...
 

॥ ऋतं सत्यं तथा धर्मः॥

This article is part 1 of 3 in the series Rta Satya Dharma


सामान्यतया वदामः किल वयं लोके “इयमस्माकं प्रकृतिः,” “तत्तस्य नैजम्,” “इदं मे नैजम्” इत्यादीनि वचांसि। कोऽसौ प्रकृतिः? किं नाम नैजम्? आ जनेर्मानवेषु समन्विता भवन्ति केचन पदार्थाः, काश्चन शक्तयो गुणप्रवृत्तयश्च। मानवेन कथं वेदं वस्तुजातं समासादितम्? येन केनापि विधिनेति वक्तव्यम्—जन्मान्तरेण जातं, वरत्वेन लब्धं, पूर्वकर्मफलरूपेण संप्राप्तं वा। यत्किमपि भवतु नाम। निष्कर्षस्तावदयं यन्मनुष्यस्य जन्मावसर एव तत्तस्य सहजातम्। इदमेव हि तस्य नैजम्। नैजस्यास्य “प्रकृतिः,” “स्वभावः” इत्यादीनि सन्ति नामान्तराणि। कर्मेन्द्रियज्ञानेन्द्रियादयः सर्वेऽवयवास्तदिन्द्रियशक्तयश्च, मनोबुद्धिप्रमुखा अन्तरङ्गशक्तयोऽपि—एकीभूय समवायविधिना मानवप्रकृतिं सर्जयन्ति। अन्तरङ्ग-बहिरङ्गशक्तीनामेतासां सकलाः खलु क्रिया अधो दत्ते गुणत्रितये कस्मिंश्चिदवश्यमन्तर्भवन्ति –

  • भद्रं, सुन्दरं, मितवेगयुतम् – सत्त्वगुणः,
  • अविशिष्टम्, अनिश्चितं, जवाधिक्यान्वितम् – रजोगुणः,
  • अशुभं, मलीमसं, मन्दम् – तमोगुणः

इमा गुणशक्तयः सर्वेष्वपि मानवेषु विविधप्रमाणेन भवन्ति। प्रमाणवैषम्यमिदं तु स्वाभाविकम्। एवं गुणशक्तयो जन्मजाताः। किं तर्हि मानवेन सस्वतन्त्रं किमपि न कर्तुमुचितम्?

सत्त्वगुणस्य तारतम्यप्रवृत्तयस्तथा विवेकरूपिण्यो मनोबुद्धयः सर्वेषु भवन्त्येव। किं च सन्दर्भानुसारं ताः प्रवृत्तय उच्चावचतां भजन्ते। कदाचिदुकृष्टाः, कदाचिच्च निकृष्टाः। सिद्धान्तस्तावदस्ति यद्विवेकशक्तेरुत्कर्षस्थितिरेव प्रगतिपथपाथेयभूता सर्वाभ्युदयसहकारिणी। इदमेव हि सत्त्वबीजमिति निगद्यते।

अपि को नाम लोकजीवने मानवस्य नितरां श्रेयस्करः? उच्यते। स्वकीयो विवेकः। न कस्मिन्नपि जने विवेकोऽयमसिद्ध इति वक्तुं शक्यम्। मनाङ्मात्रमपि वा सर्वेष्वयं दरीदृश्यते। विवेकस्यास्य संवर्धनाय सर्वैरपि लोकैः सावधानं यतनीयम्। विवेकप्रबलीकरणविधावस्मिन्मानवः किल स्वतन्त्राधिकारी। अयमेव हि प्रकल्पस्तस्य प्रकाशावकाशः। उदिते सति विवेकविवस्वति श्रेयःप्रत्युषसि भव्योज्ज्वलगभस्तयः सर्वत्र विकिरन्ति।

अत्रायं सङ्क्षेपः—ऋतश्रद्धया सत्यनिष्ठया चास्माभिः स्वात्मसूर्योदयप्रभामक्षिलक्ष्यीकर्तुं शक्यते। नान्यथा सर्वथापि।

