यदृच्छास्वच्छविस्तीर्णामविच्छिन्नरसावहाम्।
अगाधापारपारम्यां श्रये संस्कृतवाहिनीम्॥
I
तदिदं मुदावहं यदाधुनिकसंस्कृतसाहित्यवरिवस्याविवेचनात्मकमत्र सत्रं प्रकल्पितम्। दिनद्वयात्मकेऽस्मिन् सारस्वतसवने समर्पितानि स्वरसानि बोधप्रदानि च नैकानि प्रस्तावनहवींषि, येन बुभुत्सवो व्युत्पिपत्सवश्च विद्वद्रसिकवैतानवह्नयः समाराधितास्स्युः। अन्यच्च प्रश्नोत्तरपुरोडाशानां संवादसोमाहुतीनां परिवादपशूनां च विनियोगेन सारस्वतसप्ततन्तुरयं सर्वथा सम्पन्न इति मन्ये।
प्रायेण सत्रेऽस्मिन् साम्प्रतिकसंस्कृतसाहितीशारदायाः करकल्पितवल्लक्या नैके नन्वेकान्तमनोहरा वैचारिकरागा निपुणं निष्पादितास्स्युः। अतो हि न मे जागर्ति कश्चिदपि नवाभिरामसमालोचनमूर्च्छनाप्रस्तुतिभ्रमः। तस्मादेव किञ्चिदिव संस्कृतसाहित्यपरम्परापरिशीलनपुरस्सरं प्रस्तूयते येन क्वचिदपि मद्वाचिकं स्तोकमाप्रस्तुत्यदोषदूरं स्यात्। अनया च परिप्रेक्षया वार्तमानिकं संस्कृतवाङ्मयं येन येन क्लेशजातेन कदर्थितं कदर्थ्यते कदर्थ्यमानञ्चेति प्रायेण विज्ञायते। ततस्तेषां क्लेश-दोषाणां प्रहाणाय च तत्र तत्रैव काश्चन विनम्रास्सूचना अपि निवेद्यन्ते। इत्येवमस्ति मे प्रयासविस्तरः।
II
आदौ संस्कृतवाङ्मयमेव पश्यामश्चेत् तद्बुद्धिपारम्यं भावपारम्यं चाश्रित्य द्वेधा विस्तृतमिति प्रतिभाति। तदत्र बुद्धिपारम्ये स्तरेऽपि लौकिकमलौकिकं चेति पुनर्विभागद्वयं कल्पयितुं शक्यते। लौकिकाख्ये विभागे सर्वेषां प्रत्यक्षफलदर्शिनां प्रतिक्षणविकासिनां लौकिकशास्त्राणाम् अर्थ-काम-नाट्य-वास्तु-वृत्त(च्छन्दः)-शब्द(व्याकरण)-सूप-गणित-गीत-वैद्य-साहित्यादीनां शताधिकानामन्तर्भावस्स्यात् । अलौकिकाख्ये विभागे त्वपरस्मिन् प्रायेण सर्वेषां दर्शनानां वैदिकानामवैदिकानां वापि, क्वचिदागमशास्त्र-धर्मशास्त्र-यज्ञतन्त्रादीनां च भवत्यन्तर्भावः। इदानीं भावपारम्ये स्तरे पुनश्च भक्तिप्रधानं त्वलौकिकमिति प्रीतिप्रधानं लौकिकमिति द्विधा विभागव्यवहार इष्यते। अत्र भक्तिभावप्रधानमलौकिकं वाङ्मयं वेद-पुराणागमादिस्तुतिमाहात्म्यमयं निर्माणं कलयति। अपरस्तु विभागः प्रीतिभावप्रधानं लौकिकं शब्दार्थजातं काव्य-कथा-रूपकादिसाहित्यं लक्ष्यीकरोति। सत्यमत्र स्वप्रेक्षालक्षितेषु विविधेषु विभागेषु व्यपदेशस्तु भूयसा भवति। स्यान्नाम क्वचित्क्वचिदपि शाखाचङ्क्रमणं परस्पराश्रयणं वा। नानेन कापि विप्रतिपत्तिर्यतो हि सर्वे खलु नियमास्सापेक्षास्सापवादाश्च। केचन दैवप्रीतिरेव भक्तिरिति जीवप्रीतिरेव रस इत्यपि मन्यन्ते। पक्षोऽयमपि न दूषयत्यस्मन्मतं यतो हि केवलमत्र शब्दानामेव भिन्नता नार्थानाम्।
