विशेषणात्येतानि कर्तृकर्मादिकारकसापेक्षमपि विवेक्तुं शक्यन्ते। यद्यपि षट्स्वपि कारकेषु विवेचनस्य साध्यतास्ति, तथापि प्रयोगबाहुल्यात् कर्तृकर्मगतानि विशेषणानि प्रामुख्यं भजन्ते। क्वचित् करणाधिकरणगतान्यपि विशेषणानि दृश्यन्ते। सम्प्रदानापादानकारकगतानि विशेषणानि प्रायो न सन्तीत्येव वक्तव्यम्। अतः कर्तृकर्मकरणाधिकरणसम्बद्धान्येव विशेषणान्यत्र सनिदर्शनं प्रस्तूयन्ते॥
कर्तृविशेषणानि
“धनुष्कर्षणमूढहस्तम् एकांसपर्यस्तशिरस्त्रजालं ध्वजस्तम्भनिषण्णदेहं नरदेवसैन्यम्” (रघु० 7.62)। अजप्रयुक्तेन सम्मोहनास्त्रेण घातितं रिपुचक्रं निष्चेष्टमभूदिति कविर्वर्णयति। क्रियावैपुल्यविज्ञेयस्य सैन्यस्येदं मोहजाड्यं तत्कर्तृत्वं विपरीतवृत्त्या ध्वनयतीति काचन काशते विच्छित्तिः॥
“पौरदृष्टिकृतमार्गतोरणौ” (रघु० 11.5)। मार्गतोरणसुमसदृशीभिः पौरदृष्टिभिः सम्भावितौ रामलक्षमणौ कर्तृस्थानीयौ॥
“वामप्रकोष्ठार्पितहेमवेत्रः” (कु०सं० 3.41)। अत्राधिकारसूचकेन वामप्रकोष्ठार्पितेन स्वर्णदण्डेन भूषितस्य नन्दिनः कर्तृत्वं विलसति॥
“निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारं काननम्” (कु०सं० 3.42)। नन्दिनः शासनात् क्रियाबहुलं विपिनं सहसा तूष्णीकमभूदिति कथाप्रसङ्गः प्रसिद्धः। यद्यपि कर्तरि विद्यते क्रियासामर्थ्यम्, तथाप्यत्र तदवसितप्रायमिति काचिन्मनोहारिणी विरोधाभासभाविता चमत्कृतिश्चकास्ति॥
“पर्याप्तपुष्पस्तबकावनम्रा” (कु०सं० 3.54)। वसन्तपुष्पैरलङ्कृता पार्वती पुष्पभरविनम्रा लतेव बभूवेति कविः कथयति। अत्र पार्वत्याः कर्तृस्थानीयत्वं स्पष्टम्॥
कर्मविशेषणानि
“प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितं तया गृहीतम्” (कु०सं० 1.46)। अत्र मृगाङ्गनाभ्योऽभिरामा दृष्टिः पार्वत्या स्वीकृता, उत तस्या एव ताभिः स्वीकृतेति सन्दिहानेन कविना कर्मविशेषणमिदं गुम्फितम्॥
“पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं चुचुम्ब” (कु०सं० 3.38)। अत्र मद्यपानाघूर्णितनेत्रवत् प्रियामुखं कर्मस्थानमञ्चति॥
“मधुकरश्रेणिदीर्घान् कटाक्षानामोक्ष्यन्ते वेश्याः” (मेघ० 1.35)। वेश्याभिर्मुच्यमानाः कटाक्षा मधुकरश्रेणिदीर्घा आसन्निति वर्णितत्वात्तेषां कर्मस्थानीयत्वं सिद्ध्यति॥
“तूणार्धकृष्टं शरं स्मरः संहरति” (अभि०शा० 6.4)। स्मरेण तूणीरादर्धमाकृष्टः शरस्तत्रैव संहृत इति कथयति कविकुलगुरुः। अत्र कर्मस्थानीयो वर्तते शरः॥
“सन्धिस्तिमितवलयं हस्तं नितम्बे न्यस्य” (मा०अ० 2.6)। मालविका प्रकोष्ठस्तिमितवलयवलयितं स्वं हस्तं कटौ न्यस्यतीति कविर्ब्रूते। हस्तोऽत्र कर्मस्थानीयः॥
