समस्या – सञ्चुकोच कमलं दिनोदये
कमलानां दिनोदये विकासो दिनान्ते सङ्कोचश्च लोकप्रसिद्धः । इह तद्विरुद्धमभिहितम् इत्यसङ्गतिः ।
परिहारः –
सुन्दरीयमभिरूपदीर्घिकां स्नातुमुत्सुकतयाविशत्तदा ।
तन्मुखेन्दुमहसावहेलितं सञ्चुकोच कमलं दिनोदये ॥ (रा. गणेशः)
काचन सुन्दरी प्रभाते स्नातुकामा यदा वापीम् अविक्षत् तदा तस्या मुखचन्द्रस्य कान्त्या निस्तेजस्कीकृतं कमलं सङ्कुचितम् अभूत् इति भावः । उपमानोपमेययोरभेदात् मुखदर्शनं नाम चन्द्रदर्शनमेव । चन्द्रोदये कमलस्य सङ्कोचः प्रकृतिरेव । इत्थं कमनीयकल्पनाकलितेन अलङ्कारच्छलेनात्र परिहृता समस्या ।
कासाञ्चन समस्यानां परिहारो नाट्यम् आलेख्यं पाञ्चालिका चैतदादीनाम् अनुकृतीनां कल्पनया साध्यो भवति । तत्र किञ्चिदुदाह्रियते -
समस्या – श्मश्रु भाति सुतरां वनितास्ये
सुगमैवेयं समस्या ।
परिहारः –
भामिनीभिरभियोजितरङ्गे रूपके वहति नायकपात्रम् ।
कामनीयकमनाकुलमित्थं श्मश्रु भाति सुतरां वनितास्ये ॥ (रा. गणेशः)
वनिताभिरेव निरूढे कस्मिंश्चन नाटके नायकपात्रं वहन्त्याः वनितायाः मुखे श्मश्रु भाति स्म यच्च तदात्मीयानां विनोदाय अकल्पतेति नाट्यप्रसङ्गं प्रकल्प्य कृतः परिहारोऽत्र द्रष्टव्यः ।
तदेवं नैकान्युदाहरणानि विलोकितानि यत्र अर्थच्छलस्याश्रयणेन परिहाराः सुलभाः सुभगाश्च संवृत्ताः । अमीषु च परिहारेषु प्रागुक्ताः श्लेषच्छलं शास्त्रच्छलं चैतदाद्या अर्थच्छलप्रकाराः यथास्थानं विवृताः सुधीभिरवधार्याः ।
समस्यावाक्यस्य स्थानान्तरे निवेशः
प्रायेण समस्यावाक्यं पद्यान्ते निवेशयन्ति कवयः । परं न कश्चिदेवं नियमः । पद्यादौ पद्यमध्ये वाप्यस्य निवेशः शिष्टसम्मत एव । तदत्र किञ्चिदुदाह्रियते -
समस्या - चित्रं किमत्र यदि रागमुपैति नीलम् ।
अस्यार्थः सुगम एव ।
परिहारः -
चित्रं किमत्र यदि रागमुपैति नीलं
सन्ध्यासु नित्यमिदमम्बरविद्यमानम् ।
आलेख्यकौशलकलाविधिना विभाव्यं
देवस्य पश्य तदिदं रसविस्मयार्थम् ॥ (रा. गणेशः)
सन्ध्याकाले रक्तं गगनं निशायां प्रवृत्तायां क्रमेण नैल्यमुपैतीत्ययं प्रकृतिस्वभावः सर्वानुभवगम्यः । तमेव विषयीकृत्य परिहारम् आतिष्ठन्नवधानी, तदेदद् देवस्य कलाकौतुकं लोकस्य रसानन्दायेति हृद्यम् उत्प्रेक्षते उत्तरार्धेन । इह हि समस्यावाक्यं पद्यस्यादावेव निवेशितं शक्यमवधातुम् ।
