प्रकाराः
दत्तपदीयं द्विप्रकारा सुकरा दुष्करा चेति । एतौ प्रकारौ सुयोज्या दुर्ज्योज्या चेत्यपि शक्यौ वक्तुम् । असौ तावदत्राभिप्रायः ।
सुकरदत्तपदी - यदि दत्तानि पदानि निर्दिष्टे विषये भाषायां च सुखेन योजयितुं शक्यानि तर्हि सा सुकरदत्तपदी । यथा वर, कर, चिर, सुर चेति । एषां पदानां संस्कृतपद्ये निवेशो नितान्तं सुशकः । तदाकारकाणां शब्दानां संस्कृते सहजतया उपलभ्यत्वात् ।
दुष्करदत्तपदी - यदि तु दत्तानि पदानि निर्दिष्टे विषये भाषायां च नतमां घटन्ते तर्हि सा दुष्करदत्तपदी नाम । यथा कचोरी, जलेबी, पान्, समोसा चेति । एते शब्दा भाषान्तरीयाः संस्कृते यथारूपम् अनुपलभ्याश्च । अतः ‘समुद्धृतकचो रीणस्पृहः’ – इत्याद्याकारकैः विकल्पैः ‘कचोरी’ति वर्णानुपूर्वी शक्या साधयितुम् । ‘भास्वत्समोऽसावनिरुद्धतेजाः’ इत्यनेन ‘समोसा’ साधयितुं शक्या । अस्मिंश्च प्रकारे काठिन्यमधिकम् ।
अनन्तरोक्तायां दुष्करदत्तपद्यां पुनः कल्पयितुं शक्यन्ते नाना प्रकाराः । ते च यथा -
स्वार्थत्यागः – यदि प्रष्ट्रा प्रसिद्धानामेव शब्दानाम् अर्थान्तरे प्रयोगः इष्यते तर्हि स प्रकारः स्वार्थत्यागनामकः । यथा पूतना, कंसः, मारीचश्चेत्याद्याः शब्दाः स्वप्रसिद्धादन्यस्मिन्नर्थे प्रयोज्या इति प्रश्नः । तं चावधानी पूतनामा, पुलकं सचित्रम्, कुमारी चला चैतदाद्यैः प्रकारैः निर्वहन् पद्यं सम्पादयेत् ।
पुनरुक्तता – एकैव वर्णानुपूर्वी चतुर्षु पादेषु प्रयोक्तव्येति निर्देशः पुनरुक्तताप्रकारकः । ईदृशे समाह्वे प्रदत्ता वर्णानुपूर्वी तथा योज्या यथा पौनरुक्त्यदोषो न स्यात् । यथा ‘रस’ इत्येतां वर्णानुपूर्वीं सरस, भ्रमरसरणि – चेत्यादिभिः पदभेदैः साधयत्यवधानी, यत्र केवलं निर्दिष्टा वर्णानुपूर्वी पुनः पुनरावर्तते, न तु कश्चिदर्थः शब्दो वा ।
अश्लीलम्, अमङ्गलं वा – माङ्गलिकस्य कस्यचन वृत्तान्तस्य वर्णनार्थम् अमङ्गलानां पदानां निर्देशः । यथा विवाहो विषयः । दत्तानि पदानि शवः चिता भूतिः तिलश्चेति यानि मरणप्रसङ्गकानि । अत्राप्यवधानी तत्तत् पदं वर्णानुपूर्वीं वा अर्थान्तरेषु प्रयुञ्जानः पद्यं पूरयति ।
अर्थराहित्यम् – निरर्थकानां वर्णसङ्घातानां निर्देशः । यथा – रारा, रीरी, रेरे, रोरो चेति । अयं प्रकारः पुनर्नानारूपः । यथा कर्, चर्, पर्, सर् चैतानि पदानि निरर्थकानि, किञ्च ध्वन्यनुकरणात्मकानि । शगेना, शरेन, शरीह, शकेलो चैतान्यपि निरर्थकानि, किञ्चामूनि क्रमेण नागेश-नरेश-हरीश-लोकेश-रूपाणां पदानां विलोमतापादनेन साधितानि । प्राग्दर्शितानि भाषान्तरीयाणि पदान्यपि अस्मिन् प्रकारे निभृतं निविशन्ते यतस्तान्यपि पदानि उद्दिष्टायां भाषायां निरर्थकानि । एवं नानावर्त्मभिर्निरर्थकपदावलीं तथा प्रकल्पयन्ति प्राश्निकाः यथा सभा रञ्जिता विस्मापिता च भवेत् ।