करणविशेषणानि
“आरेचितभ्रूचतुरैः कटाक्षैः” (कु०सं० 3.5)। बन्धनोपकरणा आरेचितभ्रूचतुराः कटाक्षाः सन्ति करणार्थकाः॥
“सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीम्” (मेघ० 1.37)। अत्र कनकनिकषवत् स्निग्धायाः सौदामन्याः करणार्थकत्वं स्पष्टम्॥
“अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः” (मा०अ० 2.8)। अङ्गानि नृत्तावसरे साहित्यवचनानि स्वान्तःकुर्वन्ति। तादृशानामङ्गानामत्र करणत्वमिष्यते॥
“त्रासातिमात्रचटुलैः नेत्रैः मुष्टिः बिभिदे” (रघु्० 9.58)। दशरथस्य निबिडो मुष्टिर्हरिणीनां त्रस्तैर्विलोकनैः शिथिलीकृतः। नेत्राण्यत्र करणत्वेनोपात्तानि कविना॥
“गवाक्षविवरावलम्बिना चरणेन दर्शनं कल्पितम्” (रघु० 19.7)। अत्र गवाक्षविवरे लम्बमानस्य चरणस्य कर्णत्वं प्रतीयते॥
अधिकरणविशेषणानि
“ललितवनितापादरागाङ्कितेषु हर्म्येषु” (मेघ० 1.32)। हर्म्याणां शोभा सुन्दरीणां सालक्तकचरणचिह्नैः कल्पिता। तादृशहर्म्याणामत्र अधिकरणत्वम्॥
“आनर्तितनक्तमाले नर्मदारोधसि” (रघु० 5.42)। नर्मदारोधस्सु पवनचलिता नक्तमालविटपाः कमनीयतां जनयन्ति। अत्र नर्मदातीरस्याधिकरणत्वं व्याहृतम्॥
“सिप्रातरङ्गानिलकम्पितासु उद्यानपरम्परासु” (रघु० 6.35)। उज्जयिनीश्वरलालितानि प्रमदवनानि सिप्रातरङ्गैः कम्पितानि। तदमीषामारामाणामधिकरणत्वं कविनात्र कल्पितम्॥
“हर्म्याग्रसंरूढतृणाङ्कुरेषु रिपुमन्दिरेषु” (रघु० 6.47)। वैरिगृहाः शून्यजना आरूढतृणाश्च दैन्यमावहन्ति। तादृशा एव गृहा अत्राधिकरणतां भजन्ते॥
“गर्भवेश्मसु निवातकुक्षिषु” (रघु० 19.42)। शिशिरर्तूपभोग्यानि वेश्मानि पिहितवातायनानि वायुनिरोधीनि भवन्ति। अमीषां वेश्मनामधिकरणत्वमत्र सिद्धम्॥
* * *
अत्रानिर्दिष्टान्यपि ध्वनिदीप्तानि भूयांसि विशेषणानि कालिदासकाव्येषु दृश्यन्ते। इमानि च क्वचित् पूर्वोक्तप्रकारबाह्यानि भवन्ति। तेषु कानिचन प्रस्तूयन्ते। अमीषां स्वारस्यं सहृदयैः सुवेद्यमिति व्याख्यानाद्विरम्यते—
“सन्तः सदसद्व्यक्तिहेतवः” (रघु० 1.10)।
“आक्रन्दितं गुहानिबद्धप्रतिशब्ददीर्घम्” (रघु० 2.28)।
“एकान्तविध्वंसिषु भौतिकेषु पिण्डेषु” (रघु० 2.57)।
“यौवनभिन्नशैशवो रघुः” (रघु० 3.32)।
“ते [रिपवः] उत्खातप्रतिरोपिताः” (रघु० 4.37)।
“अञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरं पाटलगण्डलेखं वधूमुखम्” (रघु० 7.27)।
“प्रतियोजयितव्यवल्लकीसमवस्थाम् अङ्गनाम्” (रघु० 8.41)।
“ज्यानिघातकठिनत्वचो भुजान्” (रघु० 11.40)।
“नामाङ्करावणशराङ्कितकेतुयष्टिं रथम्” (रघु० 12.103)।
