सारः
अवधानमिति[i] प्रसिद्धः आशुकाव्यप्रधानः कलाविशेषः सहृदयहृदयं सविशेषं समाराधयन् चिराद् विराजते । सेयं कला संख्याभेदेन अष्टावधानं शतावधानं सहस्रावधानं चेत्यादीनि नानानामानि भजते । यत्र केनचिदेककाले अष्टौ विषया अङ्गानि वा निरुह्यन्ते तदष्टावधानम्, यत्र शतं तच्छतावधानम्, यत्र सहस्रं तत्सहस्रावधानं चेति भावः । अत्रत्यान्यङ्गानि निषिद्धाक्षरी समस्या दत्तपदी न्यस्ताक्षरी उद्दिष्टाक्षरी चेत्यादीनि नानाविधानि । एष्वङ्गेषु प्रत्येकमपि किञ्चिन्नियमनिबद्धं पद्यं प्रणेयं भवत्यवधानिना । अवधानसम्बद्धानामंशानां सिद्धान्तरूपेण विवरणपराणि शास्त्राणि कर्णाटान्ध्रभाषयोरेव लब्धजन्मानीति कृत्वा तदनभिज्ञानां तद्विषयकं ज्ञानं दुरापमेवासीत् । अतस्तादृशीं काञ्चिदावश्यकताम् अवगम्य तत्रभवद्भ्यां सद्विद्याविहरणाभ्यां रागणेश-शशिकिरणाभ्यां The Art and Science of Avadhānam in Sanskrit इत्याख्यः कश्चिदुद्ग्रन्थो निबद्धः, यः संस्कृतावधानं सामग्र्येण परिचाययति तत्सम्बद्धानंशान् सोपपत्तिकं सिद्धान्तयति च । तदस्मिन्नुद्ग्रन्थे गदितानेव विषयान् विबुधगिरा परिणामयितुं प्रवृत्तोऽयं यत्नः ।
प्रस्तावना
अवधानाङ्गेषु प्रधानमल्लतां[ii] भजति निषिद्धाक्षरी । निषिद्धान्यक्षराण्यस्यामिति व्युत्पत्त्या यत्र कस्यचन वर्णस्य तत्समुदायस्य वा निषेधो भवति तथाभूतं पद्यम् इत्यर्थः अस्य शब्दस्य । अयमत्र भावः – कविस्तादृक् किञ्चन पद्यं प्रबध्नाति यत्र तेन यत्नेन कानिचिदक्षराण्यप्रयुक्तानि भवन्ति । तान्येतानि पद्यानि स्वस्वस्वभावानुसारेण निरोष्ठ्यं निर्दन्त्यं चेत्यादिभिर्नामभिरपि प्रसिद्ध्यन्ति । यदि कस्मिंश्चन पद्ये ओष्ठ्यवर्णाः (उपूपध्मानीयाः) अप्रयुक्ताः स्युः तर्हि तस्य निरोष्ठ्यमिति नाम । यत्र दन्त्यवर्णाः (लृतुलसाः) यत्नान्निवारिताः स्युः तद् भवति निर्दन्त्यनामकम् । एवमन्येऽपि वर्णोत्पत्तिस्थानभेदजन्याः निष्कण्ठ्य-निस्तालव्य-निर्मूर्धन्यरूपाः प्रकारा इह यथायथमूह्याः ।
वस्तुतस्तु चिरान्महाकाव्यादिषु प्रयुज्यमाना एकाक्षरी-द्व्यक्षरी-त्र्यक्षरी-प्रभृतयोऽपि प्रकाराः वर्णनिषेधप्रभवा एव । तत्रापि व्यञ्जनान्तराणां निषेधात् । अनया दृष्ट्या ह्रस्वैकस्वरं[iii] दीर्घैकस्वरम्[iv] अवर्गीयम्[v] अनवर्गीयम्[vi] अचलजिह्वं[vii] चेत्येतेऽपि प्रकाराः अस्मिन्नेव वर्गेऽन्तर्भवन्ति ।
प्रत्यक्षरनिषेधः