सोऽयं परिहारो लोकानुशीलनसिद्धः । अस्याः समस्याया अनेनावधानिना परिहारान्तरमपि कृतमस्ति यत्र तदीयं रसायनशास्त्रज्ञानं सहकार्यभूत् । तस्मिन् परिहारे समस्यापादश्चरम एव निवेशितः । तथा च तत्परिहारान्तरम् -
धीरापरोक्षमिह यद्रसशास्त्रशाला-
स्वाम्लद्रवस्य परिणामपदं विशिष्य ।
लिट्मस्-दलं भजति वर्णविपर्ययं त-
च्चित्रं किमत्र यदि रागमुपैति नीलम् ॥ (रा. गणेशः)
निरर्था शब्दावली
क्वचिन्निरर्था वर्णावली शब्दावली वापि समस्यात्वेन प्रक्षिप्यत इति प्रागुक्तमेव । अवधानिभिः सम्मुखीकृताः तादृश्यो द्वित्राः समस्याः तत्परीहाराश्च साम्प्रतं प्रस्तूयन्ते ।
समस्या - गुलुगुग्गुलुगुग्गुलु
स्फुटमेवास्य वर्णसमाहारस्य निरर्थकत्वम् ।
परिहारः –
बेङ्गलूरुपुरे नित्यं जलाभावाभिभाविते ।
रवः कदापि नाले स्याद् गुलुगुग्गुलुगुग्गुलु ॥ (शतावधानिरचनासञ्चयनम्, 145)
परिहारोऽयं लोकानुभवसिद्धः । नलिकायां जलाभावे श्रूयमाणस्य ध्वनेः अनुकरणम् इह गुल्वादिपदावल्या गृहीतम् । वस्तुतोऽसौ समस्या भोजप्रबन्धाद् उद्धृता । तत्रत्यः परिहारस्तु स्पृहणीयं निसर्गसौन्दर्यं समाश्रित्य कल्पितः । प्रकृते त्ववधानी विलक्षणेन नर्ममयेन पथा परिहारम् असाधयत् ।
समस्या – झेर्जुस् झस्य च रन् झरो झरि झयो झोऽन्तो झलां नाज्झलौ ।
इह समस्यायां निवेशितानि झेर्जुस्प्रभृतीनि वाक्यानि वस्तुतः पाणिनीयानि सूत्राणि । अमीषां सूत्राणां पृथक् पृथगर्थो वर्तत एव । किञ्च इह प्रक्षिप्तस्तत्समाहारो न कमप्यर्थं बोधयति । अतोऽत्रापि समस्या निरर्थकपदावलीरूपा इति वक्तव्यम् ।
परिहारः -
सूत्राणां स्मरणं तदर्थमननं गुर्वन्तिके चिन्तनं
कष्टं कृत्स्नमितीह शास्त्रपठनाद्दूरं निजं मा कृथाः ।
क्लेशोऽयं निखिलः सुखाय भविता तस्माज्जपेः सन्ततं
झेर्जुस् झस्य च रन् झरो झरि झयो झोऽन्तो झलां नाज्झलौ ॥ (रामकृष्णपेजत्तायः)
व्याकरणाध्येत्रा किल पाणिनीयानि सूत्राणि सन्ततं रटित्वा हृदि करणीयानि । अध्ययनमिदं न तावत् सुकरम् । तथापि यदा अस्य अध्ययनस्य फलं शास्त्रनैपुण्यरूपं प्राप्यते तदा प्राक्तनं निखिलं कष्टं विस्मर्यते, सुखं चानुभूयते । तदेतद् विवृण्वन्निह कविः कृत्स्नं पद्यं सङ्गतार्थकं व्यधात् ।
द्विपदी समस्या
समस्यावाक्यं पद्यपादेन क्वचित् पादैकदेशेनापि प्रत्तं भवतीति प्रागुक्तमेव । क्वचित् तादृश्यः समस्या अपि दृश्यन्ते याः पादद्वयं (पद्यार्धं) व्याप्नुवन्ति । तदेतद्विधा द्वित्राः समस्याः साम्प्रतम् उदाह्रियन्ते -
समस्या - वर्षाणि सप्त रामस्य वनवासावधिर्ननु ॥