अप्रसिद्धिः क्लिष्टता वा – प्रकृतभाषाया एव अप्रसिद्धानां कठिनानां वा शब्दानां निर्देशः । यथा शयुः, कार्ष्णिः, डिण्डी, चौक्षश्चेति । अमी शब्दास्तु संस्कृता एव । किञ्चैतेषां नितान्तम् अप्रसिद्धार्थकत्वाद् एतच्छब्दघटितम् अर्थवद्वाक्यं दुष्करं भवत्यवधानिनः ।
अत्रोक्ताः प्रकाराः केवलं दिग्दर्शकाः, विभिन्नान् अवधानप्रसङ्गान् विमृश्य कल्पिताश्च । अन्यानपि प्रकारान् स्वप्रतिभया परिकल्पयितुम् अर्हति प्रष्टा, यत्र प्रागुक्तानि प्रकृतसमाह्वस्य मूलतत्त्वानि अनुसृतानि स्युः ।
अनेनैतदपि स्फुटं यद् दत्तपद्या द्वयोः प्रकारयोः दुष्करदत्तपदी दुःशका सुकरदत्तपदी सुशका चेति । अतः सुकरदत्तपदी सचेतसां चेतश्चमत्कारे न स्तोकमपि क्षमा । अत ईदृक्प्रसङ्गे अवधानिनो भारोऽन्यविधो भवति यत्तेन सहृदयतुष्ट्यै प्रसन्नं प्राञ्जलं च पद्यं प्रणेयं भवति ।[1] तस्याप्यभावे विभागोऽयं सर्वथा हतसत्त्वो भवति ।
दत्तपदीनिर्वाहः
एतत्समाह्वनिर्वाहे सभङ्गः अभङ्गश्च श्लेषः प्रमुखं पात्रं वहतः । यतो दत्तानां पदानाम् अर्थान्तरे प्रयोग एवात्र जीवातुः । स च द्वाभ्यां मार्गाभ्यां सम्भवति । दत्तान् शब्दान् यथारूपमेव अर्थान्तरेषु कविर्यदि प्रयुङ्क्ते तर्हि तत्र अभङ्गश्लेषाख्यः प्रकारः । यथा हरिरिति शब्दश्चतुर्ष्वपि पादेषु प्रष्ट्रा निर्दिश्यते । अस्य शब्दस्य मर्कटः, सूर्यश्चेत्यादिषु नानार्थेषु प्रयोगेण निर्वाहः कृतश्चेदयं मार्गः अभङ्गश्लेषाख्यः । इयमेव वर्णानुपूर्वी ‘इह रिष्ट’, ‘गुणनिवह रिपुद्रावण’ चेत्यादिभिर्भङ्गैर्यदि साध्यते तर्हि स सभङ्गश्लेषाख्यो मार्गः । दुष्करदत्तपद्या निर्वाहे सभङ्गश्लेष एवाश्रीयते प्रायेण । यतो हि निरर्थकानां भाषान्तरीयाणां वा पदानां निर्वाहे सभङ्गश्लेषमात्रं शरणम् । उभयत्रापि यैः शब्दैरर्थैश्च प्रदत्ता वर्णानुपूर्वी साध्यते तदन्वितं प्रकृतविषयानुकूलं कञ्चन हृद्यम् अभिप्रायमपि कविः कल्पयन् तदुचितैः पदैस्तं पद्ये प्रतिष्ठापयेत् । तदेवं सौन्दर्येऽपि प्रतिपदं विहितावधानः स्याद् अवधानी ।
