समस्यायाः आकारः
समस्यावाक्यं वृत्तबद्धमेव भवेत् । प्रायेण तद्वृत्तपादेन निबद्धं क्रियते ।[1] वृत्तपादेऽपि एकदेशमात्रं समस्यावाक्येन योक्तुमर्हति प्रष्टा ।[2] क्वचित् पादद्वितयव्यापिन्यपि भवति समस्या । अनन्तरोक्तमनुष्टुभि एव सङ्गच्छते, तस्या अल्पकुक्षित्वात् ।[3] समस्यावाक्यमसङ्गतार्थकम् अनर्थकं वा स्यादिति प्रागुक्तमेव । असङ्गतिश्च नानाविधं शक्या परिकल्पयितुम् । तद्यथा[4] –
क्र.सं. |
असङ्गतिप्रकारः |
उदाहरणम्[5] |
1 |
कारणसत्त्वेऽपि कार्याभावः |
कृष्णे स्थितेऽपि पुरतो विषसाद गोपी । कोकिलो न किल रौति वसन्ते । |
2 |
कारणाभावेऽपि कार्यसत्त्वम्
|
पङ्गुः सुदूरं व्रजति क्षणेन । अन्धः पठति जातकम् । |
3 |
विरुद्धगुणक्रियादीनामापादनम् |
वृद्धं मुदा चुम्बति सुन्दराङ्गी । हिंसापरः शङ्करः । मृगात् सिंहः पलायते । |
4 |
अविद्यमानस्य/असहजस्य गुणस्य कथनम् |
चन्द्रो विभाति दशभिस्तनुभिर्मनोज्ञम् । वल्मीकवासमिभराट् कुरुते स नित्यम् । पूज्यं सूर्यं निजकुलपतिं रामचन्द्रो निनिन्द । |
5 |
कस्मिंश्चन वस्तुनि तदन्यधर्मारोपणम् |
काकेति मोदेन विरौति बर्ही । कृष्णतामेति लक्ष्मीः । |
6 |
विभिन्नकालिकयोः वस्तुनोः जनयोर्वा घटना |
अक्षबलं शकुनिमाजुहाव जनकजा । नटति घर्मसमयेऽपि कलापी । |
7 |
कर्तृकर्मक्रियासम्बन्धराहित्यम् |
अम्भोधिर्जलधिः पयोनिधिरथो वारान्निधिर्वारिधिः । गुलुगुग्गुलुगुग्गुलु । |
8 |
सदोषस्य शब्दस्य वाक्यस्य वा प्रयोगः |
रमति रमावरजो रजोमयोर्व्याम् । |
तदेवं प्रष्ट्रा प्रक्षिप्तायाः समस्यायाः समुचितं परिहारपथं विचिन्त्य सोऽभिप्रायः परिस्फुटो यथा स्यात् तथा पद्यं पूर्णतां नेयं कविना ।
समस्याप्रहेलिकयोर्भेदः
असङ्गतार्थकं वाक्यं समस्येति प्राग्विवृतमेव । प्रहेलिकेति प्रकार एतत्सादृश्यं भजते, तत्राप्यसङ्गतिप्रतीतेः । परिहारमार्गणप्रसङ्गोऽप्युभयत्र साधारण एव । तथा च कैरंशैरिमे भिद्येते इति विचारः साम्प्रतः । तत्किञ्चिदिह विविच्यते । समस्यायाम् अर्थपूर्णता अस्ति चेदपि तस्या अनेककर्तृकत्वात् क्वचित् कश्चिदंशो बाह्य इवानुभूयते पठित्रा । प्रहेलिका तु तादृशैरंशैर्विरहिता सती सर्वात्मना पारिपूर्ण्यं भजते । समस्यायाः परिहारा नानाप्रकारकाः सम्भवन्ति । प्रहेलिकायास्तु एकमात्रम् उत्तरम् ।
परिहारप्रकाराः
समस्यापरिहारो विभिन्नवर्तनीकः । तदाधारेण स त्रेधा विभाजयितुम् अर्हः शब्दच्छलः अर्थच्छलः उभयच्छलः चेति । तदत्र प्रत्येकं स्तोकं परिचाय्यते ।
समस्यावाक्यस्य आद्ये अन्त्ये वा पदे अपरस्य शब्दस्य वर्णस्य वा संयोजनेन, पदानामन्यथा च्छेदेन, अन्वयव्यतिरेकेण सन्धिसमासविशेषेण वा परिहारलाभः शब्दच्छलमार्गकः । तत्प्रसङ्गे सन्धिसमासविशेषा अप्युपकुर्वते । एतदाधारेण शब्दच्छलप्रकारे पदपूर्वार्धच्छलं पदपरार्धच्छलम् अन्वयच्छलं सन्धिसमासच्छलं पौनरुक्त्यच्छलं छन्दश्छलं चैते अवान्तरविभागा अपि शक्याः कल्पयितुम् ।
