...
 

साहित्यसंहिता

संहितात्मकमिदं जगत् । संहिता नाम कश्चन समूहो यत्र नैकानि द्रव्याणि परस्परं संनिकृष्टानि। “परः संनिकर्षः संहिता” इतीदं पाणिनिमहर्षिभिः सन्दृब्धं सूत्रमत्रावधेयम् । यद्यपि समूह-समुदाय-संमेलनादयः शब्दा अमुमेवार्थं प्रकटीकुर्वन्ति तथापि गहनार्थगर्भितविषयाणां प्रस्तावनावसरे संहिताशब्दप्रयोग एवाभ्यर्हिततमः । अयमेव हि साम्प्रदायिको नयः ।

यत्र नैकद्रव्याणां समवायो दृश्यते, यत्र पुनस्तानि द्रव्याण्येकीभूय स्वीयकर्मसु प्रवृत्तानि दृश्यन्ते तत्र सर्वत्रापि संहितैषा विलसति।

किं नाम जगत् ? विविधाकाराणां, विविधगुणानां, विविधक्रियाणां च समवायविधिना सञ्जातः कश्चनासङ्ख्येयद्रव्यगुणसमूहो ननु?

प्रपञ्चस्तावन्नैकरूपेण नैकत्र च प्रपञ्चितः परिलक्ष्यते । एतत्सर्वं कया नु वा रज्ज्वा निबद्धम् ? सर्वत्रापि दरीदृश्यते पार्थक्यम् । पृथगेव गिरिः, पृथगेव सिकताः, पृथगेव मृत्स्ना; एवमेव रत्नमन्यत्, लोहमन्यत्; अन्यैव नदी, अन्या हि वापी, सागरोऽप्यन्यः; वनं पृथक्, तत्रत्येषु वृक्षेषु केचन प्रांशवः, केचन वामनाः, केचन मध्यमाः; एवमेव वल्लीषु काचित्कोमला, काचित्कर्कषा; किसलयमन्यत्, कण्टकमन्यत्; दशविधानि तृणानि; शतसङ्ख्याका मृगाः; सहस्राधिकाः पक्षिणः; लक्षान्तराणि क्रिमि-कीटकानि; जगति यावत्परिमाणेन सन्ति मानवास्तावतैव परिमाणेन तद्रीतयो वृत्तीश्च विद्यन्ते । समस्तमिदं वस्तुजातमेकत्र समाकलय्य केन वा ब्रह्माण्डं संङ्कल्पितं कल्पितं च ?

भगवती श्रुतिराह – एकीकरणचणा रज्जवः पञ्चेति । यथा –

भूमिः, आकाशं (पर्यावरणं), ज्ञानपरम्परा, वंशपरम्परा, हनुव्यपदेशेनाऽहाराहङ्कारपरम्परा । इमानि रज्जुपर्यायाणि पञ्चाधिकरणानि ।

“पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।” (तैत्तिरीयोपनिषत्, १.३.१)

एता एव संहिताः प्रपञ्चरचनायां प्रमुखा इति तैत्तिरीयोपनिषत्सु व्यवहृताः ।

  • अधिलोकम् । अथवा भौतद्रव्यसङ्घटनम् ;
  • अधिज्यौतिषम् । अथवा तेजश्शक्तिव्यापनम् ;
  • अधिविद्यम् । अथवा ज्ञानविज्ञानप्रसरणम् ;
  • अधिप्रजम् । अथवा जातिकुलसन्तानसङ्कलनम्;
  • अध्यात्मम् । अथवा जीवलोकव्यवहारसंवेदनम् ।

स्यान्नाम यत्किञ्चिदपि वस्तु जगज्जीवनसंबद्धं; तदवश्यमन्तर्भवत्यस्मिन् महासंहितापञ्चके कस्मिंश्चिद्विभागे । तदन्यतममेकं सम्प्रति परिशीलयामः ।

“अथाधिलोकम् । पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् । आकाशः सन्धिः ।
वायुस्सन्धानम् । इत्यधिलोकम् ॥”

(अथ लोको विविच्यते । पृथिवीत्येकं द्रव्यम् । द्यौरिति तदुत्तरम् । आकाशेन तयोः संबन्धः कल्प्यते । तत्साधनं हि वायुः । इत्येषा लोकसंस्थितिः ।)

इयमन्या महासंहिता –

“अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः ।
प्रजननं सन्धानम् । इत्यधिप्रजम् ॥”