एवं प्रागभिहिताः सर्वे प्रकारा निषिद्धाक्षरीकुक्षौ साधु निविशन्ते । उक्तेषु कञ्चन प्रकारं समादाय (अभिनवं वा प्रकारं प्रकल्प्य) कविः स्वयमेव पद्यं प्रबन्धुमर्हति । तथाप्यवधानविधौ सेयं केनचिद् विलक्षणेन वर्त्मना प्रवर्तते, यस्य प्रत्यक्षरनिषेध इति प्रसिद्धो व्यवहारः । तद्यथा – कश्चन प्रष्टा किञ्चिद् वस्तु वृत्तं च निर्दिश्य प्रत्यक्षरन्यासम् एकं व्यञ्जनं निषेधति । एवं प्रष्ट्रा यत्प्रसङ्गे यद्व्यञ्जनं निषिद्धं तत्र तद्भिन्नव्यञ्जनं विन्यस्यन्नवधानी पद्यं प्रबध्नीयात् । चतुर्थे पादे निषेधो न क्रियते प्रायेण ।
तदेतत्स्फुटतरं क्रियते केनचिदुदाहरणेन –
विषयः – ग्रीष्मः । वृत्तम् – अनुष्टुप् । अवधानी – श्री. एच् ए वासुकिः ।
(ग)[viii] ता (प) र (ण) का (ल) रू (ण) क्ष (त) वे (ल) षो (य) सौ
(ग) स (र) त्त्व (न) श (र) क्ति (ह) प (र) वि (र) स्स (अ) ताम् ।
(घ) क (र) च्छ (प) क (र) ल्प (न) व (न) श (र) स्वा (अ) र्था
नद्यो मन्दं स्रवन्त्यहो ॥[ix]
तथा च सम्पन्नं पद्यम् -
तारकारूक्षवेषोऽसौ सत्त्वशक्तिपविस्सताम् ।
कच्छकल्पवशस्वार्था नद्यो मन्दं स्रवन्त्यहो ॥ (The Art and Science of Avadhānam in Sanskrit, p. 115)
भावार्थः - असौ ग्रीष्मः नेत्रयोरहितं वेषं धरति । अयं हि सतां सत्त्वशक्तेः वज्रायुधम् । याश्च नद्यः पूर्वं कूलङ्कषाः प्रवहन्ति स्म ता अधुना मन्दतां गताः ।
अथेह प्रत्यक्षरनिषेधः कथङ्कारं प्रवृत्त इति परिशीलयेम । अत्र हि ग्रीष्मो विषयः । तस्मात्तं ग्रीष्मशब्दं वारयितुं गकारो निषिद्धः प्रष्ट्रा । अवधानी ताकारं न्यास्थत् । तापः किल ग्रीष्मस्य किञ्चिदसाधारणं लक्षणम् । अतस्तं शब्दं वारयितुकामेन प्रष्ट्रा पकारो न्यषेधि । मार्गान्तरमन्विष्यताऽवधानिना रेफो न्यवेशि । तदनु तारणमिति शब्दम् ऊहमानेन प्रष्ट्रा णकारे निषिद्धे ‘का’ इत्यब्रवीदवधानी । अत्र ‘तारकेति पदं पूर्णं किम् उताहो तारकाल इत्यादिना केनचिदध्वना तदनुवर्तते’ इति सम्भ्रान्तः स्यात् प्रष्टा । तथापि पूर्वोक्तयोर्द्वितीयस्य विकल्पस्य प्रासङ्गिकताम् अधिकां पश्यता तेन लकारो न्यषेधि । तावतैव ‘रू’ इत्याह वधानी । अधुना प्रष्ट्रा णकारे निषिद्धे अवधानी क्षकारं न्यधित । प्रायः प्रष्ट्रा पूर्वो वर्णो ‘रु’ इति ह्रस्वान्तः श्रुतः, येन कारुण्यमिति शब्दं तर्कयता तेन स्यान्निषिद्धो णकारः । तदेवं मिथो घर्षतोरेव तयोः समाप्तास्त्रयः पादाः । सत्यपीदृशे प्रातिकूल्ये पद्यं सुभगं सुबोधं च निबद्धमवधानिना । तृतीये पादे विवक्षितोऽर्थो यत्नाद् व्याख्येयः, यश्च सह्यते सहृदयैः अङ्गस्यास्य दुर्गमत्वम । तुरीयः पादो निर्निषेधं कृत इत्यपि सुवेद्यं स्याद् विदाम् ।