अस्मिन्नङ्गे वृत्तवरणमपि महतीं सावधानताम् अपेक्षते । विक्रीडितं स्रग्धरा चेत्यादीनि बृहद्गात्राणि वृत्तान्यत्र समुचितानि यतो ह्येषु दत्तानि पदानि तदनुसारिणं कल्पनाविशेषं च निवेशयितुं पर्याप्तमास्पदम् उपलभ्यते । आर्याप्यत्र समुचिता यथानुकूल्यं मात्राविन्यासास्पदप्रदत्वात् । किञ्च अनुष्टुप्, रथोद्धता, द्रुतविलम्बितं चेत्यादिषु लघुगात्रेषु वृत्तेषु अभीष्टैः पदैर्दत्तपदीनिर्वाहः तदनुकूलाभिप्रायनिवेशश्च प्रायेण दुःशको भवति । मालिनी हरिणी चैतदादीनि वृत्तानि दीर्घगात्राणि चेदपि यतिप्राबल्येन, लघुबहुलखण्डसद्भावेन च तत्राप्यभीष्टैः शब्दैर्दत्तानां पदानां निर्वाहो न सुकरः । अतोऽत्र पटुमतिः प्रष्टा दुर्घटानि पदानि लघुगात्रं वृत्तं च निर्दिशन्नवधानिनं नितमां क्लिश्नाति । यद्यत्र वृत्तवरणावसरः अवधानिने प्रदत्तः तर्हि दत्तानां पदानां निर्वाहे अपेक्षितं शब्दजालं यत्र सुघटं स्यात् तथाभूतमेव वृत्तं वरणीयं तेन । अतोऽत्र प्रष्टा वृत्तं निर्दिशति चेत् तत्सौकर्यायैव भवत्यवधानिनः ।
एवमिह विमृष्टानि निखिलान्यपि प्रातिकूल्यानि निपुणं सम्मुखीकुर्वन्नवधानी स्वाद्यं पद्यं चेत्प्रणयति तर्हि रमणीयं किमपि रसायतनम् अनावृतं भवति सचेतसाम् ।
अथास्य कतिपयान्युदाहरणानि प्रस्तोष्यन्ते ।
विषयः – श्रीरामः । पदानि – अण्ड, पुण्ड, खण्ड, षण्ड[2]
अण्डजाधिपकेतुमेव भवन्तमत्र विभावये
पुण्डरीकदलेक्षणं धृतचापबाणमहं सदा ।
दानवाकरखण्डनैकपटुं महेन्द्रमणिद्युतिं
षण्डतां मम काव्यकेलिमहारणेषु हरस्व भोः ॥ (शङ्करराजारामः)
हे राम! गरुडध्वजं कमलायताक्षं कोदण्डपाणिं दानवकुलनिर्मूलनदक्षं इन्द्रनीलमणिवत्प्रकाशमानं च भवन्तमहं चिन्तयामि । काव्यक्रीडारूपं यन्महायुद्धं तत्र मे नपुंसकत्वम् अपाकुरु ।
इह स्तोकमप्रसिद्धं हरनर्तनाख्यं (मल्लिकामालेत्यपि प्रसिद्धं) वृत्तमादाय पद्यं निबद्धमवधानिना । दत्तानां पदानां निरायासं निर्वहणं पद्यस्य स्फुटार्थकत्वं च व्यक्तमेव । अण्डशब्दस्य निर्वाहार्थम् अण्डजाधिपकेतुरिति समस्तं पदं शिल्पितं यस्य गरुडध्वज इत्यर्थः ।[3] पुण्डशब्दस्य सम्पादनार्थं पुण्डरीकशब्दः प्रयुक्तः । एवमन्ययोरपि दत्तयोः पदयोर्निवेशो व्यक्त एव । तत्रापि षण्डशब्दस्य निवेशार्थं काव्यकेलिमहारणेषु इति कृतो रूपकालङ्कारः कवेर्नैपुणीं निपुणम् अभिव्यनक्ति । अवधानप्रमुखा काव्यकेलिरेव किल कवेः समराङ्गणम् । अतः ‘तत्र मे षण्डतामपाकुरु’ इति प्रार्थनापि युज्यतेतराम् । अत्र दत्तानि पदानि प्रतिपादमादौ निवेशयितुं विहितो यत्नोऽपि सुग्रहः । सोऽयं यत्नः केवलं तृतीये पादे फलेग्रहिर्नाभवद् यन्न जातं सौन्दर्यहानये । तथा च दत्तानां पदानां निरायासो निर्वाहः, प्रसन्ना पदावली, निरर्थकपदाभावश्चेत्यादिभिर्नानागुणैः पद्यमेतदनवद्यम् ।
