...
 

काव्यप्रकारवैविध्यसाधने अलङ्काराणां योगदानम्

विदितमेव खलु काव्यं दृश्यं श्रव्यं चेत्यादौ द्वेधा विभक्तं; पश्चाद्गद्य-पद्य-चम्पूभेदत्वेन त्रेधा चेत्यपि । तथा च मुक्तक-युग्मक-सान्दानितक-कलापक-कुलक-अष्टक-शतकादिपद्यसङ्ख्यानुसारं विभागा वर्तन्त एव । अपि च गद्ये पद्यगन्धि-उत्कलिका-चूर्णिकाप्रायादयः सन्ति नैके विभागाः । महाकाव्यं, खण्डकाव्यं, आख्यायिका, कथा इत्यादयः श्रव्यकाव्यप्रभेदास्तथा नाटक-प्रकरण-भाणादिदशररूपकत्वेन च नाटिका-त्रोटक-सट्टकाद्यष्टादशाधिकोपरूपकत्वेन दृश्यकाव्यप्रकारा अपि राजन्ते । एवमेव नूतनसंप्रदायानुसारं लघुकथा (short story), दीर्घकथा (novel), प्रवासकथनं (travelogue), ललितप्रबन्धः (essay),  जल्पकथानकं (comic writing) इत्यादयः परश्शतं सन्ति प्रभेदाः । एतेषां लक्षणीकरणमितोऽपि शास्त्रवर्त्मना संस्कृते न कृतमिति मन्ये । तथापि भाषान्तरेषु प्राचुर्यत्वात्सिद्धलक्षणा इति नात्र संशीतिलेशः । ईदृशे बहुविभागविपुले काव्यक्षेत्रे[1] शब्दार्थालङ्कारराशिः कथं विविधकाव्यप्रकारनिर्माणे साधनमभूदित्येव प्रकृतजिज्ञासा । मुख्यतया चैतदवधार्यं यदीदृशमलङ्काराणां काव्यवैविध्यसाधनं केवलं देववाणीवाङ्मय एव दृष्टं नान्यत्र कुत्रापीति । अस्य हेतुस्तावत्सुकरमूह्य एव यत्संस्कृते यादृशमलङ्कारशास्त्रं नानाशब्दार्थालङ्कारविभागसूक्ष्मसमुदग्रं सम्पन्नं लक्षणत्वेन च विपुलमहाकविलक्ष्यलावण्येन च तादृशं नान्यासु देश-विदेशभाषासु समुदितम् । महती प्रतिभा लक्ष्यनिर्माणे महान्विवेको लक्षणनिर्मितावत्र परिलक्षितौ । अतः केऽपि देवानांप्रियाः संस्कृते काव्यवैविध्यवास्तवमजानन्तो वदन्ति चेद्विसंवादमत्रेतदवधार्यं यदद्यापि नूत्ननूत्नकाव्यविभागोदयार्थमस्ति विशालावकाशवैदुष्यमिति । यत्नः प्रकृतोऽपि तमर्थमेवानुसरतीति निश्चप्रचम् ।

प्रथमतयाऽर्थालङ्काराणां योगदानं पश्यामस्तावत् । लाक्षणिकपरामृष्टेषु शताधिकेषु किलार्थालङ्कारेषु प्रायेण पञ्चाशत्सङ्ख्याकाः परस्परसाङ्कर्यभीतिमपहाय स्फुटतां वहन्ति । एतेषु परमप्रसिद्धाः सर्वकार्यक्षमा उपमा-रूपक-उत्प्रेक्षा-अतिशयोक्तिमुखा नात्र परामर्शनमर्हन्ति यतोऽत्र वैशिष्ट्यं काव्यवैविध्ययोगदानेन वहन्तोऽलङ्कारा एव प्रस्तूयन्ते ।