अथार्थच्छलप्रकारः । यदि कविः समस्यावाक्यस्य तद्गतशब्दविशेषस्य वा अर्थान्तरे ग्रहणेन, अर्थालङ्कारत्वपरिकल्पनेन, कल्पनाविशेषेण, पौराणिकप्रसङ्गेन, शास्त्रयुक्तिविशेषेण चैवम् अर्थविशेषस्य समाश्रयणेन समस्यां परिहरति तर्हि स परिहारप्रकारः अर्थच्छलनामकः । अयमपि प्रकारः प्रागुक्तैर्मार्गैः श्लेषच्छलः काकुच्छलः अर्थालङ्कारच्छलः नूतनकल्पनाच्छलः शास्त्रच्छलश्चेति पुनर्नानात्वं समर्हति ।
यश्च परिहारः शब्दच्छलार्थच्छलयोः उभयोराधारेण कृतो भवति स भवत्युभयच्छलप्रकारकः । तदेतत्सकलम् उदाहरणप्रसङ्गे स्फुटीकरिष्यत इति कृत्वा नेह वितन्यते । उदाहरणानि चात्र प्रसङ्गाद् अवधानपद्यान्येव उपादीयन्ते ।
समस्यापरीहारे प्रवृत्तिः
यदा काचित् समस्या परिजिहीर्षिता तदा प्रथमतोऽवधानी तत्रत्याम् असङ्गतिम् अवगच्छन् ताम् असकृत् पठंश्च प्रकृता समस्या प्रागुक्तेषु प्रकारेषु कतमस्याश्रयणेन शक्यपरिहारेति अन्तर्लीनं चिन्तयेत्, तदनुरोधेन परीहारमार्गान् मार्गयेच्च । निश्चिते च परिहारमार्गे तमाशयम् उचितैः शब्दैः उचितेन च्छन्दसा च बन्धुम् स समारभेत । पद्यं च तथा निबद्धं भवेद् यत्तत्पठनेनैव कवेराशयः स्फुटतां भजेत । तत्पुनः समर्थशब्दाल्पत्वेन अस्फुटार्थकम्, व्यर्थशब्दाधिक्येन नीरसं वा न स्यात् । विशिष्य, विवक्षा वृत्तकुक्षिश्च यदा परिमाणेन मिथो न घटेते तदा महती जागरूकता स्यादवधानिनः ।
यद्यवधानी प्रतिभावृद्धः स्यात् तर्हि प्रागभिहितानि सोपानानि स्वभावत एव क्षुण्णानि भवन्ति । वर्धिष्णोस्तु अस्य सोपानक्रमस्य ज्ञानं महते सौकर्याय कल्पते ।
शब्दच्छलेन परिहारः
समस्या – अक्षबलं शकुनिमाजुहाव जनकजा ॥
सीता त्रेतायुगीया । शकुनिश्च द्वापरयुगभवः । आह्वानं तु समकालयोरेव युज्यते । तत्रापि पतिव्रताशिरोमणिना सीतया दुर्मतिप्रवेकस्य शकुनेराह्वानं नितान्तमसङ्गतम् । अश्लीलतागन्धोऽप्यत्र नासाग्रं स्पृशेत् सचेतसाम् । तदेवम् असङ्गतिरिह प्रकटैव ।
परिहारः –
रक्षोऽधमेन मुषिता वक्षस्ताडनपुरःसरं साश्रुमुखी ।
रक्षार्थमात्मनो हर्य्-अक्षबलं शकुनिमाजुहाव जनकजा ॥ (रा. गणेशः)
इहावधानिना शकुनिशब्दः पक्ष्यर्थे गृहीतः । अक्षशब्दश्च हर्यक्ष इति परिणमय्य सिंहार्थकत्वं नीतः । तथा च हर्यक्षबलो नाम सिंह इवामितबलः । तदेवं रक्षोऽधमेन रावणेन अपह्रियमाणा जानकी स्वरक्षणार्थम् अमितबलं पक्षिविशेषं जटायुषम् आजुहावेति पद्यं सङ्गतार्थकं सम्पन्नम् ।
समुचितपदानां विन्यासेन विवक्षितोऽर्थोऽत्र सुष्ठु व्यक्तः शक्योऽस्माकम् अवधारयितुम् । अयमंशोऽपि प्राधान्यं भजतीति न विस्मार्यमस्माभिः ।
परिहारेऽस्मिन् पदपूर्वार्धच्छलेन सन्धिच्छलेन च अक्षशब्दो हर्यक्षरूपेण परिणामितः । शकुनिशब्दस्तु श्लेषच्छलेन अर्थान्तरं नीतः । तदेवम् अमीषां त्रयाणां प्रकाराणां समवायः प्रकृतसमस्यापरिहारे व्यवास्यन्निति स्फुटं नः ।