वयमिदानीं वाङ्मयविस्तरेऽस्मिन् रसपारम्यमयं लौकिकविभागविश्रान्तमपि नूनमतिलोकमनोहरं साहित्यमेव समालोचनाय समाद्रियमाणास्स्मः। अत्र तु गाङ्ग-यामुनयोरिव पाराशर्य-प्राचेतसयोरार्षवाग्जीवनं भारत-रामायणात्मना समर्हत्यग्रताम्बूलम्। अनयोरेव भूमकाव्ययोः पङ्कतौ सभाजनार्हा किल गुणाढ्यगुम्फिता बृहत्कथा। व्यास-वाल्मीकिवेदौ तु देव-दैत्य-राज-मौनिमयं जीवितमेव प्राधान्येन निमित्तीकृत्य सुविस्तृते देश-काल-व्यक्ति-वस्तुपटले सार्वजनीनं सार्वकालिकं सार्वदेशिकं च मानवभावस्पन्दनं निपुणं निरूपयतः। तयोरनेनैव हेतुना हि परवर्तिनां भरतभूमिभवानां महाकाव्य-महारूपकस्रोतसां मूलमातृकास्वारूपमपि सुविशदमनुमीयते। किञ्च बृहत्कथा न तथा। अत्र तु रम्योज्ज्वलवृत्तकल्पिताः, कटु-मधुरवास्तवशिल्पिताः, विनोदविकटा, अर्थकामनिकटाः, सिद्ध-विद्याधरवार्तावल्गिता अपि, भूत-वेताल-वेल्लिता अपि, प्राणि-पक्षिपटलप्रोता अपि लोकसामान्यमानुषरागद्वेषरञ्जिता एव भवन्ति बहुसन्दर्भाः। अत एव बृहत्कथेयं पूर्वापरवार्तिनां लोक-लोकान्तराणां समस्तकथाख्यायिकानां सङ्ग्रहसम्पुटी संभवभूमिर्वेति सुतरां गण्यते। नयमिममेव पुरस्कृत्य पूर्वसूरयो भास-कालिदास-क्षेमेन्द्र-गोवर्धनादयः सूच्येन वाच्येन वाऽपि विधिना स्वीयकाव्येषु सत्यमेतत्प्राचीकटन्। अन्यथा कथमिव भासस्य रामायण-महाभारत-बृहत्कथारूपकचक्राणि, कालिदासस्य रघुवंश-कुमारसम्भव-विक्रमोर्वशीय-शाकुन्तलादीनि तथा मेघदूतगतान्युदयनकथाकोविदग्रामवृद्धजल्पितानि च क्षेमेन्द्रस्य रामायण-महाभारत-बृहत्कथामञ्जर्यादयः प्राप्नुवन्ति प्रशस्तिम्? किमधिकं, तदित्थं कण्ठोक्तमेव गोवर्धनाचार्येण :
श्रीरामायण-भारत-बृहत्कथानां कवीन्नमस्कुर्मः।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना॥ (आर्यासप्तशती. ३४)
अतो हि समस्तमपि साहित्यं रसमयं यद्भरतभूसम्भवं तन्मुनित्रयस्यास्य महावाङ्मयोपजीवीति निश्चीयते। तस्मादेव वयमिदं त्रितयमार्षत्वेन मन्महे। रामायण-महाभारतयोरितिवृत्तेषु भव्योज्ज्वलजीवनमीमांसैव स्वरूपपारम्येन रसनिर्भरेण ध्वनिदीप्तेन विधानेन जागर्तीति विशदमेव। अत्र निरूपणावसरे नैकाश्च घटना अवश्यं भवन्त्येव। तथापि तासां प्रयोजनं जगज्जीवनदर्शन एव। न कदापि व्यास-वाल्मीकी विस्मयाद्भुतकथनग्रथनमात्रे मुह्यतः। प्रत्युत मुनिवर्ययोस्तयोः कृत्स्नमपि काङ्क्षितं मानुषसामान्यस्य यावच्छक्यं यावत्सम्भाव्यं चित्तवृतिसमस्तमपि च हृद्येनाकृतकविधिना ध्वनयितुमेव। न तयोर्वाणी विकटालङ्कृतिमुग्धा, वक्रवृत्तविभ्रान्ता, दुरूह्यपदपङ्किला, कविम्मन्यसमयप्रतारिता च। तदुक्तमेव स्वयं ताभ्यां स्वकाव्ययोः। यथा :
हसितं भाषितं चैव गतिर्या यच्च चेष्टितम्।
तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति॥ (रामायणम् १-३-४)
इतिहासप्रदीपेन मोहावरणघातिना।
लोकगर्भगृहं कृत्स्नं यथावत् संप्रकाशितम्॥ (महाभारतम् १-१-१०३)
