रसाभासरूपेण नूनं किलैतान्प्रवच्मो वयं नान्यथा विद्यमानान्। यदा वाऽऽग्रहास्तादृशा लोकबाह्या भवेयुस्तदा ते जने नीरसास्स्युः॥३३॥
अतो ह्यवादीद्ध्वनिकृत्पुरैव रसास्तदाभासमुखास्समस्ताः। रसादिरुपेण कृतौ प्रतिष्ठा व्यङ्ग्याध्वनि स्वादपरा भवन्ति[1]॥३४॥
रावणव्यपदेशेन यल्लोचनकृदीरितम्। तत्कवेस्तु विवक्षाया अधीनमिति मन्मतम् [2]॥३५॥
यद्यपि रावणे भट्टाभिनवगुप्तस्सीतावैषयिकीं शृङ्गारप्रसक्तिं निराकुरुते तथापि तस्मिन् रसान्ताराणां सम्भवं प्रत्याक्षेप्तुं न शक्यमिति पूर्वमेव निरूपितमस्माभिः। अन्यच्च कुवेम्पुवर्यस्य रावणोदात्तीकरणलालसापि न रसावहेति न्यरूपि। किन्तु यत्र सीतारामयोः प्रस्तावः सुतरामपि न दृश्यते दशकण्ठकथानके तत्र शृङ्गारवीरादीनामपि सम्भावना स्यात्। यतो हि दण्ड्यादयः प्रतिनायकपारम्यकथनमपि नायकाभ्युदयात्पूर्वं स्वारस्यकरमिति मन्यन्ते। तदतिरिच्य स्वतन्त्रेष्वपि प्रबन्धेष्वभिनवप्रकारेण रावणस्य सीतावैषयिकं विक्षोभं दुरन्तगम्भीरकाव्यधर्मतः प्रतिपादयितुं शक्यमेव। यथा पाश्चात्येषु “ट्राजिडि” इति काव्यप्रकारः प्रसिद्धो यत्र नायकस्य कश्चन लोप एव भावुकहृदयेषु करुण-भयानकमुखरसान् व्यञ्जयित्वा शान्तपर्यवसायेन साधयति सौन्दर्यं बोधयति नीतिञ्च सर्वथा महाकविक्षुण्णघण्टापथ इति विश्वविदित एव। ऐस्खुलस्-सोफोक्लेस्-यूरिपिदेस्-शेक्सपियर्-मुखाः कवितल्लजा एवात्र प्रमाणाम्[3]। पूर्वमेवास्माभिः प्रबन्धस्यास्य प्रारम्भे रससिद्धान्तस्य सर्वान्वयता व्यपदिष्टेति हेतुना सर्वमिदं विश्वसाहित्यवैविध्यं रसवत्तरमिति स्वीकृतम्।सहृदयहृदयानुभूतिरारात्प्रभवति यत्र निराकुलं निलीनम्। कविकृतकथनेषु पात्रवर्गेष्वथ रसपुष्टिरुदेति तत्र नूनम्॥३६॥
व्युत्पत्तिभागं तु कृतौ कदाचिद्ब्रूमो रसाभासतया यतो हि। जगत्समाराधनतत्परेण कृतप्रयासः कविना हि स स्यात्[4]॥३७॥
मन्दाधिकारिणः प्रायो रसाभासनिषेवणे। उद्दिष्टा इति चाकूतिः प्रकारान्तरसंमता॥३८॥
मन्द-मध्याधिकारिणां रञ्जनार्थं कल्पितेषु लघुप्रायेषु कला-काव्येषु न तावती ध्वननशीलता। प्रयेणात्र संलक्ष्यक्रमव्यङ्ग्य एव परमसिद्धित्वेन गम्यते । अत एव वस्त्वलङ्कारध्वन्योः पारम्यमित्यपि मन्तव्यम्। तथापि रसप्रसक्तिस्तु दुर्निवार्यैव। यतो हि तया विना कुत्र वास्ति सुखं कलालोके? अतो यदि रसाभासत्वेन सङ्गतिरियं व्यपदिश्यते चेन्न हानिरिति केचित्। परमस्मदुपज्ञैवम्—रसाभास इत्ययं शब्दः क्वचिद्रसविरोधिन्यनौचित्ये क्वचिद्रसादिध्वनिवलये च सव्यभिचारमालङ्कारिकैरुपयुज्यते। नैतदभीप्सितम्। यतो हि विभिन्नतत्त्वानां परिकल्पनार्थं पृथक्पारिभाषिकपदान्येव सूरिभिरिष्यन्ते। तस्माद्रसाभास इति व्यपदेशं नार्हत्यनौचित्यमयं काव्यम्।यदि पुष्टरसा काव्ये समासोक्त्याद्यलङ्कृतिः। रसाभासतया नात्र व्यपदेशो विधीयताम्॥३९॥