समस्या - चन्द्रोदयं वाञ्छति चक्रवाकी ।
चक्रवाकः पक्षी निशि वियोगखेदम् अनुभवतीति प्रसिद्ध एव कविसमयः । अतः स सूर्योदयं कामयेत, न तु चन्द्रोदयम् । तद्विरुद्धमिह कथितमित्यसङ्गतिः ।
परिहारः –
बन्दीकृतेऽर्के दशकन्धरेण सदा स्थिते चन्द्रमसि स्थिरायाम् ।
वधं विधातुं किल तस्य रामचन्द्रोदयं वाञ्छति चक्रवाकी ॥ (शतावधानसारमु, 10)
चक्रवाक्या बन्धुः सूर्यो रावणेन बन्दीकृतः । तस्या रिपुश्चन्द्र एव स्थिरायां स्थिरीभूतः । रावणे पञ्चतां नीते एव सूर्यचन्द्रयोः सञ्चारो यथाप्रकृति स्यात् । अतः सूर्योदयो रावणवधाधीनः । तदर्थं रामचन्द्रोदयं सा वाञ्छतीति कवेर्भावः ।
अत्र चन्द्रशब्दं रामचन्द्र इति परिणमय्य परिहारः साधितो विलोकनीयः । प्रकारश्चात्र समासाश्रितः शब्दच्छलः ।
समस्या – कर्णात्मजामुदवहद् विबुधोऽपि पार्थः ।
प्राज्ञोऽप्यर्जुनः कर्णस्य पुत्रीम् व्युवाहेति समस्यार्थः । कर्णार्जुनयोरहिनकुलता जगत्प्रसिद्धैव । अतः कर्णस्य पुत्रीं न केनापि हेतुना विवहेदर्जुनः, न चार्जुनाय तां प्रदद्यात्कर्णः । कर्णस्य पुत्री काचिदासीदित्यपि अप्रसिद्धं नः । कर्णोऽर्जुनस्याग्रज इति तथ्ये अनुसंहिते तु असङ्गतिः परां काष्ठाम् अञ्चति । एवमिह असङ्गतिः बहुविधास्तीति स्फुटमेव ।
परिहारः –
धर्मात्मजं द्रुपदजां परिदृश्य तस्मा-
च्चान्द्रायणाचरणबद्धविधिर्विदेशान् ।
पश्यंस्तदीयपृथुसुन्दरमीक्ष्य चक्षुः-
कर्णात्मजामुदवहद् विबुधोऽपि पार्थः ॥ (अवधानभारती, 51)
चक्षुःकर्णः सर्पः । अर्जुनस्य पत्नीषु अन्यतमा उलूपी नागकन्या किल । सा चार्जुनेन चान्द्रायणाचरणकाले परिणीता । तमेतं वृत्तान्तमादाय शब्दच्छलमुपयुज्य च प्रतिनवः परिहारोऽयं कल्पितः कविना । अत्र कर्णशब्दं चक्षुःकर्ण इति परिणाम्य उलूपीवृत्तान्तेन यत्तं कविरयोजयत् तत्र कवेः कोशज्ञानं महाभारतपाण्डित्यं च नितान्तमुपाकरोत् । तदेवं परिहारोऽयम् उभयच्छलरूपे प्रकारे सुघटः । तदेतत्सकलं समस्याश्रवणसमकालं स्फुरेन्ननु! तदिदमवधानिबलं स्तुत्यर्हम् । अत्र हि सुन्दरशब्दस्य सौन्दर्यार्थे प्रयोगः, समासाभावेऽपि ईक्षतेर्ल्यबन्तत्वेन प्रयोगश्च मर्षणीयो मनीषिभिः ।
[1] यथा – शतचन्द्रं नभःस्थलम् इति समस्या अनुष्टुप्पादेन निबद्धा ।
[2] यथा – वेषयोषाभिवन्द्या इत्याकारा समस्या वृत्तपादस्यापि कस्मिंश्चिदेकदेशे युज्यते । शालिनी-मालिनी-मन्दाक्रान्ताप्रभृतिषु वृत्तेष्विदं वाक्यं शक्यं योजयितुम् ।
[3] यथा – शुक्रः कन्यां प्रविष्टोऽपि कन्यात्वं न विनश्यति ।
[4] अत्र दर्शयिष्यमाणाः प्रकाराः स्फुटप्रतिपत्त्यर्थमेव । केषाञ्चन प्रकाराणां प्रकारान्तरे अन्तर्भावोऽपि शक्यः ।
[5] अमीषूदाहरणेषु कानिचित् सङ्ग्रहग्रन्थेभ्य उद्धृतानि । कानिचित्तु विभिन्नेषु अवधानेषु समस्यापरिहृतिस्पर्धासु च प्रष्टृभिः प्रास्तानि ।
To be continued.