“तद्भक्त्यपोढपितृराज्यमहाभिषेके मूर्धनि” (रघु० 13.70)।
“मैथिलीतनयोद्गीतमृगम् आश्रमम्” (रघु० 15.38.)।
“पूर्वार्धविसृष्टतल्प् दाशरथेस्तनूजः” (रघु० 16.6)।
“शैलसुतां भ्रूक्षेपमात्रानुमतप्रवेशां” (कु०सं० 3.60)।
“अरूपहार्यं पिनाकपाणिम्” (कु०सं० 5.53)।
“तपःसाक्षिषु द्रुमेषु” (कु०सं० 5.60)।
“अवस्तुनिर्बन्धपरे [पार्वति]” (कु०सं० 5.66)।
“तद्भक्तिसङ्क्षिप्तबृहत्प्रमाणं गोपतिम्” (कु०सं० 7.37)।
“किञ्चिद्व्यवस्थापितसंहृतानि अन्योन्यलोलानि विलोचनानि” (कु०सं० 7.75)।
“असुलभवस्तुप्रार्थनादुर्निवारं मनः” (वि० 2.6)।
“स्वाधीनकुशलाः सिद्धिमन्तः” (अ०शा० 5.14 गद्यम्)।
“दूराधिरोहिणी आशा” (अ०शा० 5.19 गद्यम्)।
“प्रत्यादेशपरुषे भर्तरि” (अ०शा० 5.26 गद्यम्)।
“प्रत्यादिष्टविशेषमण्डनविधिः देवः” (अ०शा० 6.6)।
“उदाररमणीया पृथिवी” (अ०शा० 7.8 गद्यम्)।
* * *
कविसम्राजः कालिदास्य हृदयं तदीयं विशेषणविश्वं प्रशास्तीति तत्काव्यावलोकिनाम् अपरोक्षम्। प्राङ्निरूपितानामुदाहरणानां प्रत्येकं विवरणं नाम प्रौढग्रन्थरचनमेवार्हतीति नात्र विस्तरलोभोऽस्माननुबध्नाति। केवलं पद्यमेकं स्वीकृत्य दिङ्मात्रेण व्याख्यातुमयमत्र यत्नः—
अथ प्रजानामधिपः प्रभाते
जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां
यशोधनो धेनुमृषेर्मुमोच॥ (रघु० 2.1)
अत्रायमन्वयक्रमः—अथ प्रभाते प्रजानाम् अधिपो यशोधनो जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्साम् ऋषेर्धेनुं वनाय मुमोच। कथनोद्दिष्टमिदं पद्यम् “अथ प्रभाते प्रजानाम् अधिपः ऋषेर्धेनुं वनाय मुमोच” इत्येतावतैव कृतकृत्यं भवति। यदि किञ्चिदन्यदभीप्सितं तर्हि “यशोधनः” इति निर्विशेषप्रायेण विशेषणेनैव तृप्तिं यान्ति सामान्याः कवयः। किन्तु महाकविर्न तथा। वश्यवाचोऽपि महाकवयः “जायाप्रतिग्राहितगन्धमाल्याम्”, “पीतप्रतिबद्धवत्साम्” इत्येतद् विशेषणद्वयं प्रायः स्वतन्त्रया पद्यद्वय्या सन्दृभन्ति, न तु प्रकृत एव पद्ये निवेशयन्ति। एवं पद्यान्तरैः प्रकृतस्य वर्णनं न दोषाय। किञ्चैकेनैव पद्येन सार्थकविशेषाणां सान्द्रतया गुम्फनं नाम महाकवीनामपि दुरासाद्या कापि सारस्वती सिद्धिः। एषा खलु कालिदासस्य स्थायिनी सम्पत्तिः। अन्ये कवयः प्रायः पद्यानि सूत्रस्यूतमणिसदृशानि निर्मान्ति। किन्तु कालिदासः शताधिकपत्त्रगर्भितं शतपत्त्रमिव प्रतिपद्यं रचयति। मणिमालिकासु रन्ध्राणि ऋजूनि भवन्ति। तेषु प्रोतं सूत्रं विच्छिद्य प्रतिमणि सौन्दर्यं स्वरूपं च निपुणं निभालयितुमलम्। मणीनां सूत्रेण योजनं वियोजनमपि सुकरम्। परं कालिदासनिर्मितस्य पद्यशतपत्त्रस्य बलेन विकासनं सङ्कोचनं वापि न शक्यम्। तत्तु भावयित्रीप्रतिभाप्रभाकराधीनम्। मणिषु परस्परः सावयवः सम्बन्धो न जैविकः। शतपत्त्रपत्त्रेषु प्रतिपत्त्रमपि कश्चन जैविकः सम्बन्धः सदा समनुभूयते। अस्मिन्नेवोदाहरणे सत्यमिदं द्रष्टुं शक्यते। तद्यथा—