अत्र पूर्वार्धे कविना कृतश्चमत्कारो नितरां स्तुत्यः । विशिष्य “सत्त्वशक्तिपविः” इति रूपकेण पद्यं चारुतरम् अलङ्कृतं सुवेद्यं स्यात् सचेतसाम् । तृतीये पादे असमर्थसमासत्वाद् अर्थः स्तोकं दुरुपपादश्चेदपि कल्पना हृद्या विराजते । वस्तुतस्त्वस्मिन् विभागे निरलङ्कारमपि पद्यं दुष्करं भवति प्रत्यक्षरनिषेधात् । अतो यथाशक्ति समुचितैर्विशेषणैः पद्यमिह प्रबध्यं भवत्यवधानिना । व्याकरणदृष्ट्या निर्दुष्टत्वमेव निषिद्धाक्षरीपद्यस्य ग्राह्यतां सम्पादयति । तथाप्यत्र सालङ्कारं पद्यं रिरचयिषुर्विशिष्यते प्रकृतावधानी । तदेतदमुष्य इदम्प्रथममवधानम् इत्यंशमपि मनसि कुर्महे चेद् द्विगुणः स्यादानन्दः ।
प्रत्यक्षरनिषेधे प्रष्ट्रा अवधानिना सहृदयैश्च अवधेयाः केचनांशाः
चिरादवधानकलाबद्धश्रद्धैर्विद्वत्सहृदयैः सन्ततावलोकनेन मिथश्चर्चाभिश्च अभ्युपेताः केचिदंशाः साम्प्रतमिह नियमरूपेण सिद्धान्तिताः सन्ति । तेषु एतद्विभागसम्बद्धा मुख्या नियमाः क्रमेण परिचाय्यन्ते -
- प्रष्ट्रा आदौ वस्तु वृत्तं चैतन्मात्रं निर्देष्टव्यम् । नान्यः कोऽपि अलङ्कार-चित्रबन्धप्रमुखो विशेषस्तेन पद्येऽपेक्षणीयः ।
- अवधानाङ्गेषु कठिना मन्दगतिका च भवति निषिद्धाक्षरी । द्राघीयांसि वृत्तानीह महते कालव्ययाय कल्पन्ते । येषु च क्वचिल्लघुनैरन्तर्यं गुरुनैरन्तर्यं वा अपेक्षितं तेषु शिखरिणीस्रग्धरादिषु वृत्तेषु प्रसन्नं निषिद्धाक्षरीपद्यं न केवलं दुःशकम्, किञ्च असम्भवमेवेति वक्तव्यम् । अतो मध्यमगात्राणि वसन्ततिलकान्तान्येव वृत्तान्यत्र निर्देश्यानि । विशिष्य अनुष्टुप्, आर्या, शालिनी, इन्द्रवज्रा, उपेन्द्रवज्रा, रथोद्धता वंशस्थं द्रुतविलम्बितञ्चैतानि वृत्तान्यत्र सुष्ठु युज्यन्ते ।
- प्रष्टा प्रत्यक्षरन्यासम् एकमेव वर्णं निषिध्येत्, तच्च व्यञ्ञनमेव । क्वचिदेव अवधानिविस्मयाय सभारञ्जनाय वा स्वराक्षरं निषेद्धुमर्हति सः । परमिदम् असकृन्न कर्तव्यम् । न च तेन अक्षरनिषेधार्थम् अधिकः कालो ग्राह्यः ।
- क्वचित् समग्रे पादे वर्गमेकं निषेद्धुमप्युचितम् । तदाऽवधानिना तद्वर्गीयान् वर्णान् अपहाय तत्पद्यपादः प्रणेयो भवति ।
- तुरीये पादे किमप्यक्षरं न निषिध्यते । तत्र स्वाभिप्रेतेनार्थेन पद्यं सम्पन्नतां नेतुं समर्हत्यवधानी ।
- अवधानिना विरचितं पद्यं छन्दोव्याकृतिदोषविनिर्मुक्तं चेदलम् । दूरान्वयः क्लिष्टता अप्रतीतार्थकत्वं चेत्यादयो दोषा नात्र प्रसजन्ति, चित्रकाव्यत्वात् ।
निषिद्धाक्षरीनिर्वाहे अपेक्षितं ज्ञानं कौशलं च
एतावतैतद् व्यक्तमेव यत् सुदुष्करोऽयं निषिद्धाक्षरीनिर्वाहः । व्युत्पत्तिरेव क्षमेह विपत्तेरवधानिनं तारयितुम् । कीदृशी व्युत्पत्तिरिहावश्यकीति किञ्चिद्विशदीक्रियते –
1. कोशः – अपारशब्दसागरः स्यादवधानी । शब्दसम्पत्तिश्चेयं बहुप्रकारा । प्रत्येकमपि समुचितैरुदाहरणैः उत्तरत्र परिचाय्यते ।
