समस्याख्यानम् अवधानस्य प्रमुखेष्वङ्गेष्वन्यतममनन्यञ्च । अनर्था असङ्गतार्था वा काचन पद्यपङ्क्तिः कविसम्मुखे प्रक्षिप्यते या च तेन प्रत्यग्रप्रतिभया अर्थसङ्गतिर्यथा स्यात् तथा पूरणीया । अयं च काव्यप्रकारः चिरात् प्रथतेतरां वाङ्मयप्रपञ्चे । सोऽयं प्रकारो न केवलं संस्कृते, प्रत्युत बह्वीषु भारतीयभाषासु प्राप्तप्रतिष्ठो विराजति । विशेषतः चित्रकाव्यप्रकारेषु अमुष्य अग्रपूजा सर्वसम्मता । वात्स्यायनेन चतुःषष्ट्यां कलासु काव्यसमस्यापूरणम् अपि सन्दृब्धं विद्यते । भूयःसु च सङ्ग्रहग्रन्थेषु एतत्प्रकारकाणि पद्यानि उल्लिखितान्यलं विलोकितुम् । यथा, सुभाषितरत्नभाण्डागारे चित्रप्रकरणे समस्याख्यानाख्यो विभागो विद्यते यत्र विभिन्नसमस्यापरीहारपराणि सप्तसप्ततिः पद्यान्युपलभ्यन्ते । भोजप्रबन्धः, चमत्काररत्नप्रभा, विद्वच्चरितपञ्चकम्, वासिष्ठवैभवम्, चित्रकाव्यकौतुकं चैतास्वपि कृतिषु समस्याख्यानं लब्धास्पदं विलसतितमाम् । केशवमिश्रकृते अलङ्कारशेखरे अमरचन्द्रसूरेः काव्यकल्पलतावृत्तौ चापि प्रसङ्गवशात् समस्याख्यानं प्रस्तुतमस्ति ।
अत्रादौ समस्याशब्दार्थं स्तोकं मीमांसामहै । “समस्या तु समासार्था” (1.6.7) इति स्माह अमरसिंहः । पङ्क्तिमेनां विवृणोति क्षीरस्वामी यथा “समस्यते सङ्क्षिप्यते अनया समस्या । अपूर्णत्वाद् विक्षिप्तम् ।” इति । असौ व्युत्पत्तिः काव्यसमस्यायाः परिहारः सङ्क्षिप्तः सृष्टिशीलश्च स्यादिति पिशुनयति । भानुजिदीक्षितस्तावत् “समसनं समासः । समासोऽर्थो यस्याः पूरणसाकाङ्क्षा । कविशक्तिपरीक्षार्थमपूर्णतयैव पठ्यमाना ।” (अमरसुधा 1.6.7) इति समस्याशब्दार्थं व्यावर्णयति । अनया विवृत्या सिध्यति यद् अपूर्णा काचन पद्यपङ्क्तिः पदततिर्वा विक्षिप्यते, यां कविः स्वप्रतिभया समुचितपरिहारविधिना पूरयेदिति ।
अस्य शब्दस्य अर्थान्तरमपि सङ्गच्छते यथा – समसनं नाम एकीभवनम् । सम्पूर्वस्य असुधातोरस्मिन्नर्थेऽपि प्रसिद्धेः । अत्र हि प्रष्टा पद्यभागं कञ्चिदुपस्थापयति । कविश्च स्वप्रतिभया शिष्टान् भागांस्तत्र योजयित्वा पद्यं पूर्णतां नयति । एवं सम्पूरितं पद्यं तथा भवेद् यथा तत्कृत्स्नमपि एकेनैव विरचितमिति प्रतीतिः स्यात् सचेतसाम् । एवम् अत्र भिन्नकर्तृके द्वे पद्यखण्डे अनुद्भूतावयवतया एकीभवत इति कृत्वास्य समस्यात्वम् । अनया व्युत्पत्त्या समस्यापरिहारात्मके पद्ये प्रष्ट्रा प्रस्तुतं कविना योजितं चेति खण्डद्वयम् अनुद्भूतावयवतया एकीभूतं स्यात् इत्यस्याप्यंशस्य प्रामुख्यं प्रतीयते ।
उपर्युक्ता अंशाः प्रसिद्धेन केनचिदुदाहरणेन स्फुटीक्रियन्ते –
समस्या – मृगात् सिंहः पलायते ।
मृगो घात्यः सिंहश्च घातकः । घातकाद् घात्यः किल पलायेत । प्रकृते तु विपरीतम् अभिहितम् । तदिह कथञ्चित् समन्वेतव्यं प्रतिभाधनैः ।