“जायाप्रतिग्राहितगन्धमाल्याम्” इत्यनेन दिलीपस्य जायया सुदक्षिणया प्रापितगन्धमाल्या या नन्दिनी धेनुः सा कथ्यते। समस्तपदेनानेन सुदक्षिणया विहिता कृत्स्नापि धेनुपूजा व्यपदिष्टा। एकवाक्यके एकस्मिन्नेव पद्ये समस्तपदमिदम् अन्तर्गतमिति कारणाद्धेनुवरिवस्याया नैरन्तर्यं ध्वनितम्। जाया इति भार्यार्थकशब्दप्रयोगोऽपि ध्वनिदीप्तः। नाद्यावधि सुदक्षिणा जायाशब्दमर्हति। गोसेवाया आदावेव सूचितं सद्योभविष्यमाणमिदं भाग्यं “प्रसादचिह्नानि पुरःफलानि” इति कालिदासीयामेव सूक्तिं स्मारयति। “पीतप्रतिबद्धवत्साम्” इत्यपरं विशेषणं मातुः पयसा सन्तृप्तस्य वत्सस्य स्वास्थ्यम् आश्रमपदे तन्निवेशनमपि सूचयति। अत्र स्तनन्धयस्य तर्णकस्य सोत्साहं पयःपानं सयत्नं तस्य गोष्ठे नियमनं च क्रियावैपुल्यं गोचरयति। एवमस्मिन् विशेषणयुगले दृश्यसमृद्धिः, क्रियासमृद्धिः, भावसमृद्धिश्च विद्यन्ते। अनेन श्रव्यमिदं काव्यं दृश्यकाव्यतां गाहते। सर्वाण्यपि च वर्णनानि नाट्यायमानानि परिणमन्ति। स्थाने खल्वाह वामनः “सन्दर्भेषु दशरूपकं श्रेयः, तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात्” इति (काव्यालङ्कारसूत्रवृत्तिः, 1.3.30–31)। अमूर्तं कालाधीनं शब्दमाध्यममाश्रित्य काव्यं प्रवर्तते। अस्मिन् देशाधीनं दृश्यमाध्यममानेतुमतितरां कष्टम्। कष्टमिदमिष्टेन चोत्कृष्टेन रूपेण सलीलं साधयति कालिदासः। एवं विविधाः कलाः स्वपरिध्यतीतं कलान्तरशक्यं विच्छित्तिविशेषम् आत्मसात्कर्तुं प्रतिभाशालिभिः सदा यतन्ते। कविकुलगुरुरीदृशः प्रतिभावान्। श्रवणैकवेद्यानां रागाणां दृश्यसौन्दर्यसाक्षात्कर्तॄणि रागमालाचित्राण्यत्र समन्वेयानि॥
* * *
सम्प्रत्युपसंहारात्मकानि कानिचन वाक्यान्यवशिष्टानि। एतानि पुनः कालिदासस्य विशेषणानां स्वारस्यं सारवद्रूपेण समुपस्थापयितुमुद्दिष्टान्यपि काचिदत्र तात्त्विकी काव्यमीमांसा सङ्क्षेपेण विधीयते। ईदृशां विशेषणानां प्रमुखं लक्षणं सारग्रहणं, सत्त्वसङ्क्षेपणं, सम्पिण्डनं, सूक्ष्मावलोकनं, समग्रदर्शनं, अमूर्तमूर्तीकरणं, द्रव्यविवेचनं, गुणाविष्करणं, जातिपरिशीलनं, क्रियानिरूपणं च। एतानि विशेषणानि स्वरूपेण विशदान्यपि सङ्कीर्णानि, विविक्तान्यपि व्यामिश्राणि कामप्यनिर्वाच्यविच्छित्तिमञ्चन्ति। अत एव सकृत्पठनेन, सकृत्परामर्शनेन, सकृदालोडनेन