- अभिप्रेतार्थे भूयांसः शब्दाः । यथा – हृदयार्थे चित्त-चेतः-स्वान्तादयः, मयूरार्थे बर्हि-बर्हिण-शिखण्डिप्रभृतयश्च शब्दाः । तदेतदवधानिनं विवक्षितार्थव्यक्तौ भृशमुपकरोति । यथा वा - अस्ति जीर्णार्थको जीनशब्दोऽपि । अनेन रेफे निषिद्धे नकारेण, नकारे निषिद्धे र्णकारेण च अभिलषितार्थकः शब्दः शक्यनिवेशो भवति ।
- नानार्थकाः शब्दाः । यथा – तारकाशब्दः । अस्य नक्षत्रार्थकत्वमेव प्रथमम् उपस्थितं भवति नः । किञ्चास्य कनीनिकेत्यपि वर्तते अर्थान्तरम्, यद्बलेनावधानी प्रष्टारं शक्नोति प्रतारयितुम् । तदेतत् प्राग्दर्शित उदाहरणे सुबोधम् । तद्वदेव अनन्त-वितान-विमान-प्रमुखाः शब्दाः ।
- अप्रसिद्धाः शब्दाः । यथा - बह्वर्थकः अदभ्रशब्दः, निःसारार्थकः वार्तशब्दो वा । एतादृशाः शब्दाः पादादौ प्रयुक्ताश्चेत् तदर्थमनवगच्छतः प्रष्टुर्दुरूह एव भवेदवधान्यध्वा । इदमपि तन्त्रं किञ्चिद्दूरं त्रायते तम् ।
- समानाक्षरादिकाः नैके शब्दाः । यथा – जकारे प्रयुक्ते सति जन-जय-जगत्-जप-जल-जड-जन्तु-जरा-जव-जल्प-जनि-जनुष्-जगती-प्रभृतयो नैके शब्दा झटिति वधानिधिषणायाम् उपस्थिता भवेयुः । तदेतदपि निर्बाधं करोत्यवधानिनम् ।
2. व्याकरणम् – सन्धिसमासनियमानां साधु परिज्ञानं कृत्तद्धितान्तानां निर्मितौ नैपुण्यं च वधानिमार्गम् ऊहातीतं विदधाति । इहापि प्रत्येकम् अंशः उदाहरणैः स्फुटीक्रियते ।
- सन्धिसमासनियमानां सुपरिज्ञानम् । प्रागुक्ते उदाहरणपद्ये वधानिना तारका इति यदा वर्णत्रयं निवेशितं तदा द्विविधो मार्गस्तन्मतौ कृतपदः स्यादेव । तारकाशब्दमादाय पुरोगमनं तयोराद्यः । अपरस्तु तारं पूर्वपदं विधाय काकारादिकं पदं संयोज्य च तारकाल-तारकाम-तारकान्त-प्रभृतीनां शब्दानामाश्रयणम् । तदेतत् समासविषये । तथैव ‘लतानता’ इत्यक्षरचतुष्टयं चेदवधानिना निबद्धं तर्हि ‘लताः नता..’, ‘लता नता’, ‘लता आनता’, ‘लता न ता…..’ चैवं विविधान् कल्पान् विमृश्य यस्तावत् प्रष्टुरनूह्य इति भाति तेन पुरो यातव्यम् । तथा च० ‘तद्धे’ इत्याकारकं वर्णजातं सन्धिनियमेन ‘तद्+हे’, ‘तद्+धे’ चेति द्वेधापि पुरो नेतुं शक्यम्, येनावधानिनो वर्त्म बहुगुणं सम्पद्यते । एवं सन्धिकार्यज्ञानमवधानिनः साधु साहाय्यमाचरतीति प्रस्फुटम् ।
- कृत्तद्धितान्तानां निर्मितिः । अवधानकाले प्रयुक्तस्य कस्यचन शब्दस्य कृदन्तात्मना तद्धितान्तात्मना वा परिणामनम् अपीह बहुधा उपकरोति । यथा भूमिशब्दः भूमिपः, भूमिदः, भूमिकृत्, भूमिराट्, भूमिभृत् चैवं कृत्प्रत्ययसाहाय्येन बहुभिरध्वभिरग्रे शक्यो नेतुम् । तथैव सौहित्यम् आञ्जस्यं वैरल्यं चेत्यादयः असहजास्तद्धितान्ता अपि क्वचिदवधानिनं पारीणं कर्तुं क्षमन्ते ।
3. लोक-शास्त्र-इतिहासादि-ज्ञानं वक्रोक्तिमार्गश्च । पद्यरचनार्थं वस्तु कीदृग्लभ्यत इत्येतत् पारेगिरं किल! तस्मादवधानी सर्वविधेष्वपि विषयेषु कृतावगाहः कृतप्रवेशो वा भवेत् । यथा –
