...
HomePosts Tagged "Aesthetics"

Aesthetics Tag

रसाभासरूपेण नूनं किलैतान्प्रवच्मो वयं नान्यथा विद्यमानान्। यदा वाऽऽग्रहास्तादृशा लोकबाह्या भवेयुस्तदा ते जने नीरसास्स्युः॥३३॥ अतो ह्यवादीद्ध्वनिकृत्पुरैव रसास्तदाभासमुखास्समस्ताः। रसादिरुपेण कृतौ प्रतिष्ठा व्यङ्ग्याध्वनि स्वादपरा भवन्ति[1]॥३४॥ रावणव्यपदेशेन यल्लोचनकृदीरितम्। तत्कवेस्तु विवक्षाया अधीनमिति मन्मतम् [2]॥३५॥ यद्यपि रावणे भट्टाभिनवगुप्तस्सीतावैषयिकीं शृङ्गारप्रसक्तिं निराकुरुते तथापि तस्मिन् रसान्ताराणां सम्भवं प्रत्याक्षेप्तुं न शक्यमिति पूर्वमेव निरूपितमस्माभिः। अन्यच्च कुवेम्पुवर्यस्य रावणोदात्तीकरणलालसापि न रसावहेति न्यरूपि। किन्तु यत्र सीतारामयोः प्रस्तावः सुतरामपि न दृश्यते

Read More

अनया हि दृष्ट्या तदेवमभ्युपगम्यते यन्महाकाव्य-महाकथा(Epic Novel)-नाटक-प्रकरणादयो नितरां भूमभावभरिता गुरुसाहित्यप्रकाराः प्रविलसन्तीति। किन्तु खण्डकाव्य-गीतकाव्य(रागकाव्य)-मुक्तक-प्रहसन-नाटिका-भाणादिरञ्जनमात्रावसिता लघुसाहित्यप्रकारा इत्यप्यनुमीयते। परमिदमवधेयं यत्काव्यस्य लघुत्वं वा गुरुत्वं गात्रमात्रेण न निश्चीयते किञ्च गात्रस्यापि कापि गुणवत्ता दरीदृश्यते। यदाहुराङ्ग्लेयवाचि— “Quantity is also a quality” इति। तथापि समृद्धविभावानुभावादिसमग्रीनिर्माणक्षमा वक्रोक्तिमाध्यमद्वारा ध्वन्यमाना परमौचित्यवल्गिता साहिती या कापि रसिकानां रसानन्दमहोत्सवे पर्यवस्यतीति निश्चप्रचम्। केवलं गुरुसाहित्यप्रकारेषु भूमभावबन्धुरेषु प्रायेणेदृशस्य

Read More

मुरलिकामरुता मरुतामपि श्रुतिचयं शिशिरीकुरुते च यः। जगति कामरुतार्तजनावन- व्यसनितालसनोऽस्तु मुदे स नः॥१॥ आत्मानुभूतिमुकुरे परिदृश्यमानं भावप्रपञ्चसकलं निरपेक्ष्यदीप्त्या । सार्वत्रिकानुभवमात्रकषप्रमृष्टं मन्ये सुवर्णमयभूषणमित्यजस्रम्॥२॥ आत्मानुभूतिर्नाम न काचिद्विशिष्टा सविकल्पा च योगिप्रत्यक्षमात्रावगम्यावस्था। यद्वेदान्तिभिस्सार्वत्रिकनिर्विशिष्टानुभव इत्यवस्थात्रयमीमांसायां गीयते स एवात्र व्यपदिष्टः। अस्मिन्नेपथ्ये हि जागर्ति रसमीमांसा च। यतो हि ब्रह्मास्वादसहोदर एव रसानन्दः। स च यथा वेदान्तिभिरध्यारोपापवादप्रक्रिययैव समभिगम्यते तथा हि सुतरामलङ्कारतत्त्वनिबद्धया तयैव निरुप्यत इति सन्दर्भान्तरेषु सुनिपुणमस्माभिर्दर्शितम्[1]।  अतोऽत्र नायं विचारः