विशेषणान्यामूनि स्वं स्वं सौन्दर्यसर्वस्वं न सहृदयेभ्यः प्रदर्शयन्ति। तन्नाम नैतानि प्रहेलिकाप्रायाणि चर्वणगडुभूतानीति वा तात्पर्यम्। रसिकानां हृदयपरिपाकानुसारं, व्युत्पत्तिपचेलिमानुसारञ्च प्रत्यवलोकनं प्रतिपरामर्शनं प्रत्यवगाहनं शारदक्षपासु कलान्तराणीव सुधासूतेः क्रमेण परिचाययन्ति। अत एवात्र प्रतिस्फुरणमपि समग्रं, प्रतिस्वदनमपि स्वयंपूर्णं भवतीति नातिशयोक्तिः। कालिदासीया उपमालङ्कारा मूर्ता अमूर्ताश्च भवन्ति। किन्तु कविकुलगुरोर्विशेषणानि सर्वाण्यपि मूर्तान्येव। अनेन तेषां नाट्यायमानत्वमालेख्यायमानत्वं वा सदैव सिद्धम्। इत्थं श्रवणपुटपेयं काव्यं चुलुकमेयमिव, मुष्टिग्राह्यमिव च भवति। किं बहुना, देशकालवस्तुपरिच्छेदानतीत्य भूतानि, भावीनि, दवीयांसि, नेदीयांसि च कृत्स्नान्यपि वस्तुजातानि भावजातानि वा सहृदयानुभवसात्कारयन्ति सुकवेर्विशेषणानि भाविकाख्यस्य कस्यचन काव्यालङ्कारविशेषस्य कार्यमपि साधयन्ति[1]॥
काव्येषु तावदितिवृत्तं वर्णनञ्चेति विभागयुगलं दृश्यते। तन्मीमांसान्यत्र मया विहितेति हेतुना नात्र पुनरुच्यते। तत्तत्त्वानुसारं रसवति काव्ये महदितिवृत्तं रमणीयं वर्णनं चेति सुगुणद्वयमपि भूयसा विलसेत्। किञ्च साहित्यलोके केचन कवय इतिवृत्तनिर्मितौ बद्धादरा अपरे वर्णनाप्रवणाः परिणमन्ति। गुणाढ्य-सोमदेव-क्षेमेन्द्रसदृशा इतिवृत्तमोहिताः, बाण-माघ-श्रीहर्ष-रत्नाकरमुखा वर्णनाभिभूताः प्रायो वर्तन्ते। किन्तु कालिदास एक एव प्राय उभयनयनिर्वाहचणः परिपूर्णः कविः। गद्यकविसार्वभौमस्य भट्टबाणस्य काव्यद्वयेऽपि दृश्यमानं वर्णनपारम्यमितिवृत्तनिर्वाहबलमेव हन्ति। कुन्तकेन प्रतिपादितस्य विचित्रमार्गस्य परमाचार्यो बाण एव। अस्येव पुनरीदृशी गतिश्चेत् का कथा खलु माघ-रत्नाकर-शिवस्वामि-श्रीहर्षादीनाम्? पुराणप्रबन्धॄणां कथासाहित्यकृताञ्च रचनास्वितिवृत्तं विराजते परं वर्णनं ग्रीष्मपल्वलमिव परिशुष्कमवसितप्रायमेव। किन्तु दृश्य-श्रव्यभेदनिरपेक्षं कालिदासस्य काव्येष्वेव नूनमितिवृत्त-वर्णनयोरन्यादृशं सामञ्जस्यं प्रतिभाति। अनया भङ्ग्या सत्यमेव स कविवरः कनिष्ठिकाधिष्ठितः। अस्य सम्मानस्य प्रमुखो हेतुस्तस्य विशेषणयोजनवैदुषीति न कापि विप्रतिपत्तिः। अस्य काव्येषु रूपकेषु चेतिवृत्त-वर्णनयोः पारस्पर्यं चन्द्रचन्द्रिकान्यान्येन विजृम्भते। दस्रयोरिव सौन्दर्यमेतयोरपि सामञ्जस्यं प्रेक्षावतां चेतांसि हरति। अलमतिविस्तरेण। महतः काव्यस्य सल्लक्षणेषु वर्णनेतिवृत्तसामरस्यं प्रमुखं स्थानमर्हतीति दिक्॥