कोऽयमुन्मत्तप्रलापः? नहि नहि । समस्या किलैषा । वीक्ष्यतामिह तदसाङ्गत्यनिवर्तनम् -
परिहारः –
आदावष्टमवर्षस्य भरतो वक्ति सोत्सुकम् ।
वर्षाणि सप्त रामस्य वनवासावधिर्ननु ॥
चतुर्दश वर्षाणि काननमध्युवास श्रीरामः । तेषु अष्टमस्य वर्षस्यारम्भे सप्तैव वर्षाणि किल शिष्यन्ते । तत्काले अग्रजविरहोत्कण्ठितो भरतो दिनानि गणयन्नुत्कतया एवं ब्रवीतीति वर्णयन् कविः पद्यमिदं सङ्गतार्थम् अकरोत् ।
समस्या -
परिव्राजकमात्मीयमकरोद् वरवर्णिनी ।
सुगमैवैषा समस्या ।
परिहारः –
परिव्राजकमात्मीयमकरोद् वरवर्णिनी ।
सुभद्रा कृष्णभगिनी कुहनावेषधारिणम् ॥ (अवधानविद्यासर्वस्वमु, 777)
सन्न्यासिरूपेणागतस्य अर्जुनस्य सुभद्रया वरणं वर्णयता कविना सुसाधितोऽयं परिहारः । पद्यं तु सुबोधमेव ।
चरमा गतिः, परिहारविधानां गुणेन उच्चावचत्वं च
सैषा प्रसिद्धेन केनचित् पद्येन उपस्थाप्यते ।
भोजनान्ते च किं पेयं? जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तं? तक्रं शक्रस्य दुर्लभम् ॥
इह समस्या तक्रं शक्रस्य दुर्लभम् इत्याकारा । तां परिजिहीर्षुः कविः समस्यागतानि त्रीणि पदानि यथा उत्तररूपेण तिष्ठेयुः तथा तत्पूर्वपादेषु त्रीन् प्रश्नान् न्यवीविशत् । प्रसिद्धमेवैतत् पद्यम् । बहुत्र समस्यापूर्तेः प्राथमिके परिचये इदमेव पद्यमुदाह्रियते प्रायेण । किञ्चैतदिह सहृदयैरवधेयं यदयं परिहारपथः अधमकोटिकः । यतोऽत्र न कोऽपि विलसति कविप्रतिभाविशेषः । अतोऽयं परिहारपथस्तदैव श्रयणीयः यदा न किञ्चित् स्फुरति मार्गान्तरम् । ‘इदं मूर्खभणितम्’ ‘इदम् उन्मादप्रलपितम्’ इत्याद्याकारकाः परिहारा अपि मार्गान्तराभावे एव शरण्याः । वस्तुतः प्रागुक्ताः श्लेष-कल्पनाविशेष-अलङ्कार-प्रभृति-चमत्कार-विलसिता अर्थच्छलप्रकारकाः परिहाराः उत्तमां कोटिं भजन्ते । शब्दच्छलमपि यदीह स्वेन चमत्कारेण उपतिष्ठते तर्हि तन्मोदातिशयाय । शब्दच्छलमात्रेण साधिताश्चमत्कारविरहिताः परिहाराः सभ्यान् न तथा रञ्जयन्तीति कृत्वा प्रायो मध्यमां कोटिं समर्हन्ति । तदेतत्सकलं स्वान्ते कुर्वता कविना उत्तमकोटिके परिहारे सर्वदा यत्नो विधेयः । यदासौ मार्गः सर्वथा न स्फुरति तदैवेदृशे निश्चमत्कारे पथि पदं निधेयम् ।
उपसंहारः