(उभयत्र विद्यमानं “यथावत्” इति पदं परं प्रेक्षणीयम्)
बृहत्कथामार्गे तु पुराणेष्विव प्रायेण प्रसङ्गानां कथनं तत्तन्त्रमेव च पारम्यं भजतः। नात्र चित्तवृत्तिविलसितानां वैभवं निशम्यते। जनमनोरञ्जनमेव निरञ्जनतापेक्षया समादृतमिति भाति। प्रकृतीनां चारित्र्यस्फुटीकरणापेक्षया घटनानां रोचकधावनं लोकस्वभावसंभ्रमशीलनं च नितरां दरीदृश्यते। कथानां शरपरम्परया सर्जनं, विकृति-सुकृतीनां विलक्षणमावर्जनं विजृम्भते तराम्। तथापि जगद्वैचित्र्यदर्शनं सामान्यजनताया निस्सामान्यसुषमानिभालनं चात्र गुणातिशयत्वेन जेगीयते। विकटवागलङ्कारच्छन्दोनिबन्धनव्यसनिता नात्र मनागपि त्रासयति रसिकान्। एवं खल्वार्षकाव्यानां भुवनोपजीव्यत्वं निसर्गसहजनिस्सीमत्वं निरतिशयशश्वद्रासिक्यं विश्वंपृणनिखिलाकृष्टित्वं च सर्वथा श्रेयस्कामिभिः काव्यमीमांसामांसलमतिभिः परिभावनीयम्।
सम्प्रति केचन पणिनापत्यपथीनाः सन्दिह्यासुः कथमिव संस्कृतमयेन व्यास-वाल्मीकिवाङ्मयेन पैशाच्यादिप्राकृतमय्या बृहत्कथया सह समानतन्त्रं लगतीति। तदेवं समाधानं यत्संस्कृतमिति या वाग्विद्यते सा न केवलं पाणिन्युपज्ञाफलं प्रत्युत भरतमुन्यनुमतेन विधिना त्वतिभाषामार्यभाषां जातिभाषां योन्यन्तरीमपि भाषां समाकलयन्ती (नाट्यशास्त्रम्. १७-२७,२८) सर्वकर्मक्षमा सर्वसम्पन्ना च व्यवह्रियते। अत एवास्य विचारस्य व्यपदेशेन गाथाकोश-जातककथा-श्रावकाचारकथादयश्च महाराष्ट्री-पालि-मागधीमुख्यासु जातिभाषासु रचिता अपि काव्य-कथाः, महाकविप्रणितेषु सहस्राधिकेषु रूपकप्रकारेषु वाप्युपरूपकप्रकारेषु विपुलतया दृष्टचराणि नानासम्भाषणानि महाराष्ट्री-शौरसेनी-शकारी-चाण्डालीत्यादिप्राकृतप्रभेदनिबद्धानि, नैकानि तदितराणि काव्यानि यथा सेतुबन्ध-गौडवहो-लीलावई-समराइच्चकहादीनि यथार्हमन्तर्भवितुमर्हन्तीति मन्महे वयम्। नेदं स्वकपोलजल्पितकं यतो हि न केवलं नाट्यवेददर्शिना मुनिना परन्तु दण्डि-भामह-वामन-रुद्रट-उद्भट-आनन्दवर्धन-अभिनवगुप्त-कुन्तलक-महिम-भोज-मम्मट-हेमचन्द्र-राजशेखर-विश्वनथाद्यालङ्कारिकैश्च धनञ्जय-धनिक-गुणचन्द्र-रामचन्द्र-सागरन्दि- शारदातनय-सिंहभूपालादिभी रूपकलक्षणकोविदैरपि स्वस्वमीमांसासु नैकधा विविधप्राकृतपद्यानां वाक्यानां वा समुल्लेखश्च तेषां लक्षणाङ्गत्वेन निपुणं निरूपणमपि विहितमिति यथासम्भवं समृद्धं साक्ष्यं भवितुमर्हति। अन्यच्च सर्वेषामपि काव्य-रूपकाणां वा काव्यालङ्काराणां च ग्रन्थेषु प्राकृतवाक्यानां संस्कृतरूपनिवेदनसन्दर्भे छायेति व्यपदिश्यते,न तु भाषानुवाद इति। अनेन संस्कृत-प्राकृतयोः काय-च्छाया-योग इव कश्चन दुर्विभाज्य एव सम्बन्धः सिद्ध्यतीति निश्चप्रचम्। नो चेत्कथमिव किल रूपकेषु विविधभूमिकानां संस्कृत-प्राकृतसम्भाषणशीलानां परस्परं सुसंहतं च संवादसम्भवः?