विषयः – जीवन्मुक्तः । पदानि – खाना, पीना, सोना, गाना
विषयविमुखा नानात्वोद्भासकेऽपि जगत्त्रये
सदमलचिदानन्दापीनात्मतत्त्वपरायणाः।
सरसमनसो नाट्यालोकिक्रमेण निरन्तरं
प्रणयनपरा योगानागा जयन्ति मुनीश्वराः॥ (शतावधानिरचनासञ्चयनम्, पु. 328)
ते जीवन्मुक्ता जयन्ति ये तावत् प्रलोभनमयेऽप्यस्मिन् जगत्त्रये इन्द्रियविषयेभ्यो विमुखाः सन्तः सच्चिदानन्दात्मके सर्वोत्तमे आत्मतत्त्वे सर्वदा सक्तचित्ता भवन्ति । परमार्थप्राप्त्या अमीषां हृदयं तथा सरसं भवति यथा ते निखिलं जगज्जीवनं नाट्यमिव पश्यन्ति । योगोऽप्यमीषां न भवति भाराय ।
अत्र प्रत्तानि पदानि हिन्दीभाषाकाणि । तेषां पदानां क्रमेण खादनं पानं शयनं गानं चेत्यर्थाः । विषयश्च जीवन्मुक्तः । जीवन्मुक्तस्तावत् बन्धमूलेभ्यो नानाभावेभ्यो मुक्त इति कृत्वा अन्नपानादिभिः सुखेन विहरति इत्यर्थोऽप्यत्र ध्वनन्नौचित्यं किमपि कलयति । एवं स्वाद्योऽयं प्रश्नः । अवधान्यप्यत्र हरिणीवृत्तम् उपाददानः समाह्वमिमं स्वाद्यतरं व्यधाद् यतोऽस्य वृत्तस्य निर्वाहो न तावत् सुकरः । तदेवम्भूतेऽस्मिन् समाह्वे पद्यं सुचारु निबद्धम् अवधानिना यदिदं कमनीयैः कल्पितैः अभिरामेण शिल्पितेन सार्थकैर्विशेषणैः अव्यर्थैः शब्दैश्च विलसतितमाम् ।
विषयः – उत्तरगोग्रहणम् । पदानि – श्री, नाग, फणि, शर्मा ।
परिहारः –
श्रीपूर्णदेश इति चेतसि चिन्तयित्वा
नागादिसैन्यपरिवेष्टितभीमकर्मा ।
वैराटमेवमभियाति फणिध्वजोऽसौ
शर्मास्तु पाण्डवगणाय च गोगणाय ॥ (शतावधानशतपत्रमु, पु. 82)
मत्स्यदेशः अतितमां सम्पन्न इति विचिन्त्य सर्पध्वजो दुर्योधनः चतुरङ्गबलोपेतः सन् तत्र अभियोगे उद्यतोऽस्ति । तत्रत्यानां पाण्डवानां गवां च शिवं भूयात् ।
अत्र दत्तानि पदानि अवधानिनो नाम्न एवावयवाः । एतानि च संस्कृतानीति हेतोः सुतरां सुयोज्यानि ।
[1] अवधाने सर्वाणि पद्यानि प्रसन्नानि विधातुं सर्वथा यतेतावधानी । तथापि यदि समाह्वो दुःशकः स्यात् तर्हि तन्निर्वाहेणैव सभ्यानां चेतश्चमत्कारः सम्पद्यते । अतस्तत्र पद्यस्य चारुता नात्यन्तमपेक्षिता । सुशके तु समाह्वे पद्यस्य चारुता नितान्तमावश्यकी यतो हि तस्या अप्यभावे तदङ्गमेव हतसत्त्वं भवति, सभ्यानामपि न मनोविनोदः ।
[2] दत्तानां पदानां यथारूपमेव ग्रहणं भवत्विति धिया अत्र तानि निर्विभक्तिकं निर्दिष्टानि ।
[3] अण्डजाः पक्षिणः । तेषामधिपो गरुडः ।
To be continued.