...
HomePosts Tagged "Dandi"

Dandi Tag

सम्प्रति भाविकाभिधानं किञ्चन साहित्यतत्त्वमवगाहामहे। भाविकमिति सम्भाविततत्त्वं दण्ड्यादिभिस्तु मौलिकमेवम्। इतिवृत्तश्रीकारणमतिलोकमनोज्ञवर्णनेङ्गितयुक्तम्॥७॥ तत्त्वस्यास्य स्वरूपनिरूपणं भामहेन सम्यगकारि। यथा— “भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्। प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः”॥ (काव्यालङ्कारः, ३.५३) एतदनुसारं भाविकमितीदं काव्यतत्त्वं न केवलम् अलङ्कारमात्रपर्यवसायि, अपि तु काव्यप्रपञ्चे प्रकृष्टं सर्वङ्कषं च किमपि प्रबन्धगुणभूतम्। अस्मिन्नेव हि संनिवेशचातुर्यं निषीदति। अतोऽस्य प्रभावाद्भूतभविष्यत्सम्बद्धा अपि घटना वर्तमाना इव भासन्ते। काव्यस्य परमस्वारस्यभूमिस्तु कालपरिच्छेदमतीत्य यथा घटना आस्वाद्यतामाप्नुयुस्तथा

Read More

ಲಕ್ಷಣವಿವೇಚನೆ ಭರತಮುನಿಯು ನಾಟ್ಯಶಾಸ್ತ್ರದ ಹದಿನಾರನೆಯ ಅಧ್ಯಾಯದಲ್ಲಿ ಯಾವುದೇ ರೂಪಕದ ಪಾಠ್ಯರಚನೆಗೆ ಅನುಕೂಲಿಸುವ ಸಾಹಿತ್ಯವಿದ್ಯಾಪ್ರಧಾನವಾದ ಕೆಲವೊಂದು ಅಂಶಗಳ ಚರ್ಚೆಗೆ ತೊಡಗುತ್ತಾನೆ. ಇವುಗಳ ಪೈಕಿ ತುಂಬ ಮುಖ್ಯವಾದದ್ದು ಮೂವತ್ತಾರು ಲಕ್ಷಣಗಳ ನಿರೂಪಣೆ. ಇವನ್ನು ವಿದ್ವಾಂಸರು ಅಲಂಕಾರ, ಗುಣ, ವಕ್ರತೆ ಮತ್ತು ಧ್ವನಿಪ್ರಕಾರಗಳಿಗೂ ಬೀಜಭೂತವಾದ ಕಾವ್ಯತತ್ತ್ವಗಳೆಂದು ಗುರುತಿಸಿದ್ದಾರೆ. ಯದ್ಯಪಿ ಇವುಗಳ ಸಂಯೋಜನೆಯಲ್ಲಿ ವ್ಯವಸ್ಥಿತವಾದ ಕ್ರಮವಾಗಲಿ, ಪರಿಷ್ಕಾರವಾಗಲಿ ಇಲ್ಲದಿದ್ದರೂ ಇವುಗಳಲ್ಲಿ ಅಡಗಿರುವ ತತ್ತ್ವ ಮತ್ತು ಅಲಂಕಾರಶಾಸ್ತ್ರದ ಮುಂದಿನ ಬೆಳೆವಣಿಗೆಯ ಹಿನ್ನೆಲೆಯಲ್ಲಿ ಇವು ನಮಗೆ ಧ್ವನಿಸುವ ಬಗೆಯನ್ನು ಕಂಡಾಗ

Read More

ಕಲಾಸ್ವಾದದಲ್ಲಿ ರಸ-ಭಾವನೈರಂತರ್ಯ: ಒಂದು ಜಿಜ್ಞಾಸೆ ಭರತನು “ರಸಾಧ್ಯಾಯ”ದಲ್ಲೊಂದೆಡೆ: “ನ ಭಾವಹೀನೋऽಸ್ತಿ ರಸೋ ನ ಭಾವೋ ರಸವರ್ಜಿತಃ | ಪರಸ್ಪರಕೃತಾ ಸಿದ್ಧಿರನಯೋರಭಿನಯೇ ಭವೇತ್ ||” (೬.೩೬) ಎಂದು ಒಕ್ಕಣಿಸಿದ್ದಾನೆ. ಇದನ್ನು ವಿವರಿಸುತ್ತ ಅಭಿನವಗುಪ್ತನು ಲೋಕದಲ್ಲೆಲ್ಲಿಯೂ ವಿಭಾವಾದಿವ್ಯವಹಾರಗಳಿರುವುದಿಲ್ಲ, ಅಲ್ಲಿರುವುದೆಲ್ಲ ಕಾರ್ಯ-ಕಾರಣಸಂಬಂಧವೇ; ಹೀಗಾಗಿ ಕಲೆಯಲ್ಲಿ ಮಾತ್ರ ಭಾವಗಳ ಮತ್ತು ರಸಗಳ ಪ್ರಸ್ತಾವವಿರುತ್ತದೆಂದು ಹೇಳುತ್ತಾನೆ.  ಮತ್ತೆ ಹಲವೆಡೆ ಭಾವ ಮತ್ತು ಭಾವನೆಗಳನ್ನು ವ್ಯಾಪ್ತ್ಯರ್ಥದಲ್ಲಿಯೂ ಆಸ್ವಾದಾರ್ಥದಲ್ಲಿಯೂ ಸ್ವೀಕರಿಸಿ ರಸ-ಭಾವಗಳ ನೈರಂತರ್ಯವನ್ನು ಕೇವಲ ರಸವ್ಯಾಪನ ಮತ್ತು ತದಾಸ್ವಾದನಗಳೆನ್ನುವ ಮೂಲಕ ಅದೊಂದು ಬಗೆಯ ಯುಕ್ತಿಯುಕ್ತಸಮಾಧಾನವನ್ನೂ ಹೇಳಿದ್ದಾನೆನ್ನಬಹುದು.