- क्वचित् प्रष्टा पौराणिकम् ऐतिहासिकं वा वस्तु निर्दिशेद् यथा कृष्णस्य बाल्यलीलाः । क्वचिल्लौलिकं यथा आशुखाद्यम् (fast-food) । क्वचित्तु वर्णनाविशेषं यथा सूर्योदयः । अतोऽवधानिना सन्ततमात्मा शास्त्रीयेषु लौकिकेषु पौराणिकेषु चैवं सर्वविधेष्वपि विषयेषु यथाशक्ति विनीयेत । तदा किल तस्य पद्यपूरणार्थमपेक्षितेषु अर्थेषु न मनागपि सम्भवति आकिञ्चन्यम् । अनेन स पटीयसोऽपि प्रष्टुरप्रकम्प्यो भवति, कमपि मार्गं समास्थाय स्वं कर्म निरवष्टम्भं निर्वोढुं पारयति च ।
- वक्रोक्तिमार्गः । यावदवधानी वक्रोक्तिमार्गमनुसरति तावत् स प्रष्टुरनूह्यो भवति । तस्माद् वक्रं पन्थानं सर्वदा मार्गयेदवधानी निष्प्रत्यूहसञ्चाराय । वक्रोक्तिः किल जीवातुः काव्यस्य । अतोऽयं मार्गः स्वकाव्यस्य काव्यत्वेऽपि निभृतं सहकरोति ।
वस्तुतस्त्विहोक्ता अंशाः आशुकवेरवधानिनश्च सर्वत्रापि काव्यरचनायाम् आवश्यका एव ।[x] तथापि अस्मिन् विभागे विशेषेणोक्तं साभिप्रायकम् । यतो हि कोशो व्याकरणं च अवधानिनम् अस्मिन्नङ्गे यावदुपकरोति न तावदन्यत्र । तृतीयोऽप्यंशः अत्र प्रामुख्यं भजते यतो हि, कस्यचन वर्णस्य निषेधेन कदाचित् कश्चन वर्णनमार्ग एव पिहितो भवेत् । अतोऽवधानी शतपथः सहस्रपथो वा भवति चेदेव तेन मार्गान्तरं शक्यमासादयितुम् । तस्माल्लोकशास्त्राद्यवेक्षणान्न जातु तेन प्रमदितव्यम् ।
तदेवं प्रायेण समग्राहि प्रत्यक्षरनिषेधसम्बद्धं विषयजातम् ।
Endnotes:
[i] वस्तुतोऽवधानकला सम्प्रति वेद-साहित्य-सङ्गीत-गणितादिसम्बद्धा विलसति बहुप्रकारा । अस्मिन् लेखने तावदवधानशब्देन साहित्यावधानं विवक्षितमस्ति ।
[ii] प्रसिद्ध एवायं प्रधानमल्लनिबर्हणन्यायः । कस्मिंश्चिन्मल्लसमूहे प्रमुखो मल्लो यदि पराजीयते तर्हि तदनुयायिनां तेन जितपूर्वाणां वा मल्लानां पराजयः स्वत एव सिद्धो भवति । न तत्प्रतिष्ठापनार्थं नियुद्धान्तरमपेक्ष्यते ।
[iii] यत्र दीर्घस्वरा न प्रयोक्तव्याः ।
[iv] यत्र ह्रस्वस्वरा न प्रयोक्तव्याः ।
[v] यत्र वर्गीयव्यञ्जनानि न प्रयोज्यानि ।
[vi] यत्र अवर्गीयव्यञ्जनानि न प्रयोज्यानि ।
[vii] येषां वर्णानाम् उच्चारणे जिह्वा स्थिरैव स्यात् ।
[viii] निषिद्धान्यक्षराणि सावरणं निर्दिष्टानि ।
[ix] निषिद्धान्यक्षराणि आवरणस्यान्तर्निविष्टानि सन्ति । तुरीये पादे न कोऽपि वर्णो निषिद्धः ।
[x] यद्यपि कविरप्यत्र अन्तर्भाव्यः, तस्याप्यमीषामंशानामावश्यकत्वात् । तथापि तेन ग्रन्थाद्यवलोकनार्थं तदभिज्ञसंवादार्थं वा शक्यं प्राप्तुं समयम् इति कृत्वा न सोऽत्र परिगणितः ।
To be continued.