तदेवं विस्तरेण विवृतं समस्याख्यानम् । अत्र हि समस्यायाः रूपं स्वरूपं च, तत्रत्या नानाप्रकाराः, तत्परिहारे विभिन्ना विधाः, परिहारस्य सारासरताविवेकः चैते अंशाः सोदाहरणं विवेचिताः । तदेतत्सकलम् अवधानिना अवधानित्वमिच्छता वा यथा अवधेयं तथा सहृदयैरपि । कृत्स्नस्यास्य ग्रहणेन अवधानिनां (कवीनां च) समस्यापूरणे पाटवं परिबृंहितं भवति सहृदयानां च तत्सारासारग्रहणे तत्पूर्वके आस्वादे च मनीषा निशिता भवति । सम्पन्नैः सहृदयैः किल समेधन्ते कलाविशेषाः । तदभावे कलैव वैकल्यं विन्दति यच्चातिरोहितमेव तिग्मधियाम् । अथ प्राग्विस्तरेण विमृष्टस्य सारं पद्याष्टकेन सङ्गृह्य विरम्यते -
अनर्थासङ्गतार्था वा कविशक्तिं परीक्षितुम् ।
अपूर्णा पठ्यते पङ्क्तिर्या समस्येति सेरिता ॥१॥
शब्देनार्थेन वा ताभ्यामुभाभ्यां वा कविश्छलात् ।
प्रत्यग्रप्रतिभापूतस्तां पूरयितुमर्हति ॥२॥
अनेककर्तृकत्वं यदस्य प्रतिभया कवेः ।
निलीनं स्यात् समस्येति नाम तेनापि सार्थिका ॥३॥
नैके यस्याः परीहारा भवेयुः प्रतिभाबलात् ।
सैषा किल समस्यानामग्रपूजां समर्हति ॥४॥
असङ्गतिपरीहारे दधानो हृदयं कविः ।
तथेह शिल्पयेत् पद्यमभिप्रायो यथा स्फुटः ॥५॥
समस्यावाक्यमस्यन्ति प्रायः पद्यान्तगं बुधाः ।
आदौ मध्येऽथवाप्यस्य न्यासः सहृदयादृतः ॥६॥
कल्पना-पद्यशिल्पाभ्यां तत्सारासारनिर्णयः ।
स्थानाद्यमन्यथासिद्धमिहेति विदुषां मतम् ॥७॥
अवधानरसनिधानं
विमुक्ततर्कावनिप्रचण्डविमानम् ।
प्रतिभाप्रभावितानं
जयतितरां भविकभुवि समस्याख्यानम् ॥८॥
----------------------------------------------------------------------------------------------------------------
References:
- Amara-kośa of Amarasiṃha (along with Amara-sudhā commentary). New Delhi: Chaukhamba Sanskrit Pratishthan, 1995.
- Avadhāna-vidya. Subbanna, CV. Hyderabad: Telugu University, 1987.
- Kannaḍadalli Avadhāna-kale. Ganesh, R. Hubli: Sahitya Prakashana, 2015.
- Sahasra-śīrṣa. Sarma, Madugula Nagaphani. Hyderabad: Avadhana Sarasvati Peetham, 1996.
- Śatāvadhāna-sāramu. Tirupati-Veṅkaṭeśvarulu. Rajamahendravaram: Tirupati Venkateshvara Publications, 1934.
- Śatāvadhāni-racanā-sañcayanam. Ganesh, R. (Ed. Shukla, Balram). New Delhi: Sahitya Academy, 2019.
- Subhāṣita-ratna-bhāṇḍāgāram. (Ed. Ācārya, Nārāyaṇ Rām). Varanasi: Chaukhamba Sanskrit Series Office, 1998.
- The Art and Science of Avadhānam in Sanskrit. Ganesh, R. & Shashi Kiran, BN. Bangalore: Prekshaa Pratishtana, 2020.
Concluded.