विशेषणगुम्फनं न केवलं कालिदासकाव्यरचनायाः कश्चन क्रम इव दृश्यते; परमस्य सुकवेरभिव्यक्तिजीवितमिव, साहित्यधर्म इव वागर्थाद्वैतोपासनमिव च प्रतिभाति। अत एवात्र काव्याङ्गभू्तानां गुणालङ्काररीतिवक्रोक्तिध्वनिवृत्त-वाचोयुक्तिप्रभृतीनां समवायो दृश्यते। किं बहुना, काव्यस्य रूप-स्वरूपयोरपृथग्भावः प्रतीयते। अनेन खलु कारणेन कालिदासस्य विशेषणानां वैशिष्ट्यं गुणालङ्काररीतिवाचोयुक्तिवक्रोक्तिध्वन्यादिभ्यो व्यावर्तयितुं दुःशकं भवति। एवं प्रबन्धनगुणसाकारभूतस्य विशेषणजगतः पारम्यमियन्मात्रमिति सूचीन्यासपुरस्सरं निर्देष्टुं कष्टम्॥
अस्मिन् नेपथ्ये यदि पश्यामस्तर्हि सुकुमारो मार्गः कालिदासस्य, कोमला रीतिः कविकुलगुरोरिति प्रायोवादाः कियन्मात्रं सत्यमिति स्वयमेव स्फारीभवति। अतो हि कालिदाससदृक्षाणां सारस्वतसिद्धानां साहित्यविवेचनावसरे गतानुगतिका वादाः कियन्मात्रं साह्यं यच्छेयुरिति पुनर्विमर्शनमवश्यं विधेयम्। परम्पराप्राप्तानि प्रमाणानि क्वचिदसकृच्छोदनीयानीति नीतिः॥
कालिदासीयां विशेषणसंयोजनचातुरीं ध्यायता रसिकेन कानिचन रोमन्थार्हाणि तथ्यानि साक्षात्क्रियन्ते। तद्यथा—रघुवंश-कुमारसम्भव-शाकुन्तल-मेघदूतान्येव कवेः साहित्यनिर्माणकौशलस्य सर्वोच्चां सिद्धिं द्योतयन्ति; तत्पश्चादेव विक्रमोर्वशीय-मालविकाग्निमित्रे इति। ऋतुसंहारे तु प्रायेण नैकमपि रसनिर्भरं विशेषणं दृश्यत इति किमप्यपरं निगमनम्। एवमेव सत्सु नैकेषु साधुवृत्तेषु वृत्तेषु कालिदासप्रयुक्तेषु, विशेषणानि उपजाति-अनुष्टुप्श्लोक-वसन्ततिलका-मन्दाक्रान्ता-शार्दूलविक्रीडितादिष्वङ्गुलिमेयेष्वेव छन्दस्सु व्याप्तिं वैविध्यं प्रौढिमानं च भजन्त इति चान्यन्निगमनम्॥
* * *
महाकवीनां वचनानि विमर्दव्यक्तसुरभीणीव बकुलानि सहृदयभावकोशे सञ्चरतः श्वासानशून्यान् कुर्वन्ति सदैव। अमीषां चयनेन चिन्तनेन च कवीबुभूषवोऽपि निजकवितापरिपाकपथे प्रगतिं यान्ति। किमुत सहृदयाः!
Concluded.
[1] भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्। प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः॥
चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता। शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते॥ (काव्यालङ्कारः, 3.53–54)
तद्भाविकमिति प्राहुः प्रबन्धविषयं गुणम्। भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः॥
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्। विशेषणानां व्यर्थानामक्रिया स्थानवर्णना॥
व्यक्तिरुक्तिक्रमबलाद्गभीरस्यापि वस्तुनः। भावायत्तमिदं सर्वमिति तद्भाविकं विदुः॥ (काव्यादर्शः, 2.364–66)