वर्णनेतिवृत्तमीमांसा—उपसंहारः
तदयं सङ्क्षेपः—निर्विशिष्टक्लैब्यसन्त्रस्ते सति समाजे, तेन विशिष्टो व्यक्तिगुणः सुतरां नावगम्यते[1]। तादृशस्तु भित्तीतिवृत्तवियुक्तो वाग्व्यापारः सरस्वतीविडम्बनाय रसविध्वंसनाय च कल्पते। अनुलक्षिते सत्यस्मिन्, साम्प्रतिकसमाजे कथानायकार्हता न कस्मिन्नपि मनुजे विद्यत इत्युत्प्रेक्षितुमलम्[2]। भारतीयकाव्यमीमांसादृशा रसः सदैव नायकाश्रितः। अन्यच्च “नायकस्य कवेः श्रोतुः समानोऽनुभवः स्मृतः” इत्यमुं तौतीयमभिप्रायमनुरुध्य पश्यामश्चेत्, साम्प्रतिकं साहित्यं रसशून्यमेवेति सहृदयाय प्रतीयते। यतो हि नायकस