अप्रस्तुतप्रशंसा खल्वर्थालङ्कारेषु प्रमुखश्चैकः प्रकारः । अत्र प्रस्तुतस्याशयेऽप्रस्तुतस्य प्रस्तावो भवति । अलङ्कारोऽयं कालान्तरे विपुलान्यापदेशकाव्यानां स्फूर्तिमूलमुपजातमिति भल्लट-जगन्नाथ-नीलकण्ठदीक्षितप्रभृतीनां कविता विलोक्यैव ज्ञातुं शक्यते । वाङ्मयविश्वे न कुत्रापि संस्कृतं विहाय किलान्यापदेशकाव्यपरम्परेदृशं विराजते । विशिष्यात्र सर्वथाऽभिव्यक्तिर्गुणीभूत-व्यङ्ग्यमनुसरन्ती लोकानुभवपरिपाकपरिप्लुता सरसोदारसन्दर्भनिर्भरा परमां रमणीयतामधिरोहति । नात्र विस्तरोऽपेक्षितः खलु । अन्यच्चास्मिन्नन्यापदेशकाव्यप्रपञ्चे निसर्गसूक्ष्मताविवेकोऽपि नितरां सहृदयाह्लादकारीति विदित एव ।

समासोक्तिरन्योऽलङ्कारः प्रायेणातिमनोहरः प्रकृतिव्यापारवर्णने । अप्यत्र विशिष्य विद्यमानोऽपि च प्रकृताप्रकृतप्रस्तावश्चेतन-त्वारोपणमचेतनेषु परां रमणीयतामावहति । तथा च विशेषणेषु वर्तमानः श्लेषः पुष्णाति सौन्दर्यम् । अत एवालङ्कारोऽयं भिद्यते ह्यप्रस्तुतप्रशंसालङ्कारात् । अत्रापि च ध्वनिस्पर्शोऽस्ति । प्रायेण दूतकाव्यपरम्परा त्वनेन किलाङ्कारेण बहुधा चारुतामधिगच्छतीति नास्ति विप्रतिपत्तिः । तथा च वैपुल्येन यत्र यत्र निसर्गवर्णना वरीवर्ति तत्र तत्र निस्सन्देहमूह्योऽयमलङ्कारः । आधुनिककाव्यप्रपञ्चे भावगीतात्मके प्रकृतिसौन्दर्यनिरूपणे समासोक्तिरनन्यालम्बनं धत्ते । तथा च सर्वाण्यपि ऋतुवर्णनकाव्यान्यत्र प्रमाणम् ।

नीति-वेदान्त-तत्त्वाद्युपदेशविशेषावकाशे दृष्टान्ताः सुतरां साह्यं प्रयच्छन्ति । यतः कस्यापि विषयस्य स्पष्टीकरणं सोदाहरणमेव सुकरं भवेत् । विश्रुतः खलु परमशास्त्रादपि समुचितं निदर्शनमित्याभाणको देशभाषासु । वर्ण्यविषयस्य स्फुटीकरणं तु सर्वेषामलङ्काराणां परमोद्देशभूतं तत्त्वम् । किं च वर्ण्यतत्त्वप्रबोधस्तु नीत्युपदेशकाव्येषु प्राधान्यमावहति । अत्र प्रायेण दृष्टान्त-निदर्शनालङ्कारावेव शरण्यौ । अत एव कुसुमदेवस्य दृष्टान्तकलिकाशतकं, गुमानिकवेरुपदेशशतकं, क्षेमेन्द्रस्य चारुचर्या चेत्यादीनि काव्यान्युल्लेखमर्हन्ति । एवमेव विशालानुभवमादृत्य कृतेषूपदेशकाव्येष्वर्थान्तरन्यासालङ्कारः प्राचुर्यं वहति । तस्मादनेकानि नीतिशतकादीनि काव्यान्यर्थान्तरन्यासपुष्टानि राजन्ते । सङ्क्षेपतया परिणामकारिरूपेण च नीत्युपदेशप्रस्तुतौ प्रश्नोत्तरालङ्कारः कामप्यपूर्वां सुषमामधिवसति । श्रीशङ्करभगवत्पाद-अमोघवर्षनृपतुङ्गादीनां नामसु विश्रुतानि प्रश्नोत्तरमालिका-प्रश्नोत्तररत्नमालिकेत्यादीनि काव्यान्यत्र स्मरणीयानि ।