(अथ प्रजा – तन्नाम प्राणिसमुदायो – विव्रियते । अत्रादिमं तत्त्वं माता । पिता तदनन्तरम् । तयोः सन्ततिरेव सम्बन्धग्रन्थिः । प्रजोत्पादनक्रिया तत्र साधनम् । इत्येतावान्प्रजोपन्यासः ।)

sahitya meaning साहित्यसंहिता dvg

D V GUNDAPPA

विश्वसृष्टिर्नाम पूज्या रहस्यभूता च क्रिया । तत्संबद्धा “महा”संहिताः । तासु महासंहितास्वन्यतममधिविद्यम् । अधिविद्ये तावदन्तर्गतं किमपि विशिष्टं वस्तु – काव्यम् ।

महासंहिता नाम केचन रज्जुविशेषा इत्यवोचाम । यथा हि नानागुणानां संनिपातेन रच्यते रज्जुस्तथैव निर्मितिरपि महासंहितानाम्।

विद्यादाम्नि किल व्यवस्थापिता नैकप्रकारा ज्ञानविज्ञानकलादयः । तत्रैकं गुणकल्पं हि साहित्यम् ।  अनयैव दृशा परिशीलयामश्चेदवश्यं ज्ञायते यत्साहित्यं कस्याश्चन विराड्रज्जोरंशभूतमिति । अत एव हि विराट्पुरुषे विहितायां वरिवस्यायां कलामात्रं साहित्यार्थमपि युज्यते ।

एवं च, साहित्यमध्यात्मसंहितायामपि नियोजयितुमलम् । आत्मशोधकत्वात् ।

चिरन्तनमहर्षिविधेया वयं तैरुपदिष्टे मार्गे यदि किञ्चिदिवाग्रे प्रसृत्य काव्यविषयीभूतां कामपि लघुसंहितां रचयामश्चेत्तन्नापचारय कल्पत इति विश्वसिमः ।

अथाधिकाव्यम् । कविप्रतिभा पूर्वरूपम् ।
श्रोतृहृदयमुत्तररूपम् । रसानुभूतिः सन्धिः ।
वाक्कौशलं सन्धानम् । इत्यधिकाव्यम् ॥

(अथ काव्यं निरुच्यते । कवेः प्रतिभैव प्रथमः पदार्थः । सहृदयहृदयमेव पदार्थान्तरम् । रसानुभूतिद्वारा तयोः सम्बन्धः । तत्साधनं तु वाक्चमत्क्रियादिकम् । एतावद्धि काव्यकथनम् ।)

प्रतिभा नाम प्रतिफलनशक्तिः; अथवा प्रत्युत्तरशक्तिरित्यपि वक्तुमलम् । यद्वदादर्शस्तदग्रवर्तिनं समस्तमपि वस्तुजातमात्मनि प्रतिफलति तद्वदेव मनुष्यस्यान्तरङ्गस्तत्परितो वर्तमानानां लोकजीवनसंन्दर्भाणां सारभूतं भावार्थं निजवाचा यदि निरूपयेत्तर्हि कार्यस्यास्य साधनशक्तिः प्रतिभेति गीयते । निर्विशिष्टस्तु नरो बहिरङ्गजीवनप्रश्नेभ्यः  स्वीयबहिरङ्गविधिना प्रत्युत्तरीति । कविस्तु न तथा । लोकान्तरङ्गजीवनं सम्यगुत्तरीतुं तस्यान्तरङ्ग एवालम् । सामान्यमानवापेक्षया कवौ संवेदनशक्तिर्व्यञ्जनशक्तिश्च समधिकतया भवत इति निश्चप्रचम् । तादृशी विशिष्टा शक्तिः प्रतिभा [1]

हृदयं नाम नरस्यान्तरङ्गे स्थितमनुभवस्थानम्। हर्ष-शोक-प्रीति-उत्साह-भय-क्रोधात्मकानां मनश्चलनानां समेषां हृदयमेवाधिष्ठानम् । लोकसम्पर्कवशादुत्पद्यमानयोः साफल्यवैफल्ययोरिह भुक्तिर्हृदयाधीना ।

रसो नाम रुचिः, आस्वादः  (“रस आस्वादनस्नेहनयोः” )। स एकश्चित्तावर्जकसामर्थ्यवान् गुणविशेषः । स एव गुणः कस्मिंश्चिद्वस्तुनि वर्तमानः सन् तमास्वाद्ययोग्यं विदधाति । तेनैव हेतुना तद्वस्तु नः प्रीतिपात्रतां भजते । यथायोग्यं च तद्विषयेऽस्मासु पिपासा, बुभुक्षा, जिघृक्षा वा समुत्पद्यते ।  फलरस इति श्रवणानुपदमस्माकं मनःपटलं नायाति तस्य द्रवत्वं वा घनत्वं; तस्याकृतिर्वा वर्णविन्यासः; अपि तु तस्य रसनासौख्यविधायिका शक्तिरेव । सैव तस्य रसः । अतः सुखजनकगुण एव रसः ।

