...
HomePosts Tagged "pratibha"

pratibha Tag

संहितात्मकमिदं जगत् । संहिता नाम कश्चन समूहो यत्र नैकानि द्रव्याणि परस्परं संनिकृष्टानि। “परः संनिकर्षः संहिता” इतीदं पाणिनिमहर्षिभिः सन्दृब्धं सूत्रमत्रावधेयम् । यद्यपि समूह-समुदाय-संमेलनादयः शब्दा अमुमेवार्थं प्रकटीकुर्वन्ति तथापि गहनार्थगर्भितविषयाणां प्रस्तावनावसरे संहिताशब्दप्रयोग एवाभ्यर्हिततमः । अयमेव हि साम्प्रदायिको नयः । यत्र नैकद्रव्याणां समवायो दृश्यते, यत्र पुनस्तानि द्रव्याण्येकीभूय स्वीयकर्मसु प्रवृत्तानि दृश्यन्ते तत्र सर्वत्रापि संहितैषा विलसति। किं नाम

Read More

यथा वेदान्तविद्यायां जीवन्मुक्तपरम्परा । तथा साहित्यविद्यायां महाकविपरम्परा ॥ तदिदमवधेयं यद्भारतीयपरम्परायां सर्वप्रमाणापेक्षया निस्सामान्यसार्वत्रिकानुभव एव सार्वभौमत्वमर्हतीति । अनेनैव शुष्कतर्कापेक्षया स्वरसानुभवरासिक्यं वरमिति स्फुरति । तथा च शतानां शब्दशरणानां शास्त्रज्ञंमन्यानां गड्डरिकाप्रवाहापेक्षया त्वेक एव ज्ञानविज्ञानवान्प्रशस्यते । अनेनैव नयेन वेदान्तविद्यायां  वामदेव-याज्ञवल्क्य-श्रीकृष्ण-शङ्कर-रामकृष्ण-रमणादीनां जीवन्मुक्तपरम्परेव साहित्यविद्यायां महाकविपरम्परा यद्व्यास-वाल्मीकि-कालिदास-शूद्रक-बाणादीनां, होमर्-शेक्स्पियर्-दोस्तोविस्किप्रमुखाणां च साहित्यशास्त्रज्ञनामधारिणां महासमूहापेक्षया बलवत्तरेति निश्चीयते । अन्यास्वपि कलासु यथा गीत-नृत्य-चित्र-शिल्पादिष्वपि सरणिरियं समूह्या

Read More

VI वयमिदानीं संक्षिप्तेनापि रूपेण साम्प्रतिकसंस्कृतकवीनां पुरस्स्थितान् प्रतिकूलांशान् विलोकयामः। एते तु काव्यनिर्माणकोणेन काव्यप्रचुरणकोणेन  च द्विधा भवन्ति। काव्यप्रचुरणस्यांशस्तु मुख्यतया व्यवहारजगत्सम्बन्धी लाभ-नष्टैकदृशा बर्बरार्थव्यवस्थामेवानुधावति। पुस्तकप्रकाशनोद्यमः परमार्थतो नान्यैरुद्यमैः प्रायेण भिद्यते। किन्तु शिक्षाऽशिक्षानिरपेक्षं लोकसामान्यसकलास्यप्रचुराणां भाषाणां रुचिल-सरल-सुलभसाहित्यप्रकाशने यावत्सौकर्यं न तावत्संस्कृतवाचः काव्यानां प्रकाशन इति मन्दोऽपि वेत्ति। अतो ह्यत्र नायमंशः प्रपञ्च्यते। अन्यच्च विषयेऽस्मिन् जनोऽयमपि नूनमनभिज्ञ एव। केवलमिदमेकमत्र वक्तुमलं यदन्तर्जालमाध्यमेन संप्रति

Read More

Of late in classical dance performances, the proportion of nrutta, which lacks creative interpretation and expression, is on the rise. At the same time, rasabhinaya, i.e., aesthetic communication with creative interpretation of the lyrics and the music is decreasing. [Note: 1. Bhavas are specific emotional states (chitta-vrutti) of a person. They are

Read More