद्धान् समस्तान् अम्बरावलोकनसन्दर्भान् विमृशति। नात्र तादृशस्य महतः प्रयासस्यावकाशः। तथाप्येतावतैव सहृदयाः प्रकरणस्यास्य परमार्थं जानीयुः। यद्यपि वियति विहर्तुं यन्त्रशिल्पविभवसिद्धानां विमानानामस्ति विपुलोऽवकाशः, तथापि कविकल्पनानां स सीमित इव प्रतिभाति। काश्चन एव कल्पना आदृत्य कवयितुं शक्यमित्यत्रत्यान्युदाहरणानि कथयन्ति। प्रायः कालिदासेनैव सर्वाश्च ताः पीतसाराः प्रयुक्ताः। अवशिष्टाः कवयस्ता एव ऋजीषोपजीविन इव प्रकारान्तरेण प्रयुञ्जते। तथापि—“दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात्। सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः॥” इत्यानन्दवर्धनोपज्ञां सूक्तिं स्मारयन्तः कामपि विच्छित्तिमाविष्कुर्वन्ति सहृदयानां हृदयेषु। अनेन पुनर्ज्ञायते “अहो भारो महान् कवेः!” इति। अतः किल वयमपि सहानुभूतिभूषिता भवेम कवीनामुक्तिषु।