परिहारः -
तिष्ठार्जुनाद्य सङ्ग्रामे त्वां हनिष्याम्यहं शरैः ।
तिष्ठामि कर्ण किं मूढ मृगात् सिंहः पलायते ॥ (सुभाषितरत्नभाण्डागारम्, 181)
अत्र परिहारार्थं कर्णार्जुनयोः संवादः प्रसङ्गत्वेन परिकल्पितः । पद्यस्य पूर्वार्धं ‘हे अर्जुन! तिष्ठ! अद्य सङ्ग्रामे त्वाम् अहं शरैः हनिष्यामि’ इति कर्णस्य वचनम् । तमुत्तरयन् अर्जुनो ब्रवीति ‘हे मूढ! तिष्ठाम्येव, किं मृगात् सिंहः पलायते?’ इति । यथा मृगात् सिंहो न पलायते, प्रत्युत तस्मिन्नाक्रमण एव बलवन्मनः कुरुते तद्वत् त्वयि मे प्रवृत्तिर्भविष्यति इति भावः अस्य पद्यस्य । तथा च समस्यावाक्यं दृष्टान्तालङ्काररूपेण उपयुज्य कृतस्तत्परिहारः सुधीभिः शक्यो विलोकयितुम् ।
इदमपीह सुधीभिरवधार्यं यदेका समस्या विभिन्नान् परिहारान् समर्हति । प्रष्ट्रा चिन्तित एव परिहारः उत्तरयित्रा प्रदेय इति नास्ति नियमः । वस्तुतस्तु या समस्या बहून् विभिन्नप्रकारकान् परिहारान् समर्हति सैव प्रशस्यते सहृदयैः । तदत्र परिहारान्तरं यथा –
हीनहत्या दधात्येव लाघवं महतामपि ।
इति मत्वा द्विपद्वेषी मृगात् सिंहः पलायते ॥ (सुभाषितरत्नभाण्डागारम्, 181)
क्षुद्राणां हननं महतामपि लाघवम् आवहति इत्यवधार्य सिंहो मृगात् पलायत इति भावः । द्विपद्वेषी इति विशेषणमपीह ‘सिंहो बलाढ्येषु करिनिकरेषु स्वं पराक्रमं प्रयुङ्क्ते न तु पेलवेषु हरिणेषु’ इत्यर्थं ध्वनयत् सार्थक्यं भजते ।
अथापरं किञ्चिदुहाह्रियते –
समस्या – शतचन्द्रं नभस्तलम् ।
एक एव किल चन्द्रो नित्यं विहायसि विलोक्यते । तत् कथं कदा वा तत्र शतस्य चन्द्राणां स्थितिरुपपद्येत? मैवं प्राक्षीः । न किञ्चिदशक्यं लोकोत्तरप्रतिभावताम् ।
परिहारः –
विधे पिधेहि शीतांशुं यावन्नायाति मे प्रियः ।
आगते दयिते कुर्याः शतचन्द्रं नभस्तलम् ॥ (सुभाषितरत्नभाण्डागारम्, 181)
काचित् प्रोषितपतिका ब्रह्माणं ब्रूते - ‘निजां विरहार्तिम् उद्दीपयन्नसौ शीतांशुः कञ्चित्कालं संव्रियताम् । प्रत्यागते च दयिते न त्वेकमात्रम्, प्रत्युत शतं चन्द्रा नभस्तले क्रियन्ताम् ।’ इति । तथात्वे तत्कौमुदीप्रपञ्चे विनोदविहारं करिष्याव इति भावः । पद्येऽस्मिन् कविना स्वप्रतिभया कञ्चित्प्रसङ्गं प्रकल्प्य समस्यावाक्यं रमणीयतया सङ्गमितं सहृदयैः शक्यम् आस्वदितुम् । परिहारश्चायं न परिहारमात्रम् । तस्या विरहदैन्यं प्रियसङ्गमौत्सुक्यं च व्यञ्जयता अनेन पद्येन निरायासं काव्यत्वम् आसादितम् ।
अथास्य परिहारान्तरं यथा -
सुमेरुशिखरप्रान्तस्फुरद्दिव्यवधूमुखम् ।
परितः स्फुरितैः शङ्के शतचन्द्रं नभस्तलम् ॥ (सुभाषितरत्नभाण्डागारम्, 181)
