ऋतं सत्यं तथा धर्मः — धर्मस्वरूपविवरणम्
९ ऋत-सत्ययोरर्थभेदस्तैत्तिरीयब्राह्मणस्य वचनेनानेन स्पष्टीभवति। “ऋतं त्वा सत्येन परिषिञ्चामीति नायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदादित्येन सायं परिषिञ्चति। अग्निनादित्यं प्रातः सः।” अत्र रजनीदिवसावेकस्यैव कालतत्त्वस्य द्वे मुखे। तावेकाकारेण गृहीत्वा सेवयेदिति तात्पर्यम्। तत्र सायन्तनसवने ध्येयं दैवतमग्निः। अयमेव ऋतस्वरूपी। प्रातःसवने ध्येयं दैवतं त्वादित्यः। अयं तु सत्यस्वरूपी। एवं पावकभास्करौ द्वावपि तेजोमयौ ऋतसत्यसङ्केतौ। किं