अन्यच्च परेषां विचिकित्सा स्याद्यथा वयमङ्गीकुर्म एव संस्कृत-प्राकृतयोः पारस्परिकं समानतन्त्रं च। किञ्च कथमिव बृहत्कथेतराणामितिवृत्तानापि गुणाढ्योपज्ञायां समायोग इति। तदिदं समाधानम्। यथा व्यास-वाल्मीकिकाव्ययोरुल्लेखमात्रेण विष्णु-वायु-मत्स्य-मार्कण्डेयादीनां महापुराणानां सौर-नृसिंह-कालिकाद्युपपुराणानां च कथेतिवृत्तानां ध्वननं तथैव विविधानां कथाख्यायिकानामपि बृहत्कथाव्यपदेशेन भवत्युपलक्षणमिति निगद्यते।
अन्यच्च द्राविडानां शिलप्पधिकार-जीवकचिन्तामणि-कुण्डलकेशीत्यादीनि महाकाव्यानि, नेडुनल्वाडै-मधुरैक्काञ्जि-तिरुमुरुगाट्रुप्पडै-प्रमुखानि खण्डकाव्यानि, कुरुन्तुगै-कलित्तुगै-नट्रिणै-नर्रिणै-अगनानूरु-ऐङुरुनूरु-मुखानि मुक्तकसङ्कलनान्यपि बृहत्कथाकुटुम्बस्य निकटबन्धुत्वेनैव गणनां गच्छन्तीति विदांक्रियते विपश्चिज्जनः।
इदमेवं किल महता कालेन संस्कृतवाचि विद्यमाना लौकिकी रसमयी च साहिती भाषेतिवृत्तदृशा चिरन्तनाभिनवक्रमेण व्यवस्थापिताऽस्माभिः।
III
वयमिदानीमभिजातकाव्यानां विच्छित्तिविशिष्टतां संक्षेपेण पश्यामः। अत्र तु भास-कालिदास-शूद्रक-विशाखदत्तादयः केचन एव महाकवयः परिस्फुरन्ति। एतेषां कृतिषु सुतरां सुन्दरं समन्वितं च शब्दार्थदाम्पत्यं दरीदृश्यते। अत्र शब्दार्थयोर्व्यपदेशस्तु कविसृष्टिसमग्रस्य रूप-स्वरूपयोरेव निर्विशेषाद्वैतं कटाक्षीकुरुत इत्यवधेयम्। तन्नाम नूनमभिजातकाव्ये यस्मिन्कस्मिन्नपि वर्णनेतिवृत्तयोः, कथन-पात्रयोः(प्रकृत्योः/भूमिकयोः), वक्रोक्ति-रसादिध्वन्योः वास्तवादर्शयोश्च परमं सामरस्यं जागर्तीति मतम्। शास्त्रमात्रशारण्यापेक्षया शास्त्रसद्भावप्रत्यभिज्ञानमेवात्र व्यपदिष्टमित्यपि न विस्मर्तव्यम्। यतो हि नाम-रूपयोः परमं प्रयोजनं सच्चिदानन्दघन एवेति ब्रह्मात्मैक्यवादिनां वेदान्तिनां निर्विशिष्टसार्वत्रिकानुभवप्राणितः समयस्तु सर्वशास्त्राणां कलानां जीवनविधानानामपि यथायोग्यं दिग्दर्शनमिति निश्चयो निर्बाधं प्रवर्तते।
अभिजातकाव्यमार्गो नाम विच्छित्तिविच्छुरितया कयापि निस्सीमसमतया विभ्राजमानः कवितल्लजकैवल्यकल्पः। अत्र कविकर्म शक्तं सदपि कोमलं, सूक्ष्मं सदपि व्यापकं, रसिलं सदपि संस्कृतं, मसृणं सदपि निष्ठुरं, निर्भरं सदपि निर्ममं, समग्रं सदपि संक्षिप्तं, संयतं सदपि समृद्धञ्च भवतीति स्वाधीनकालिदासादीनां नितरामपरोक्षमेव। किमधिकेनात्र वचोविग्लापनेन? वास्तवादर्शयोः, ज्ञानविज्ञानयोः, व्युत्पत्तिसौन्दर्ययोश्च समास एव तदिदम्। कस्याश्चिदपि सुसंस्कृत्याः पर्यन्तभूमिः, कस्यापि च महाकवेः परिणतफलं काव्यमभिजातमिति प्रकरणमिदं समापयामः।
[This formed the content of the author's Presidential Address in the symposium on 'Modern Sanskrit Writing' held at Shringeri.]
Continued in the next part.