...
HomePosts Tagged "Shabda"

Shabda Tag

धीपारम्यं वर्णनगतमुक्तिचमत्कृतं हि चित्रं कृतकम्। हृद्भावशबलदुर्बलगतिस्तु वृत्ते विचित्रशैथिल्याय॥४॥ काव्यस्य हृद्भाव-चिद्भावसम्बद्धं पूर्वनिर्दिष्टमेव विषयं कारिकेयं प्रस्तौति। इतिवृत्तनियोजने बुद्धिविलासः कलासमयमनुसरन् अनुकरणरूपो भवेत्। वर्णनेषु हार्दभावस्तावदनुकीर्तनरूपेण भवेदत्युक्तिवर्जितः। नयेऽस्मिन्ननादृते सति, अतिबौद्धिकं काव्यं शुष्कतां दुरूह्यतां च व्रजति। तत्तदा चित्रमिति भूत्वाऽधमकाव्यगर्ते पनीपतीति। यस्मिन्नु काव्ये पुनरितिवृत्तमतिमात्रं भावशबलितं, तदवश्यं शैथिल्यदोषदग्धं जायते। अतः सर्वथाऽनुल्लङ्घ्यं रसोपनिषद्भूतमौचित्यम्॥ व्यावहारेष्वर्थरहितरवसदृशं वर्णनैकरचनं प्रायः। इतिवृत्तरहितकाव्यं तत्कर्तर्युपचरत्यहो कविशब्दः॥५॥ केचिदाचक्षते यदितिवृत्तनिरपेक्षं काव्यं भवितुमर्हतीति। अन्ये

Read More

[लेखोऽयं शतावधानिन आर्यगणेशस्य कन्नडभाषानिबद्धशोधप्रबन्धस्य संस्कृतानुवादः (Ref: Ganesh, R. Hadanu-havaṇu. Mangalore: Prasaranga, Mangalore University, 2018. pp.150-176)] वल्लकीपुस्तकाशक्यं शब्दार्थव्यञ्जनं परम्। यत्र तत्र भवामीति स्मेरास्याऽवतु भारती॥ अथ किं नाम काव्यम्? भारतीयकाव्यपरम्परायां तु कवेः कर्म काव्यमित्याहुः। अत्र हि गद्य-पद्य-चम्पू-श्रव्य-दृश्यादिभेदान्नैके सन्ति विभागोपविभागाः। समस्तं वाङ्मयमिदं मूलतः शब्दार्थसाहित्यसिद्धमिति निश्चप्रचम्[1]। तामिमां शब्दार्थसम्पृक्तिं विषयीकृत्य सुनिपुणं मीमांसति काव्यमीमांसाऽपराभिधं साहित्यशास्त्रम्[2]। मनीषितल्लजो डि.वि.गुण्डप्पवर्यः साहित्ये दशविधाः

Read More

विदितमेव खलु काव्यं दृश्यं श्रव्यं चेत्यादौ द्वेधा विभक्तं; पश्चाद्गद्य-पद्य-चम्पूभेदत्वेन त्रेधा चेत्यपि । तथा च मुक्तक-युग्मक-सान्दानितक-कलापक-कुलक-अष्टक-शतकादिपद्यसङ्ख्यानुसारं विभागा वर्तन्त एव । अपि च गद्ये पद्यगन्धि-उत्कलिका-चूर्णिकाप्रायादयः सन्ति नैके विभागाः । महाकाव्यं, खण्डकाव्यं, आख्यायिका, कथा इत्यादयः श्रव्यकाव्यप्रभेदास्तथा नाटक-प्रकरण-भाणादिदशररूपकत्वेन च नाटिका-त्रोटक-सट्टकाद्यष्टादशाधिकोपरूपकत्वेन दृश्यकाव्यप्रकारा अपि राजन्ते । एवमेव नूतनसंप्रदायानुसारं लघुकथा (short story), दीर्घकथा (novel), प्रवासकथनं (travelogue), ललितप्रबन्धः

Read More