समस्या – अन्धः पठति पत्रिकाम् ।
सुबोधैवेयं समस्या ।
परिहारः –
अहं च सर्वकर्तास्मि मत्समो नास्ति भूतले ।
इति नित्यप्रवृत्त्या गर्वान्धः पठति पत्रिकाम् ॥ (अवधानभारती, 39)
इहान्धशब्दस्य गर्वान्ध इति परिणामनेन परिहृताभूत् समस्या । मदमत्तस्य पत्रिकापठनं न खल्वनुपपन्नम् । तथापि आद्यास्त्रयः पादाः वृथैव पूरिताः सन्ति । यदीहावधानी तस्य पत्रिकापठने कमपि हेतुं न्यवेशयिष्यत् तर्हि परिहारोऽयं रम्योऽभविष्यत् । प्रकारश्चात्र समासाश्रितः शब्दच्छलः ।
समस्या – नीपेरेमे जलजवदना नित्यमुन्मुद्धुनीव ।
समस्येह वर्तते भाषागता । ‘नी पेरेमे’ इति वाक्यं ‘तव नाम किम्’ इत्येतदर्थकं तेलुगुभाषायाम् । अतः समस्यावाक्यस्य युक्ततया च्छेदेन अर्थग्रहणमेवेह प्रधानः समाह्वः[1] कवेः ।
परिहारः –
रम्यं रम्यं रसमयकथारासलीलाभिगम्यं
चित्रं चित्रं चतुरसुकलाचिद्विलासं विलासम् ।
गोविन्दं तं सपदि सुपदं नित्यमन्वेष्टुकामा
नीपे रेमे जलजवदना नित्यमुन्मुद्धुनीव ॥ (सहस्रशीर्षा, 34)
अत्र समस्यापादे प्रथमभागस्य ‘नीपे रेमे’ इति पठनेन परिहारपथः प्राप्तः । तदन्तिमखण्डमपि नित्यम् + उन्मुद्धुनी + इव इति च्छिन्नम् । तथा चास्य समस्यावाक्यस्य कमलवदना काचन योषा नित्यम् उद्वहन्ती नदीव कदम्बमहीध्रमये उद्याने रेमे इत्यर्थः फलितः । एवम् अन्वयव्यतिरेकेण प्राप्तमर्थं गोपीकर्तृककृष्णान्वेषणवृत्तान्ते सङ्गमयता कविना आद्यास्त्रयः पादाः पूरिताः । पद्येऽस्मिन्नाद्यं पादद्वयं विशेषणैरेव यत् पूरितं तत्किञ्चिन्नैरस्याय कल्पते । यदीदं पद्यार्धं रमणीयेनालङ्कारेण कविरयोजयिष्यत् तर्हि परिहारोऽयम् आस्वाद्यतरोऽभविष्यत् ।
समस्या – रमति रमावरजो रजोमयोर्व्याम् ।
इह समस्या द्विविधा । रमुधातुरात्मनेपदी । अतो रमतीति प्रयोगो लटि न सम्भवति । इदं शत्रन्तमित्यपि न वक्तव्यं परस्मैपदिन एव शत्रुत्पत्तेः । तदेवं रमतीति प्रयोगः सर्वथा असाधुरेव । समस्या चेयम् अपशब्दाभास इत्येतत्प्रकारा । तथा चेह कृत्स्नं पद्यम् अपशब्दपिशाचमुक्तं यथा स्यात् तथा कार्यमवधानिना । तदुपरि रमावरजस्य रजोमयभूमौ रमणम् अपि न काञ्चित् सङ्गतिं विन्दति । अमीभिर्हेतुभिः नातिसुलभेयं समस्या ।
परिहारः –
पुरजिति विमुखी बभौ भवानी
विरहरुजाथ शिवे तथा शयाने ।
मुकुटमणिरसौ लुठन् विषण्णो
भ्रमति रमावरजो रजोमयोर्व्याम् ॥ (शतावधानिरचनासञ्चयनम्, 291)