व्याजस्तुतिः, व्याजनिन्दा, प्रेय इत्याद्यलङ्कारसङ्घटिताः कविताः प्रायेण चाटुनामके काव्यप्रभेदेऽन्तर्गता भवन्ति । विशिष्य राजचाटु-स्त्रीचाट्वित्यादिरूपेण चैताः कविताः प्रसिद्धाः । चमत्कारातिशयोऽत्र भूयानिव दरीदृश्यते । स्तुतिकाव्यान्यप्यस्मिन्नेव वर्गे समुल्लसन्ति । एवमेव चमत्कारापरपर्यायभूता वक्रोक्तिस्तु वक्रोक्तिशतक-वक्रोक्तिपञ्चाशिकाद्यनेकप्रत्येककाव्यानां जीवातुभूता विजयते ।

आधुनिकसाहित्ये भूयोऽपि विद्यमानं प्रेम तावद्रसवदलङ्काराणां बलमेव दर्शयति । तथा च नव्यकवितासु गूढव्यङ्ग्यरूपाणि वचांसि विरोध-असङ्गति-विभावना-विषमाद्यलङ्काराणां परिपाकत्वेनैव भान्तीति नास्ति लेशोऽपि संशयः ।

सूक्ष्म-लेश-पिहित-व्याजोक्ति-गूढोक्ति-विवृतोक्तीत्यादयोऽलङ्काराः प्रायेण गाथासप्तशती-आर्यासप्तशती-वज्जालग्गा-नागरसप्तशतीत्यादीनां शृङ्गारहास्यचाटुपाटवपाटलितानां रमणीयकाव्यानां कशेरुदण्डभूता भान्तीति स्पष्टम् ।

अपह्नुतिस्तु कश्चन सुमनोहरालङ्कारः प्रहेलिकासु विद्यमानं त्वपह्नुतिसंज्ञितं विभागमेव समाविश्चकारेति काव्येतिहासविदा-मचुम्बितविचार एव ।

स्वभावोक्त्यलङ्कारस्तु मया कूलङ्कषं पूर्वमेव विमृष्टश्च तस्मै व्याख्यालङ्काराख्यं नामान्तरमपि कृतम् । विशिष्य सूक्ष्मस्वभावस्य समुदग्रविवरणास्पदभूतोऽयमलङ्कारो जातिचित्राख्यं काव्यप्रकारमेव निर्मिमे । नानानर-नरी-प्राणि-पक्षि-वस्तु-सन्दर्भचित्रकमिदं जातिचित्रं निसर्गस्य परमरमणीयदर्पणायितम् । प्रायेणाधुनिकानां वास्तववादिकाव्यचिन्तकानामपि लक्षण-निर्माणसाधनभूतोऽयमलङ्कारो जरीजागर्ति कलाप्रपञ्चे ।

लोकोक्ति-च्छेकोक्ति-प्रतिषेधाद्यलङ्काराश्च लोकबोधकनीतिकाव्यनिर्माणे मार्मिका इति विदिता एव ।

श्लेषस्तु शब्दार्थालङ्कार इत्येव मन्मतिः । तथा श्लेषमूलालङ्कारचयोऽपि । श्लेषं पुरस्कृत्य सन्ति नैके श्लेषकाव्यप्रकाराः । तेषु सन्धानकाव्यान्यन्यतमानि । सभङ्गाभङ्गश्लेषभङ्गीभणितिभव्यानि राघवपाण्दवीय-राघवयादवीय-राघवनैषधीय-शङ्करविवे-कीयादीनि द्विसन्धानानि, राघपाण्डवयादवीय-राघवपाण्डवयादवनैषधीय-पञ्चकल्याण-षाण्मतीय-सप्ततीर्थङ्करीयादीनि त्रि-चतुः-पञ्च-षट्-सप्तसन्धानानि सन्ति संस्कृते विद्वदौषधभूतानि प्रौढपाषाणपाकपटूनि च । एतानि सर्वाण्यपि चित्रकाव्ये समाविष्टानि भवन्ति ।