स्वप्नेऽपि समासोक्त्यादिवक्रोक्तिमयी कविसहानुभूतिभास्वती कविता रसाभासतामर्हति। यतो हि निसर्गवर्णनं तु समासोक्त्यैव परां काष्ठामधिवसति । अत्र पुनर्मानुषव्यापारः परमस्पृहणीयविधानेन ध्वन्यत एव। अनेन रसपुष्टिरपि स्वयं सिद्धा स्यात्। यथा “चञ्चच्चन्द्रकरस्पर्श ...” (वाल्मीकिरामायणम्, ४.३०.४५), “अङ्गुलीभिरिव ...” (कुमारसम्भवम्, ८.६३), “अनुरागवती सन्ध्या ...” (ध्वन्यालोकः, १.१३) इत्यादिषु पद्येषु गम्यमानं नायिकानायकवृत्तान्तं के वा न सहृदयशिरोमणयः शिरसि कुर्वन्ति सन्तोषेण?भावप्रकाशने प्रोक्तो यो रसाभासविस्तरः। कवेर्विवक्षावैविध्यादन्यथात्वं प्रयास्यति[5]॥४०॥
शारदातनयं भोजं चानुयास्य पदे पदे। एवमेव निरस्तस्स्याद्रसार्णवसुधाकरः[6]॥४१॥
विद्याधराभिप्रायस्तु सुतरां युज्यते यतः। कवेर्विवक्षास्वारस्यं तन्मते द्योतते तमाम्[7]॥४२॥
तिर्यक्षु जडेष्वपि वा विभावभावादिविज्ञतापत्तिः। स्यान्न स्यादिति नास्ते विचिकित्सा काव्यतत्त्वरसिकानाम् ॥४३॥
“अस्ति वस्तुषु मा वाभूत्कविवाचि स्थितो रसः”। इति न्यायेन तिर्यक्षु भवेद्भावावलोकनम्॥४४॥
आलम्बनविभावेषु विरुद्धरसकल्पनम्। रसाभासाय वीथीति जगन्नाथोऽपि दूषितः[8]॥४५॥
यतो ह्युचितसन्दर्भे विभावादिविशेषतः। वैरुद्ध्यानां तिरोधानं रसिकानुभवेऽस्ति हि ॥४६॥
शारदातनय-सिंहभूपाल-जगन्नाथादयस्तु प्रकृतिषु विरुद्धरसयोजनं रसाभासत्वेन मन्यन्ते। अत्र तु रसाभासो नाम कदाचिद्रसदोष एव तेषां तात्पर्यमिति गम्यते। हन्त! पुनश्च रसाभास इति संज्ञायामेव स्पष्टताराहित्यम्! तदिदमास्तां, विरुद्धरसकल्पनं यदि कविप्रतिभानुप्राणितं तर्हि न दोषायेति सहृदयालोककारः। अस्मन्मनीषितमपि तथैव। यतस्त्रिलोकविजयी विजयः कुरुक्षेत्रसङ्ग्रामे निजवीरे करुणं भयानकञ्च समाकलयति येन गीतोपदेशभूमिका स्पृहणीयतया निरमायि। धर्मव्याधे वेदान्तदर्शनं यच्छान्तपर्यवसितं न मनागपि दोषायेति सर्वेऽपि सहृदया विदाङ्कुर्वन्ति। महामेधावी च हनूमान्मन्दोदरीं सीतेति कृत्वा विभ्रन्त्या स्वां शाखामृगप्रकृतिं विद्योतयन्विषमगम्भीरसन्दर्भे हास्यकारी न दुष्यति। एवमेव सिद्धरसेषु रामायण-महाभारतादिषु भूमकाव्येषु विरुद्धरसानामप्यविरुद्धमनिरुद्धं रससमिद्धं सौन्दर्यं समनुभूतं शक्यमिति प्रेक्षावतामपरोक्षमेव। तिर्यग्जन्तुषु मृग-विहग-मृगेन्द्रादिषु स्थावरेषु जीविषु तरु-लता-शाद्वलादिषु जडेषु नद-नदी-पर्वतादिषु च रसप्रसक्तिर्नास्तीति प्रजल्पद्भिः कुठारकठोरचेतस्कैः कविवरेण्यानां कालिदास-कुमारदास-भट्टबाण-भवभूति-प्रमुखानां काव्यकल्पतरव एव खलीकृता इति मन्ये। वाल्मीकिरामायणे ऋतुवर्णनं, पूर्वमेघे तु जीमूतपथं, कुमारसम्भवे प्रतिकूलवसन्तवैभवं, कादम्बर्यां विन्ध्याटवीं, उत्तररामचरिते जनस्थानञ्च तत्रत्यं प्राणिजीवनं, रामायणदर्शने नैकत्र नैकविधनिसर्गचित्रणं सर्वञ्च पश्यतां प्रायेण मानुषव्यापारापेक्षया मानुषेतरलीलानिरूपणमेव सुतरां रोचकमिति