इह रमतीति वर्णसमुदायस्यादौ भकारं संयोज्य भ्रमतीति पदं साधयन्नवधानी व्याकृतिदोषं पर्यहार्षीत् । तथा चास्य वाक्यस्य रमावरजश्चन्द्रः रजोमयोर्व्यां धूलीमय्यां भूमौ भ्रमतीत्यर्थः सिद्धः । अधुना चन्द्रस्यास्मिन् रजोमयभूमिभ्रमणे हेतुर्वक्तव्यः । सोऽपि रमणीयं परिकल्पितस्तेन यथा – कदाचिद् भवानी भर्तरि कुपिता सती विमुखीबभूव । तद्विरहव्यथया भूमौ शिश्ये लुलोठ च सदाशिवः । तस्मिन् विलुठति सति तच्छिरसि कृतपदश्चन्द्रोऽपि भूमिम् असकृत् स्पृशति किल । तदिदं चन्द्रमसो भ्रमणं निजभर्तुरवस्थां विलोक्य जातेन विषादेनेति उत्प्रेक्षमाणः कविः परिहृतिं सौन्दर्याधिक्येन समयूयुजत् । तदेवमिह शब्दच्छलेन व्याकृतिदोषम् अर्थच्छलेन अर्थासङ्गतिं च अपाकुर्वन् कविः परिहारमिमम् असाधयदिति द्रष्टव्यं सुधीभिः ।
तदेवं शब्दच्छलस्य प्रकाराः सोदाहरणं परिशीलिताः । किञ्चैतेषु उदाहरणेषु साधिताः परिहाराः अर्थच्छलसहाया एवेति कृत्वा अमी उभयच्छलप्रकारा इति वस्तुतः सुवचम् । शब्दच्छलमात्रेण परिहारसिद्धिरपि सुदुर्लभा ।[2] सर्वमिदं विभिन्नानां समस्यानाम् अनुशीलनेन प्रभातीभवति । सम्प्रत्यर्थच्छले पदं निधास्यते ।
अर्थच्छलेन परिहारः
समस्या – रुक्मिणी धातुरर्धाङ्गी
कृष्णस्य पत्नी किल रुक्मिणी । धाता तु ब्रह्मा । अश्रुतपूर्वं किलैतद् दाम्पत्यम्!
परिहारः –
वच्मि किं कृष्ण रूपेण तव सा कामकामिनी ।
रुक्मिणी धातुरर्धाङ्गी विद्यया गुणहृद्यया ॥ (रा. गणेशः)
कश्चित् कृष्णमाह । “हे कृष्ण! किं वदानि त्वत्कान्ताविषये? रूपेण सा साक्षाद् रतिः । विद्यया च साक्षात् सरस्वती ।”
इह कविना रूपकमार्गेण समस्यापरिहारः साधु साधितो निभालनीयः । तथा चासौ परिहारः अलङ्कारच्छलनामकः अर्थच्छलप्रकारको वेद्यः ।
समस्या - शशिवदनायां चकास्ति यतियुगमिलनम् ।
चन्द्रवदनायां योषायां द्वयोः सन्न्यासिनोः समागमः शोभते इति समस्यार्थः । अत्र स्थितः अश्लीलार्थः स्फुट एव । यतेः स्त्रीसंयोग एव न भवेदुचितः । किं पुनर्वक्तव्यं यदा द्वयोर्यत्योरेकया सह रमणं निगद्यते ।
परिहारः –
छन्दःशास्त्रज्ञानां पिङ्गलकेदारभट्टजयकीर्तीनाम् ।
मतमनुसृत्य वदामः शशिवदनायां चकास्ति यतियुगमिलनम् ॥ (रा. गणेशः)
परिहारोऽयं छन्दःशास्त्रमनुसृत्य परिकल्पितः । इहावधानिना शशिवदनाशब्देन तन्नामकं वृत्तमुपात्तं यतिशब्देन विरामस्थानं च । शशिवदनाख्ये वृत्ते यतिद्वितयं छन्दःशास्त्रप्रसिद्धमेव । एवं शास्त्रीयं प्रमेयं कञ्चिदाश्रित्य कृतोऽयं परिहारः शास्त्रच्छलप्रकारकः । शशिवदना यतिश्चेत्यनयोः शब्दयोः श्लेषेण अर्थान्तरग्रहणमपीह परिहारे साहाय्यं व्यधादिति कृत्वा इह श्लेषच्छलमपि प्रस्फुटम् । तदनेन विधिना समस्यापङ्क्तिम् अर्थान्तरं नीत्वा अनवद्यता सम्पादितास्तीह अवधानिना ।
समस्या – पञ्चाशदास्यसहितं नगजाङ्घ्रियुग्मम् ।
नगजा पार्वती । तस्याः पादयुगलं पञ्चाशता आननैः सहितम् इति समस्यापादार्थः ।
परिहारः –
किञ्चिद्विलासकुपितां दयितां विनेतुं
साम्ना स्मरेषुनिहतः किल तां ववन्दे ।
पञ्चाननोऽथ नखपङ्क्तिसमर्पितस्तत्
पञ्चाशदास्यसहितं नगजाङ्घ्रियुग्मम् ॥ (रा. गणेशः)