चित्रकाव्यप्रकार एवान्तर्गतं समस्यापूरणं प्रायेण क्रमालङ्कारसाह्यमवलम्ब्य विषमसन्दर्भषु निर्व्यूढो भवति ।  तदा तु समस्या-पूरणकाव्यप्रभेदेऽप्यलङ्कारयोगदानं निश्चप्रचम् । न केवलं क्रमालङ्कारस्य, किं च व्याजोक्ति-आक्षेप-दीपक-उत्प्रेक्षा-अतिशयोक्ति-अत्युक्ति-वक्रोक्ति-असम्भाव्य-सम-तुल्ययोगिता-अन्योन्य-स्वभावोक्ति-लोकोक्ति-च्छेकोक्ति-ऐतिह्यादीना-मलङ्काराणामप्युपयोगेन पदे पदे समस्याः परिहार्यन्ते । तदा तु समस्यापूरणप्रकारकविताः सर्वथा ह्यलङ्काराधीनाः । एवमेवोत्तरालङ्काराङ्गभूतस्य चित्रोत्तरालङ्कारस्य योगदानेनैव प्रश्नोत्तरचित्राख्यः काव्यप्रभेदश्चित्रकवितासु चकास्ति । अन्यच्च समस्यापूरणेष्वेवान्तर्गतान्यावेष्टनकाव्यानि पार्श्वाभ्युदयादीनि प्रायेण मेघदूतस्य पादगर्भितानि मुद्रालङ्कारस्य व्याप्तावायान्तीति सूक्ष्मेकिकया विविच्यमानानां लोचनगोचरविचार एवेति स्पष्टम् ।

सम्प्रति शब्दालङ्काराणां योगदानं पश्यामः । प्रासप्रभेदास्तथा यमकप्रकाराश्च सुविपुलं काव्यवैविध्यसाधने हेतुभूता भवन्ति । प्रायेणानुप्राससौभाग्यमेव सर्वेषां गेयकाव्यानां जीवातुरिति चेन्न केऽपि विसंवदन्तीति मन्ये । यतो हि गीतकवितायां श्रवणाभिरामतां साधयितुं प्रासानुप्रासाः परमावश्याश्च ते लयान्वितपदपद्धतौ निबद्धा इतोऽपि रमणीयतया श्रुतिप्रसाधनं स्वीयतालास्फालस्थलसूचितवर्णमैत्र्या निरूपयन्तीति गीतसौन्दर्यवेदिनामपरोक्षमेव । अतो जयदेवप्रभृतीनां शताधिकगीतप्रबन्धकर्तॄणां काव्यनिर्माणमर्मज्ञता प्रासाख्यशब्दालङ्कारस्फुरितेति चेन्नात्यन्तबलादाकृष्टनिगमनमित्यलम् ।

एवमेव यमकालङ्कारोस्त्वन्य इतोऽप्यधिकविस्मयावहरचनाशालीनतां काव्यप्रपञ्चे चकार, येन यमककाव्यपरम्परैव निस्ससार । श्लेषसनाथीकृतो यमकः किं किं न साधयति ? घटकर्पर-जलोदय-कीचकवध-युधिष्ठिरविजयमुखानि विपुलानि यमककाव्यानि ननु विसृष्टानि पण्डितकविभिरनेनालङ्कारेण मोहितैर्महितैः ।

अपि च नानाविधचित्रकाव्यानि वर्णनियमनिबद्धानि, पदपद्धतिप्रबुद्धानि शब्दालङ्कारशृङ्खलायामेव खलु परिपतन्ति । अत्र विस्तरस्तु धीःखेदायैवेति मत्वा विरम्यते ।