सुखोत्पत्तिः कुतः? भोजनसुखस्योत्पत्तिर्भोज्यवस्तुन्यस्ति वा, उत भोजनसाधने भोक्तृमुखे ? उभयत्रापि न । तयोः संयोग एव रुचिप्रतीतिः । तस्मादाहाररुचेस्तदाहारिणो रसनायाश्च संयोगः सम्भवेत् । तेनोत्पद्यते भोजनसुखम् ।  तथैव काव्यसन्दर्भे कविवचनेन सह सहृदयहृदयसंयोगाद्रसानुभवो भवति । कवि-सहृदययोः परस्पारानुगुण्यमेव संयोगममुं परिपुष्णाति । यथा दाम्पत्ये पतिपत्न्योरानुगुण्येन जीवनस्वारस्यं वर्धते तथैव काव्येऽपि कवि-सहृदययोः परस्परस्वभावसंमेलनेन सुखानुभवस्य पौष्कल्यम् । ताभ्यामवश्यं  मनोधर्मम्, अभिव्यक्तिरीतिं, सन्तोषस्थानं च मिथोऽवगाह्यानुसर्तव्या, येन रससन्धिरुदेति । यदि रससन्धिर्न भवति तर्हि परस्परसंवेदनाकिञ्चन्यमेव हेतुः । आकिञ्चन्यमिदं पुनः कवौ स्यादथवा सहृदयेऽपि । कदाचिदुभयत्रापि । तद्व्यतिरेकेण यदा कवि-सहृदययोरन्तरङ्गसन्धिर्भविता तदैव रससिद्धिरपि सम्पद्यते । निश्चयेनासौ रससिद्धिः पुण्ययोगः ।

उपनिषत्प्रतिपादितं संहितापञ्चकं प्रपञ्चप्रकृतेः केन्द्रस्थानीयम् ।  संहितानामेतासामुत्पत्तिर्भगवल्लीलेति हेतुना ताः किल महासंहिता इति कीर्तिताः । एतद्व्यतिरेकेण सन्ति केचन गीत-चित्र-काव्यादिकलानिर्मिताः कर्तृ-भोक्तृसंबद्धाः पौरुषेयाः प्रकल्पाः । एते हि प्रकल्पाः कर्तृतन्त्रवलयविलीना इत्यनेन तन्निर्मितयो लघुसंहिता इति संज्ञिताः । महासंहितास्तु स्वशक्त्यैव निरन्तरं निरन्तरायं च प्रसरन्ति । परं तु सर्वाश्च लघुसंहिताः पुरुषतपःफलनियन्त्रिताः । यदा तपो नश्यति तदैव ता अपि विलयं यान्ति । एवं  काव्यरचना, काव्यप्रसारः, काव्यसुखानुभवश्च सुकृतयोगाः। इदमेव हि स्महर्षिणां मतम् ।

“एकः शब्दः । सुप्रयुक्तः । सम्यञ्ज्ञातः । स्वर्गे लोके कामधुग्भवति ।”

[1] Fine poetry, I think, is indefinite. In the sense that its language has a vague suggestiveness, on which its virtue largely depends and which disappears in a paraphrase. But this suggestiveness or untranslatable ‘meaning’ attaches to a definite mental matter, namely images and thoughts, the outlines of which should be clear to us, however little we may be able to exhaust their significance. We read for the most part half-asleep, but a poet writes wide awake. His thoughts may be unlike logical statements, and his images may conflict, but they are there and all alive; and our business is to recreate them. We are much mistaken when we foist upon him the misty generalities which his words at first may convey to us. There is no poetry in this indefiniteness, there is simply feebleness of imagination.

– A. C. Bradley in ‘A Commentary on Tennyson’s In Memoriam’ (1902)

The original essay “ಸಾಹಿತ್ಯ ಸಂಹಿತೆ” appears in the author’s anthology ಕಾವ್ಯಸ್ವಾರಸ್ಯ, published by Kavyalaya, Mysore in 1975.

Translated from the original Kannada by Shashi Kiran B N.

D V Gundappa sahitya meaning साहित्यसंहिता d v gundappa

D V Gundappa

Devanahalli Venkataramanayya Gundappa (1887-1975) was a great visionary and polymath. He was a journalist, poet, art connoisseur, philosopher, political analyst, institution builder, social commentator, social worker, and activist.
D V Gundappa sahitya meaning साहित्यसंहिता d v gundappa

Latest posts by D V Gundappa (see all)