कदाचित् प्रणयकेल्यां कुपितां कान्ताम् अनुनिनीषुर्महादेवः तत्रान्तिममुपायं श्रयमाणस्तां ववन्दे । महादेवश्च पञ्चाननः । तदीयानि पञ्च मुखानि धाम्ना दर्पणायमानेषु पार्वत्या दशसु पादनखेषु यदा प्रतिफलितानि तदा तस्याः पादयुगलं पञ्चाशता वदनैः शुशुभिरे इति भावः । पञ्च मुखानि दशगुणितानि पञ्चाशत् किल भवन्ति! एवं पञ्चाशत्त्वमानेतुं कविनाकलितेयं कल्पना अतिवेलं कमनीया । इत्थमसौ परिहृतिः कल्पनाविशेषरूपेण अर्थच्छलेनेति द्रष्टव्यं सुधीभिः ।
समस्या – कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः ।
कर्णाटभाषया कतमद् वा काव्यं प्रणीतं कालिदासेन । तत् सुबोधैवेहत्या असङ्गतिः ।
परिहारः –
वाणीवीणागुणरणनचिन्माधुरीमोदयुक्त्या
गौरीशर्वाद्वयनयजयप्रीतिसंस्फूर्तिशक्त्या ।
देशस्यास्य प्रसृमरकलाशास्त्रविज्ञानरक्त्या
कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः ॥ (शतावधानिरचनासञ्चयनम्, 293)
इह कविः कर्णाटशब्दस्य यौगिकमर्थं ‘कर्णेषु अटति’ इत्येतद्रूपमादाय तदभिहितो गुणविशेषो गैर्वाण्यामपि वाण्यामस्तीति युक्त्या कर्णाटोक्तिशब्दं संस्कृतवाणीत्यर्थे जग्राह । तदा च समस्यापादे स्थिता अनुपपत्तिः स्वयमेव परिहृता । तावतैव अतुष्यन्नवधानी आद्यांस्त्रीन् पादान् अर्थवद्भिः समासभूतैश्च पदैर्यन्निबबन्ध, तेन परिहारोऽयं बन्धुरो जातः । पादान्तेषु स्थितानां पदानां मैत्री अपीह नितान्तं धन्या ।
समस्या – जातं कृन्तति लीलयैव जनिता मातापि सम्मोदिता ।
को वा न्विह पिता पुत्रं निहन्ति? का पुनर्माता तेन पुत्रविघातेन मुदिता भवेत्? तद् व्यक्तैवात्रत्या असङ्गतिः ।
परिहारः –
स्वं नित्यं सितचन्द्रवद् विलसितं सूनुं प्रभावोद्भवं
दर्शं दर्शमतीवहृष्टहृदयौ जायापती जातुचित् ।
संवृद्धं परिपीडयन्तमनिशं रूक्षं नखाग्रं करे
जातं कृन्तति लीलयैव जनिता मातापि सम्मोदिता ॥ (रामकृष्णपेजत्तायः)
अत्रावधानिना जातशब्दः उत्पन्न इत्यर्थे उपात्तो न पुत्रार्थे । अतः परिहारोऽयं श्लेषच्छलप्रकारकः । तथा च तदनुरोधेन पुत्रस्य हस्ते सम्प्रवृद्धं नखाग्रं पिता कृन्ततीति प्रसङ्गः कश्चन कल्पितः, ‘जायापती जातुचित्’ इत्यादिकया पदावल्या स आख्यातश्च । युक्तैव किलानेन नखकर्तनेन मातुः सन्तुष्टिः । ‘करे जातम्’ इति पदयुग्ममपि नखार्थकान् ‘करज’प्रभृतीन् शब्दान् अनुकुर्वत् सुबोधमेव । मातुर्मोदं समर्थयितुं ‘परिपीडयन्तमनिशं’ ‘रूक्षं’ चेति विशेषणे विन्यस्ते । निखिलं पद्यं समुचितैः पदैः साभिप्रायैर्विशेषणैश्च शिल्पितमपीह सहृदयानाम् अवधानं समर्हति ।
समस्या – वर्षोदयं वाञ्छति राजहंसी ।
हंसाः कलुषितं नीरं न सहन्ते, अत एव ते प्रावृषि मानससरोवरं यान्तीति कविसमयः । एवं वर्षोदयस्तेषामनिष्टः । कथं तर्हि तेषां वर्षविषयां वाञ्छां विवृण्वन् कविर्धन्यो भवेत्?