मनसि केऽपि मधुरभावाः समुद्भवन्तीति स्वानुभवप्रमाणपुरस्सरं शपामहे वयम्। अत्रोदाहरणानि समुद्धरणार्हानि सन्ति भूयांसि पद्यगद्यरत्नानि। किन्तु ग्रन्थविस्तरभयात्तथा तादृशानामनवद्यहृद्यकाव्यसन्दर्भानां परिचितिप्राचुर्याद्रसिकवर्गे च विरमामो वयमितः। परमिदमवधेयं यत्पाश्चात्यकाव्यलोके च वर्ड्स्वर्त्-कीट्स्-षेल्ली-हार्डि-प्रमुखानां गद्यपद्यविद्याधराणां वचस्सु निसर्गनिरूपणं समर्हत्यग्रताम्बूलमिति जगत्साहित्यवेदिनां मतम्। आधुनिकेषु चालेख्य-शिल्पादिषु, छायाचित्रेषु, चलच्चित्रादिषु सस्य-जन्तु-निसर्गलीलाविलसितं नितरां हृदयङ्गमं निरूपणं नैकधा कल्पितमिति जानन्त्येव सङ्ख्यावन्त इति सूचनया जिह्वा नः प्रह्वीक्रियते।कर्णपूरस्य वादोऽपि न विचारसहो यतः। नास्तिकेष्वथ कृष्णेर्ष्यायुक्तेषु रसिकेष्वपि[9]॥४७॥
नायं क्षोदक्षमो भाति काव्यतत्त्वबहिष्कृतः। केवलं मतमुग्धानां स्निग्धभावाय कल्पितः॥४८॥
काव्यमीमांसा तु सार्वभौमभूता काचित्कलासौन्दर्यवरिवस्यासंवित्। नात्र श्रद्धाजाड्यानां मनागपि प्रवेशः कल्पितः। तथा च प्रीतिरहितानामपि निरोधो जागर्त्येव। तस्मादेषा नास्तिकानामास्तिकानां वा क्रीडनीयकतां न भजते। यतोऽस्या मीमांसाया मूलत्वेन भासमाना काव्यकला वा या कापि कला परमार्थतो रसिकानुभवमात्रमेया। नेयं कदाप्यनुभवदूरे विश्वासे वाप्यविश्वासे रतिङ्कुरुते। अतो हि श्रीकृष्णः साक्षाल्लीलामयः परमपुरुषो वा मर्त्यमात्रो जातु नास्माकं तत्र वादः। केवलं तस्य राधादिवल्लवीवाल्लभ्यं स्वरसं वा विरसं चेति विविदिषास्माकम्। येन केनापि निर्मलान्तःकरणेन सहृदयेन यदि पठ्यन्ते गीतगोविन्दादीनि गोपीगोपालकविलसितानि महाकविमनोमुकुरप्रतिफलितानि तर्हि तत्रावश्यं शृङ्गारादिरसचर्वणा भाविन्येव। न तेन रसिकवरेण वैष्णवेन भाव्यमास्यास्वादाय। नो चेत्कथमिव सनातनधर्मबद्धादरा वयं बुद्धचरितं (अश्वघोषप्रणीतं) वा गोल्गोथा-खण्डकाव्यं (गोविन्दपै-कविप्रणीतं) वा पारडैस् लास्ट् महाकाव्यं (मिल्टन्-कविप्रणीतं) वा भरतेशवैभवं (रत्नाकरवर्णिप्रणीतं) समास्वादयितुं पारयेम? अतो हि निगमनमिदं भाव्यं—व्युत्पत्तिमता सहृदयतल्लजेन स्वीयरसास्वादसंस्कारानुसारं महाकवि-महाकलावित्प्रणीतं किमप्युत्तमं निर्माणं हृदयसात्कर्तुं मतादीनां श्रद्धया वाऽश्रद्धया न किञ्चिदपि करणीयम्। अतो हि बिभीषिकारूपेण न केऽप्यत्र कलालोकबाह्यभूता लगन्तीति निगद्यते। अनेन विचारजातेन प्रेक्षावतामपरोक्षतामजनीति मन्महे रसाभासविवेकः। तदिदमस्तु माङ्गलिकमुपसंहृतिवचनम्—पूर्वाचार्याचारचारुत्वचिन्तासन्तापघ्ना जानुदघ्नाप्यनिघ्ना। मत्कोपज्ञा तुष्टये स्यादभिज्ञा विद्वत्पारावारकुम्भोद्भवानाम्[10]॥४९॥
अदर्शितादरोऽप्यहं प्रदर्शितादरः परं सुधीपरम्परापुरःप्रसादाने न तत्परः। प्रबुद्धवक्रवाग्रसौचितीध्वनिप्रतिष्ठितौ निबद्धबुद्धयस्सनाभितां भजन्तु मच्चिति॥५०॥