इत्थं प्रायेण महाकाव्यमेकं विहाय श्रव्यकाव्यप्रपञ्चे सर्वत्रालङ्काराः काव्यवैविध्ये दत्तयोगदाना ध्रुवं विलसन्ति । प्रकृतावसरे महाकाव्यविमुखे लघुकविताबहुले क्षिप्रकवनरसिकविलसिते सङ्क्षेपरुचिरप्रचुरे तु नूतनतरकाव्यनिर्माणकौशलकाङ्क्षिभिरितोऽप्यधिकतयाऽलङ्काराः पर्युपास्याः । हन्त, कोऽयं साम्प्रतविपाकः । यत आधुनिककविंमन्या विमर्शकब्रुवाश्च सुतरामलङ्कारशास्त्रस्वारस्यग्रहणे शक्तिसमार्जने जात्यन्धा जातिबधिरा गर्भेतृप्ताः खलु वर्तन्ते । अहो! कीदृशी विसंवादवैदग्धी । अपि च संस्कृतज्ञा इति स्वयंघोषितपण्डितमानिनः संशोधकशैलूषाश्च गड्डुरिकाप्रवाहन्यायेन गतानुगतिकमाचरन्तः पाश्चात्यसंस्कृतज्ञानां कदर्थितापक्ववविचारसरणिमन्धगोलाङ्गूलन्यायेनावलम्बनमिव प्रकल्प्य रसध्वनिशब्दमात्रमोहिताः परमानन्दवर्धनीयं सत्काव्यतत्त्वमजानन्तोऽलङ्कारान्सर्वदा निन्दन्तो नन्दन्ति च । अर्थालङ्काररहिता विधवेव सरस्वतीति वाचं वा, काव्यं ग्राह्यमलङ्कारादिति सूत्रं वा नानुस्मरन्नीदृशो जनः स्वैरं काव्यनाशहेतुरलङ्कार एवेति प्रजल्पनपटुर्न मन्यते कस्मादनुष्णमनलं कृती? औचित्याङ्गीकृतालङ्कार एव काव्यभाषेति के वा न जानन्ति रसिकाः? निरलङ्कारादप्यस्ति वा दोषोऽधिकः काव्ये? यतः सौन्दर्यमलङ्कारः किल! तस्मादद्यापि कदापि वा सर्वदापि काव्यवैविध्यापादानप्रणयभिरलङ्काराणां तत्त्वं सूक्ष्मेक्षकया विशालमत्या चावधार्यमिति सिद्धान्तः । तथा च काव्येतिहासपरि-शीलनपटुभिरप्यलङ्काराणां योगदानमत्र कथमतिगम्भीरं दरीदृश्यत इत्यपि नावगणेयम् ।

यद्यपि मया महाकाव्येषु वा रूपकेषु न प्रपञ्चितमलङ्काराणां योगदानं, तथापि तत्र मुहुर्मुहुरधिकशोभायै सुतरामनिवार्यतया प्रयुज्यमानानामलङ्काराणां दायित्वं निरभिनिवेशेन समाद्रियते । किं चात्रालङ्काराणां योगदानं व्यष्टिरूपेण भवत्यतः काव्यप्रभेद-वैविध्यनिर्माणे नाधिकं निरूपयितुं शक्यम् । परं तु खण्डकाव्येषु सुतरामलङ्कारनियन्त्रितेषु कविप्रतिभामूलकल्पनानुप्राणितेषु महान्खलु वर्तते विवेकः । अतो ह्यत्र तेषामेव परामर्शः कृतोऽस्ति यथामति यथावकाशं च ।

आस्ताम् । सम्प्रति पुनश्च कवीन्सहृदयान्विद्वद्रसिकांश्च शब्दार्थालङ्कारविवेचनावसरे विशालदृष्ट्या समष्टितत्त्वं हृदि निधाय व्यवहाराय विहाराय च प्रार्थये । इति शम् ।

[अस्य लेखने ममालङ्कारशास्त्राचार्यभूतानां गुरुवर्याणां डा । के. कृष्णमूर्तिमहोदयानां “भारतीयकाव्यमीमांसे – तत्त्व मत्तु प्रयोग” इति ग्रन्थः स्फूर्तिप्रद आसीदिति सगौरवं सकार्तज्ञं च स्मर्यते ।]                   

[1] अत्र तु काव्यं नाम शब्दार्थसाहित्यसमञ्चितसामग्रीत्येव व्यवहारो न तु केवलं पद्यमयमित्यव्याप्तिः । तथापि वार्तमानिकप्रसिद्धिं परिगणय्य तत्र तत्र गच्छद्व्याख्याने छन्दोमयी शब्दार्थसंहिता चेति काव्यं व्यवह्रियते ।

Shatavadhani Dr. R. Ganesh Alankara काव्यप्रकारवैविध्यसाधने अलङ्काराणां योगदानम् r ganesh

Shatavadhani Dr. R. Ganesh

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.
Shatavadhani Dr. R. Ganesh Alankara काव्यप्रकारवैविध्यसाधने अलङ्काराणां योगदानम् r ganesh