Read More

तिर्यग्जन्तुभिः सह मानवः कतिपयांशेषु साम्यमावहति। आहार-निद्रा-भय-मैथुनानीत्येतानि सर्वजन्तुसाधारणानि; यानि मूलभूतचोदनानीति कथ्यन्ते। प्रथमं तावदेतेषां स्वरूपं परिशीलयामः। आहार-मैथुनयोः प्राप्तिर्भयनिवृत्तिश्च विनापवादमन्याश्रिते। आहारो नामास्मद्भिन्नः पदार्थविशेषः। तदवलम्बनेन हि बुभुक्षातृप्तिः। एवञ्च नैकेषु सन्दर्भेषु बुभुक्षापूरणाय पाचकाः पाकसाधनसामग्र्यश्च खल्वनिवार्याः। तस्मादाहारोऽयमन्याश्रितः। मैथुनमप्यन्यावलम्बीति तच्छब्दार्थ एव बोधयति। मिथो भावस्तु मैथुनमिति विवरणात्। सफलं समृद्धञ्च मैथुनं मिथुनाश्रितम्। एकाकिना नालमत्र सर्वथा। अपरमथ विवेचयामस्तावन्मूलभूतचोदनं भयाख्यम्। भयकारणं परायत्तमित्यत्र

Read More

जगत्सन्दर्भसौन्दर्यसंवित्संस्पन्दसाक्षिणम्। प्रणमामि सितस्मेरप्रणवं गणनायकम् ॥ Humour is a divine gift to humans. While experiencing humour is wonderful, analyzing it can be quite difficult. It’s easy to find passages in treatises of alaṅkāra-śāstra (loosely translated as ‘Indian Aesthetics’) about analysis of humour along with and in comparison with other rasas (aesthetic experiences), guṇas

Read More

“ಲೋಚನ”ದ ಕೆಲವೊಂದು ಮಹತ್ತ್ವಪೂರ್ಣಸಂಗತಿಗಳು ಆನಂದವರ್ಧನನು ತಾನು ಪ್ರತಿಪಾದಿಸಿದ ಧ್ವನಿತತ್ತ್ವದ ಮೂರು ಸ್ತರಗಳಾದ ವಸ್ತು, ಅಲಂಕಾರ ಮತ್ತು ರಸಧ್ವನಿಗಳ ನಡುವೆ ಪ್ರಸ್ಫುಟವಾದ ತರ-ತಮವಿವೇಕವನ್ನು ಗ್ರಹಿಸಿದ್ದರೂ ಅದನ್ನು ಕಂಠೋಕ್ತವಾಗಿ ಸಾರಿರಲಿಲ್ಲ. ಈ ಕೆಲಸವನ್ನು ಅಭಿನವಗುಪ್ತನು ಧ್ವನಿಕಾರನ ಹೃದಯಜ್ಞನಾಗಿ ನಡಸಿರುವುದು ನಿಜಕ್ಕೂ ಮುದಾವಹ. ಈ ಮೂಲಕ ಸಾಮಾನ್ಯತಃ ಕಾವ್ಯಾತ್ಮವು ಧ್ವನಿಯೆಂದು ಧ್ವನ್ಯಾಲೋಕದ ಮೊದಲಿಗೆ ಒಕ್ಕಣೆಗೊಂಡಿದ್ದರೂ ವಸ್ತುತಃ ರಸವೇ ಕಾವ್ಯದ ಆತ್ಮವೆಂಬ ಪರಮಾರ್ಥವು ಉನ್ಮೀಲಿತವಾಯಿತು. ಅಲ್ಲದೆ ವಸ್ತ್ವಲಂಕಾರಧ್ವನಿಗಳು ಬಲುಮಟ್ಟಿಗೆ ಕಾವ್ಯವೊಂದರ ರಚನಾಸ್ತರದಲ್ಲಿ ತೋರಿಕೊಳ್ಳುವ ಚಮತ್ಕಾರ ಹಾಗೂ

Read More