Read More

जगत्सन्दर्भसौन्दर्यसंवित्संस्पन्दसाक्षिणम्। प्रणमामि सितस्मेरप्रणवं गणनायकम् ॥ Humour is a divine gift to humans. While experiencing humour is wonderful, analyzing it can be quite difficult. It’s easy to find passages in treatises of alaṅkāra-śāstra (loosely translated as ‘Indian Aesthetics’) about analysis of humour along with and in comparison with other rasas (aesthetic experiences), guṇas

Read More

संस्कृते विद्यमानानि विविधानि शास्त्राणि सन्ति नैकानि शास्त्राण्यैहिकान्यामुष्मिकानि संस्कृते विद्यमानानि। एतेषां सर्वेषां परामर्शनं नाम बहुसमयग्रसिष्ण्विति मत्वा केवलं शृङ्गग्राहिकया भङ्ग्या कतिपयविद्यानामेव परिमितविधौ विवेचनं शक्यम्। एतेषु भाषा-व्याकरणयोः प्रायः पूर्वमेव किञ्चिदिव परामृष्टमिति मुख्यतयावशिष्टानि प्रस्तुतकालेऽपि यथावत्प्रयोजकानि कतिचिद्विलोकयामः। अत्रेदमवधेयं  यद्भारतस्य जगद्योगदानविवेचनासरे धर्म-ब्रह्म-रस इति त्रितयस्य महदस्ति प्राशस्त्यम् । तत्त्वत्रयस्यास्य स्थूलसंवादं तु पाश्चात्यलोकस्य शिव-सत्य-सुन्दर-मौल्यत्रये (Good, Truth and Beauty) द्रष्टुं शक्यम्।

Read More

"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" "संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः" शास्त्र-काव्यप्रतिभाविलासानां व्यक्तीकरणाय परमं माध्यमं संस्कृतम् यद्यपि भगवता पाणिनिना भाषेत्येव व्यवहृता तथापि तस्यैव महर्षेः प्रभावात् संस्कृतमिति भूत्वा राजलोह (Royal Metal) इति गीयमानस्य सुवर्णस्य नित्यकान्तिलकायमिव स्वीयं नित्यनिर्विकारशरीरं प्राप्य परिपूर्णतायाः पर्यायवत्, निस्सन्दिग्धतायाः प्रतिरूपवत्, निरुपमानसाध्यतानां साकारवत् विजृम्भते। अतो हि केवलं संस्कृतभाषायां विद्यमानं ज्ञानराशिं विहाय तस्याः शब्दरूपाणां, वाग्रूढीनां

Read More

यदृच्छास्वच्छविस्तीर्णामविच्छिन्नरसावहाम्।  अगाधापारपारम्यां श्रये संस्कृतवाहिनीम्॥ I तदिदं मुदावहं यदाधुनिकसंस्कृतसाहित्यवरिवस्याविवेचनात्मकमत्र सत्रं प्रकल्पितम्। दिनद्वयात्मकेऽस्मिन् सारस्वतसवने समर्पितानि स्वरसानि बोधप्रदानि च नैकानि प्रस्तावनहवींषि, येन बुभुत्सवो व्युत्पिपत्सवश्च विद्वद्रसिकवैतानवह्नयः समाराधितास्स्युः। अन्यच्च प्रश्नोत्तरपुरोडाशानां संवादसोमाहुतीनां परिवादपशूनां च विनियोगेन सारस्वतसप्ततन्तुरयं सर्वथा सम्पन्न इति मन्ये। प्रायेण सत्रेऽस्मिन् साम्प्रतिकसंस्कृतसाहितीशारदायाः करकल्पितवल्लक्या नैके नन्वेकान्तमनोहरा वैचारिकरागा निपुणं निष्पादितास्स्युः। अतो हि न मे जागर्ति कश्चिदपि नवाभिरामसमालोचनमूर्च्छनाप्रस्तुतिभ्रमः। तस्मादेव किञ्चिदिव संस्कृतसाहित्यपरम्परापरिशीलनपुरस्सरं प्रस्तूयते

Read More