परिहारः -
कीर्तौ स्थिरायां भवतः स्थिरायां मन्दाक्षभारेण विलोकितुं ताम् ।
असूयया ह्यापदि मर्तुकामा वर्षोदयं वाञ्छति राजहंसी ॥ (शतावधानसारमु, 10)
कीर्तिर्धवला । ‘हे राजन्! भूमौ भवदीया कीर्तिः साम्प्रतं स्थिरा वितता च वर्तते । तदिदं वीक्ष्य सलज्जा राजहंसी त्वां प्रत्यसूयन्ती मर्तुकामा वर्षोदयं वाञ्छति ।‘ इत्यर्थकं पद्यमिदं साहित्यपरम्परायां नितान्तप्रसिद्धेन नृपप्रशस्तिरूपेण निबद्धमस्ति ।
तदेवमिह कविसमयाश्रितेन अर्थालङ्कारच्छलेन समस्यां हृद्यं परिहृतमवधानिभ्याम्[3] । स्थिरशब्दस्य अर्थभेदेन द्विः प्रयोगो लज्जार्थको मन्दाक्षशब्दश्च पद्येऽस्मिन् चारुताम् आदधाति ।
समस्या - महोदरी मारवधूर्विभाति ।
मारवधू रतिः परमसुन्दरीति प्रथितम् । कथं न्वस्यां तत्सौन्दर्यपरिपन्थि महोदरत्वं युज्यते? मैवं प्राक्षीः । सर्वमुपपन्नं कर्तुमीशते कवीन्द्राः ।
परिहारः –
शिरीषपुष्पादपि कोमलाङ्गी विशेषकान्त्या परिभासमाना ।
प्रपूर्णगर्भेण विराजमाना महोदरी मारवधूर्विभाति ॥ (शतावधानसारमु, 64)
अत्रावधानिभ्यां तस्या गर्भवत्त्वदशा मनस्यानीता येन परिहारेऽवशिष्टं पद्यपूरणमात्रम् । रत्याः सन्त्तानावाप्तिः पुराणप्रसिद्धैव । एवं सर्वमुपपन्नम् ।
समस्या – सिंहो जुगोप हरिणान्
सिंहो हि हन्ता हरिणानाम् । कथं पुनरस्य तद्गोप्तृत्वम्? अत्र समुचितवृत्तचयनमपि अवधान्यधीनं यतोऽत्र वसन्ततिलकया आर्यया वा शक्यं पद्यप्रबन्धनम् ।[4]
परिहारः –
स्तम्भात् पुरा दितिजसद्मनि रोषसान्द्रः
प्रत्यग्रशीतकरसन्निभपाणिजश्रीः ।
कातर्यतस्तत इतश्चरतोऽमरेन्द्रान्
सिंहो जुगोप हरिणानिव मानुषीयः ॥ (शङ्करराजारामः)
वृत्तान्तोऽयं पुराणप्रथित एव । तथापि तत्र नरसिंहो देवान् जुगोप न तु हरिणान् । अतस्तामनुपपत्तिं वारयितुं हरिणानमरान् प्रत्युपमानीकृत्य नैजमध्वानं समपीपददवधानी । ‘प्रत्यग्रशीतकरसन्निभपाणिजश्रीः’ इति विशेषणं पुनरस्मिन् रौद्रत्वेऽपि भाविनं त्रैलोक्याह्लादं ध्वनयति । तदेवं पौराणिकेतिवृत्तम् अलङ्कारमार्गं चाश्रयन् कविः समस्यायाः प्रत्यग्रं परिहारम् अविन्दत् ।
[1] समाह्वः = Challenge
[2] शब्दच्छलमात्रेण परिहारः द्रविडभाषासु आधिक्येन उपलभ्यते । तासु भाषासु पादान्तयतेरभावात् एतत्प्रसक्तिः अधिका । प्रकृतलेखः संस्कृतभाषामात्रं विषयीकरोतीति कृत्वा नात्र विस्तार्यते ।
[3] पद्यमिदं सुगृहीतनामधेयाभ्यां तिरुपति-वेङ्कट-कविभ्यां विरचितमिति हेतोरिह द्विवचनप्रयोगः । तत्परिचयस्तु अवधानेतिहासप्रकरणे वक्ष्यते ।
[4] यद्यप्येषा पदावली अनुष्टुभ्यपि युज्यते । तथाप्यस्याम् अनुष्टुबुचितगत्यभावात् न सा कीर्तिता मया ।
To be continued.