...
HomePosts Tagged "Literature"

Literature Tag

तदयं सङ्क्षेपः—निर्विशिष्टक्लैब्यसन्त्रस्ते सति समाजे, तेन विशिष्टो व्यक्तिगुणः सुतरां नावगम्यते[1]। तादृशस्तु भित्तीतिवृत्तवियुक्तो वाग्व्यापारः सरस्वतीविडम्बनाय रसविध्वंसनाय च कल्पते। अनुलक्षिते सत्यस्मिन्, साम्प्रतिकसमाजे कथानायकार्हता न कस्मिन्नपि मनुजे विद्यत इत्युत्प्रेक्षितुमलम्[2]। भारतीयकाव्यमीमांसादृशा रसः सदैव नायकाश्रितः। अन्यच्च “नायकस्य कवेः श्रोतुः समानोऽनुभवः स्मृतः” इत्यमुं तौतीयमभिप्रायमनुरुध्य पश्यामश्चेत्, साम्प्रतिकं साहित्यं रसशून्यमेवेति सहृदयाय प्रतीयते। यतो हि नायकसत्त्वरहितं यं कमपि नायकीकृत्य वितीर्यमाणं

Read More

अस्यां दिशि सुकविना केचन दोषा यत्नेन वारणीयाः। यथा संविधाने निर्वैशिष्ट्यम्, इतिवृत्ते च निस्सङ्घर्षता। यद्यपि सङ्घर्ष इति परिभाषाविशेषः प्राच्यभारतीयकाव्यमीमांसायां किञ्चिदप्रचुरस्तथापि कथायाः पुरोऽभिवृद्धये विविधपात्राणां पोषणाय च सोऽयमावश्यक इति सुविदितमेव सुधियाम्। श्रीमद्रामायणे श्रीमन्महाभारते च विद्यमानो धर्माधर्मयोः सदसतोश्च सङ्घर्षः सुविख्यातः। महाकाव्येष्ववश्यं मन्त्र-द्यूत-प्रयाण-आजि-नायकाभ्युदयादीनि वर्णनानि भवेयुरिति किल काव्यशास्त्रसमयः। अत्राजिर्नाम न केवलं बाह्यः, अपि तु आन्तरङ्गिकोऽपि भवितुमर्हति।

Read More

सम्प्रति भाविकाभिधानं किञ्चन साहित्यतत्त्वमवगाहामहे। भाविकमिति सम्भाविततत्त्वं दण्ड्यादिभिस्तु मौलिकमेवम्। इतिवृत्तश्रीकारणमतिलोकमनोज्ञवर्णनेङ्गितयुक्तम्॥७॥ तत्त्वस्यास्य स्वरूपनिरूपणं भामहेन सम्यगकारि। यथा— “भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्। प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः”॥ (काव्यालङ्कारः, ३.५३) एतदनुसारं भाविकमितीदं काव्यतत्त्वं न केवलम् अलङ्कारमात्रपर्यवसायि, अपि तु काव्यप्रपञ्चे प्रकृष्टं सर्वङ्कषं च किमपि प्रबन्धगुणभूतम्। अस्मिन्नेव हि संनिवेशचातुर्यं निषीदति। अतोऽस्य प्रभावाद्भूतभविष्यत्सम्बद्धा अपि घटना वर्तमाना इव भासन्ते। काव्यस्य परमस्वारस्यभूमिस्तु कालपरिच्छेदमतीत्य यथा घटना आस्वाद्यतामाप्नुयुस्तथा

Read More

धीपारम्यं वर्णनगतमुक्तिचमत्कृतं हि चित्रं कृतकम्। हृद्भावशबलदुर्बलगतिस्तु वृत्ते विचित्रशैथिल्याय॥४॥ काव्यस्य हृद्भाव-चिद्भावसम्बद्धं पूर्वनिर्दिष्टमेव विषयं कारिकेयं प्रस्तौति। इतिवृत्तनियोजने बुद्धिविलासः कलासमयमनुसरन् अनुकरणरूपो भवेत्। वर्णनेषु हार्दभावस्तावदनुकीर्तनरूपेण भवेदत्युक्तिवर्जितः। नयेऽस्मिन्ननादृते सति, अतिबौद्धिकं काव्यं शुष्कतां दुरूह्यतां च व्रजति। तत्तदा चित्रमिति भूत्वाऽधमकाव्यगर्ते पनीपतीति। यस्मिन्नु काव्ये पुनरितिवृत्तमतिमात्रं भावशबलितं, तदवश्यं शैथिल्यदोषदग्धं जायते। अतः सर्वथाऽनुल्लङ्घ्यं रसोपनिषद्भूतमौचित्यम्॥ व्यावहारेष्वर्थरहितरवसदृशं वर्णनैकरचनं प्रायः। इतिवृत्तरहितकाव्यं तत्कर्तर्युपचरत्यहो कविशब्दः॥५॥ केचिदाचक्षते यदितिवृत्तनिरपेक्षं काव्यं भवितुमर्हतीति। अन्ये

Read More

[लेखोऽयं शतावधानिन आर्यगणेशस्य कन्नडभाषानिबद्धशोधप्रबन्धस्य संस्कृतानुवादः (Ref: Ganesh, R. Hadanu-havaṇu. Mangalore: Prasaranga, Mangalore University, 2018. pp.150-176)] वल्लकीपुस्तकाशक्यं शब्दार्थव्यञ्जनं परम्। यत्र तत्र भवामीति स्मेरास्याऽवतु भारती॥ अथ किं नाम काव्यम्? भारतीयकाव्यपरम्परायां तु कवेः कर्म काव्यमित्याहुः। अत्र हि गद्य-पद्य-चम्पू-श्रव्य-दृश्यादिभेदान्नैके सन्ति विभागोपविभागाः। समस्तं वाङ्मयमिदं मूलतः शब्दार्थसाहित्यसिद्धमिति निश्चप्रचम्[1]। तामिमां शब्दार्थसम्पृक्तिं विषयीकृत्य सुनिपुणं मीमांसति काव्यमीमांसाऽपराभिधं साहित्यशास्त्रम्[2]। मनीषितल्लजो डि.वि.गुण्डप्पवर्यः साहित्ये दशविधाः

Read More

In the history of Kannada revival, Panje Mangesha Rao (Maṅgeśarāya in Kannada) must be definitely remembered as an important scholar and a noble person. His zest in literature, his gentle behaviour, and his genuinely friendly nature, makes him unforgettable. Long before I met him, I had heard about him from B

Read More

Sri Hariyappacharya Swami was a truly magnanimous person who extended patronage, patience, and friendship towards other sects. He did not prohibit the Sahapankti bhojana[i] with Smartas and other sects. He became worship-worthy for all people on account of his conduct, integrity, and selflessness. After Sri Hariyappacharya Swami passed from this world,

Read More