...
HomePosts Tagged "nature"

nature Tag

कविः कालिदासः सोऽयमत्र विहितः कविकुलगुरोः कालिदासस्य काव्यसौन्दर्यसौविध्याविष्कारात्मकः प्रकल्पः। एष पुनरखण्डानन्दप्रदानपटुं खण्डकाव्यप्रवेकं मेघदूतं विषयीकृत्य कल्पितः। सत्यमेव; कालिदासवाङ्मयस्य नूतनविमर्शः प्रायेण वितथः प्रयासः। तथापि महाकवेरस्य वचोविच्छित्तिर्मां निजास्वादप्रकटीकरणाय मुखरीकुरुते। स्पष्टमेव मन्ये चापल्यचोदितमिदं कर्मेति। कुतोऽस्य पिपठिषाऽपेक्षिता वाचकानाम्? इति प्रश्नः समुदियत्। इदमस्तु कालिदासमुखेनैव समाधानम्— “प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात्। शृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य॥” (विक्रमोर्वशीयम्, १.२) कालिदासः किंस्वरूप आसीत्? न खलु

Read More

९ ऋत-सत्ययोरर्थभेदस्तैत्तिरीयब्राह्मणस्य वचनेनानेन स्पष्टीभवति। “ऋतं त्वा सत्येन परिषिञ्चामीति नायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदादित्येन सायं परिषिञ्चति। अग्निनादित्यं प्रातः सः।” अत्र रजनीदिवसावेकस्यैव कालतत्त्वस्य द्वे मुखे। तावेकाकारेण गृहीत्वा सेवयेदिति तात्पर्यम्। तत्र सायन्तनसवने ध्येयं दैवतमग्निः। अयमेव ऋतस्वरूपी। प्रातःसवने ध्येयं दैवतं त्वादित्यः। अयं तु सत्यस्वरूपी। एवं पावकभास्करौ द्वावपि तेजोमयौ ऋतसत्यसङ्केतौ। किं

Read More

१ सामान्यतया वदामः किल वयं लोके “इयमस्माकं प्रकृतिः,” “तत्तस्य नैजम्,” “इदं मे नैजम्” इत्यादीनि वचांसि। कोऽसौ प्रकृतिः? किं नाम नैजम्? आ जनेर्मानवेषु समन्विता भवन्ति केचन पदार्थाः, काश्चन शक्तयो गुणप्रवृत्तयश्च। मानवेन कथं वेदं वस्तुजातं समासादितम्? येन केनापि विधिनेति वक्तव्यम्—जन्मान्तरेण जातं, वरत्वेन लब्धं, पूर्वकर्मफलरूपेण संप्राप्तं वा। यत्किमपि भवतु नाम। निष्कर्षस्तावदयं यन्मनुष्यस्य जन्मावसर एव

Read More

Hinduism is the major religion of India with a worldwide following of over a billion people. In its original and purest form, it is a sanatana dharma (loosely translated as ‘eternal truth’ or ‘timeless religion’) that represents at least 7,000 years of contemplation, tradition, and continuous development in India. One

Read More