...
HomeLiterature

Literature

रसाभासरूपेण नूनं किलैतान्प्रवच्मो वयं नान्यथा विद्यमानान्। यदा वाऽऽग्रहास्तादृशा लोकबाह्या भवेयुस्तदा ते जने नीरसास्स्युः॥३३॥ अतो ह्यवादीद्ध्वनिकृत्पुरैव रसास्तदाभासमुखास्समस्ताः। रसादिरुपेण कृतौ प्रतिष्ठा व्यङ्ग्याध्वनि स्वादपरा भवन्ति[1]॥३४॥ रावणव्यपदेशेन यल्लोचनकृदीरितम्। तत्कवेस्तु विवक्षाया अधीनमिति मन्मतम् [2]॥३५॥ यद्यपि रावणे भट्टाभिनवगुप्तस्सीतावैषयिकीं शृङ्गारप्रसक्तिं निराकुरुते तथापि तस्मिन् रसान्ताराणां सम्भवं प्रत्याक्षेप्तुं न शक्यमिति पूर्वमेव निरूपितमस्माभिः। अन्यच्च कुवेम्पुवर्यस्य रावणोदात्तीकरणलालसापि न रसावहेति न्यरूपि। किन्तु यत्र

अनया हि दृष्ट्या तदेवमभ्युपगम्यते यन्महाकाव्य-महाकथा(Epic Novel)-नाटक-प्रकरणादयो नितरां भूमभावभरिता गुरुसाहित्यप्रकाराः प्रविलसन्तीति। किन्तु खण्डकाव्य-गीतकाव्य(रागकाव्य)-मुक्तक-प्रहसन-नाटिका-भाणादिरञ्जनमात्रावसिता लघुसाहित्यप्रकारा इत्यप्यनुमीयते। परमिदमवधेयं यत्काव्यस्य लघुत्वं वा गुरुत्वं गात्रमात्रेण न निश्चीयते किञ्च गात्रस्यापि कापि गुणवत्ता दरीदृश्यते। यदाहुराङ्ग्लेयवाचि— “Quantity is also a quality” इति। तथापि समृद्धविभावानुभावादिसमग्रीनिर्माणक्षमा वक्रोक्तिमाध्यमद्वारा ध्वन्यमाना परमौचित्यवल्गिता साहिती या कापि रसिकानां रसानन्दमहोत्सवे पर्यवस्यतीति

मुरलिकामरुता मरुतामपि श्रुतिचयं शिशिरीकुरुते च यः। जगति कामरुतार्तजनावन- व्यसनितालसनोऽस्तु मुदे स नः॥१॥ आत्मानुभूतिमुकुरे परिदृश्यमानं भावप्रपञ्चसकलं निरपेक्ष्यदीप्त्या । सार्वत्रिकानुभवमात्रकषप्रमृष्टं मन्ये सुवर्णमयभूषणमित्यजस्रम्॥२॥ आत्मानुभूतिर्नाम न काचिद्विशिष्टा सविकल्पा च योगिप्रत्यक्षमात्रावगम्यावस्था। यद्वेदान्तिभिस्सार्वत्रिकनिर्विशिष्टानुभव इत्यवस्थात्रयमीमांसायां गीयते स एवात्र व्यपदिष्टः। अस्मिन्नेपथ्ये हि जागर्ति रसमीमांसा च। यतो हि ब्रह्मास्वादसहोदर एव रसानन्दः। स च यथा वेदान्तिभिरध्यारोपापवादप्रक्रिययैव समभिगम्यते तथा हि सुतरामलङ्कारतत्त्वनिबद्धया तयैव निरुप्यत इति

[The following sub-stories appear in the Ādi Parva of the Mahābhārata, Adhyāyas 158–74] The brave Pāṇḍavas travelled day and night and arrived at a holy place called Somaśravāyaṇam. Arjuna, the bravest among them all, carried a fire-stick to light their path and also as a means

तिर्यग्जन्तुभिः सह मानवः कतिपयांशेषु साम्यमावहति। आहार-निद्रा-भय-मैथुनानीत्येतानि सर्वजन्तुसाधारणानि; यानि मूलभूतचोदनानीति कथ्यन्ते। प्रथमं तावदेतेषां स्वरूपं परिशीलयामः। आहार-मैथुनयोः प्राप्तिर्भयनिवृत्तिश्च विनापवादमन्याश्रिते। आहारो नामास्मद्भिन्नः पदार्थविशेषः। तदवलम्बनेन हि बुभुक्षातृप्तिः। एवञ्च नैकेषु सन्दर्भेषु बुभुक्षापूरणाय पाचकाः पाकसाधनसामग्र्यश्च खल्वनिवार्याः। तस्मादाहारोऽयमन्याश्रितः। मैथुनमप्यन्यावलम्बीति तच्छब्दार्थ एव बोधयति। मिथो भावस्तु मैथुनमिति विवरणात्। सफलं समृद्धञ्च मैथुनं मिथुनाश्रितम्। एकाकिना नालमत्र सर्वथा।

To analyse and explore the roots of life, the nature of truth and evil and to probe into human relations, Dr. SL Bhyrappa makes use of myths, legends, rituals and rites in his novels. This gives him ample scope to comprehend contemporary life against the