इह दिव्याङ्गनानां वदनान्येव विधुबिम्बानीनि उत्प्रेक्षमाणेन कविना परिहारः सुरभीकृतः । देवाः सुमेरौ निवसन्तीति किल पुराणप्रसिद्धिः । तस्य समुन्नतत्वात् सुमेरुशिखरे निवसन्तीनां सञ्चरन्तीनां वा दिव्याङ्गनानां यानि वदनानि वियदङ्गणे प्रभाधिक्येन परिस्फुरन्ति तानि वीक्षमाणः कश्चिन्नभोमण्डलं शतचन्द्रं सञ्जातम् इत्युत्प्रेक्षते । अयमपि परिहारपथः सालङ्कारतां कलयन् कमनीयकाव्यतायै कल्पते ।
अथान्यः परिहारः –
दामोदरकराघातविह्वलीकृतचेतसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ (सुभाषितरत्नभाण्डागारम्, 181)
विदिता किल वाचोयुक्तिः ‘दिवा नक्षत्रदर्शनम्’ इति । सेयं नियुद्धादिषु भृशमाहतस्य दारुणां स्थितिं साधु व्यावर्णयति । तादृगेव मार्ग इह परिकल्पितः कविना प्रकृतसमस्यां वाचोयुक्तित्वेन परिणामयता । कृष्णेन नियुद्धे नितान्तं निष्पिष्टश्चाणूरः प्रकृतपद्यस्य विषयः । स हि कृष्णस्य कराघातेन निःसत्त्वः सन् नभस्तलं शतचन्द्रम् अदर्शदिति कथयन् कविः सचेतसां स्पृहणीयं कमपि चेतश्चमत्कारं कलयति ।
अपरः परिहारः -
चलत्तरङ्गरङ्गायां गङ्गायां प्रतिबिम्बितम् ।
सचन्द्रं शोभतेऽत्यर्थं शतचन्द्रं नभस्तलम् ॥ (सुभाषितरत्नभाण्डागारम्, 181)
नभोमण्डलगानि वस्तूनि सरित्सरोवरादिसलिले प्रतिफलितानि बहुगुणानि किल विलोक्यन्ते । सा स्थितिरेव प्रकृतपरिहारस्य जीवातुः । परिहारेऽस्मिन् कविना गङ्गा विषयीकृता । अन्यत् सर्वं सुगममेव ।
विश्वतोमुखी कविप्रतिभैव शरण्या स्यादीदृशेषु समस्यापरीहारेषु । अस्मिन्नध्वनि क्वचित् कविसमयाः क्वचित् पुराणेतिहासाः क्वचित् कोशः क्वचिद् व्याकृतिः क्वचित् शास्त्राणि च कविं नितमामुपकुर्वते । अलङ्कारादीनां काव्यधर्माणां परिनिष्ठितः परिचयोऽप्यत्र महते सौष्ठवाय कल्पते । अनारतं लोकावलोकनं कविं भृशम् उपकरोतीति काव्यागमज्ञैराम्रेडितमप्यत्र मनसि कार्यम् । यथा प्राग्दर्शितायां ‘शतचन्द्रं नभस्तलम्’ इत्यस्यां समस्यायां प्रथमः परिहारः चन्द्रस्य विरहवेदनोद्दीपकत्वरूपं कविसमयं लोकधर्मं वा आधृत्य परिकल्पितः । द्वितीयस्तावद् वधूमुखानि शशाङ्कनिभानीति उपमामाश्रित्य साधितः । तृतीये परिहारे समस्यावाक्यस्य वाचोयुक्तित्वेन परिग्रहः तदनुकूलस्य पौराणिकप्रसङ्गविशेषस्य संयोजनं च उपाकुरुताम् । चतुर्थे तु निरन्तरं लोकावलोकनं कवेः सहकार्यभूद् यत्र स सरिदादिसलिले प्रतिफलन्तं चन्द्रं मनसि कुर्वन् परिहारपथम् अविन्दत् । अतोऽमीषु विषयेषु व्युत्पत्तिः कवेर्भारं सुवहं कुरुते । परिहृतिश्चासौ सपद्येव कर्तव्येति हेतोरवधानिनि शान्तचित्तता धीरता वा नितान्तमावश्यकी । तदेतत्सकलम् अग्रे दर्शयिष्यमाणैरुदाहरणैः स्फुटीभविष्यतीति नात्रोचितं विस्तारयितुम् ।
To be continued.