भगवान्ननु चैतन्यात्मको जगदीश्वरः[1]। भगवत्तत्त्वप्रत्यभिज्ञानाय सन्ति नैके मार्गाः। तल्लक्षणानि च बहूनि द्योतन्ते। परं न केनापि लक्षणेन भगवत्तत्त्वं कार्त्स्न्येन प्रकटितम्। अगणितगुणगणघने खलु भगवति भवन्ति सर्वे गुणाः। एतेषु कदाचन परस्परवैरुद्ध्यमपि दृश्येत। गुणेष्वेतेषु पुनरस्मदिष्टा अपि राजन्ते, यानेव वयं प्रत्येकतया सविशेषं व्यवहरामः—

  • सत्—अस्तित्वम्,
  • चित्—ज्ञानम्,
  • आनन्दः—सन्तोषः

अस्तित्वमेव हि सर्वप्रथमम्।

यदा किमपि वस्तु सद्भावं भजते, तदैव ननु तद्विषये जिज्ञासापि प्रवर्तते। न हि कदाप्यसद्वस्तुमीमांसा केनापि क्रियते। कश्चनास्यां दिशि प्रसरेद्यदि प्रयत्नस्तस्य भृशं विपिनविलपितायते।

सच्छब्देनात्र सार्वकालिकं सार्वदेशिकं च केवलास्तित्वं विवक्षितम्। अस्तित्वेनैव हि “आस्तिक्यम्” उत्पद्यते समूह्यते च। आस्तिक्यं नामास्तित्वस्य नितान्तमङ्गीकरणम्। तदेव भगवदङ्गीकरणम्। अस्तिभावाधिगतं किमपि साधु भवेदसाधु भवेद्युभयथाप्यथवा। परं तस्यास्तित्वं न केनापि प्रतिषेद्धुमलम्। अपि च तद्वस्तु सर्वशक्तमिति साधारणो लोकवादः। इदमपि सत्यं खलु यत्तस्य संमुखीकरणाय सर्वे मानवाः प्रयतन्ते। सर्वशक्तस्य तस्य प्रसादनेनास्मकं मनोऽभीष्टं फलेग्रहि भवतीति भावना तु सर्वेषामपि लोकानां मनस्सु जायते। नैसर्गिकी चेयं भावना कस्यापि दाक्षिण्येन प्रचोदनेन वा नोत्पद्यते। तेनैव हेतुना भावनेयम् ऋतात्मिका। ऋतं हि श्रद्धासंपन्नम्। ऋतेन—भगवानस्ति सः सर्वशक्तः सर्वोदारश्च—इति श्रद्धा जागर्ति।

स्वातन्त्र्यमविहाय मनसा सर्वप्रथमं क्रियते यत्कर्म तदृतमिति गीयते। तदुत्तरमन्यानि बहिर्भूतप्रमाणानि तं द्रढयन्ति समर्थयन्ति च। “सत्यं” नामेदमेव समर्थनप्रमाणम्। अनेन हि ज्ञायते यदृतस्य सत्यस्य च संमेलनेन श्रद्धा सुस्थिरा भवति, चारित्र्यं च निश्चयत्वमधिरोहति। ऋतं नाम नैजप्रवृत्तिः स्वभावाभिव्यक्तिश्च। “ॠ—गतौ” इत्यनेन धातुना शब्दोऽयं निष्पद्यते।

मनुष्यजीवने प्रतिदिनमपि प्रतिनवप्रसङ्गा अभिनवसंनिवेशाश्च प्रादुर्भूय चिरनूतनप्रश्नानुत्थापयन्ति। प्रश्नस्येदृशस्य मानवमनसा कथमुत्तरं दीयते? तदुत्तरस्य किं प्रमाणम्? कः प्रवर्तयिता? का तर्कसरणिः? न खलु विज्ञायते; यतो हि नास्त्येव किमपि चोदनम्। प्रोत्साहनिरपेक्षेयं मूलप्रतिक्रिया मनुष्यस्य “ऋतम्”।

अन्तरङ्गाभिव्यक्तिरूपं तावदृतं बहिरङ्गप्रमाणैः सह प्रतोल्य कञ्चन निश्चयात्मकं तत्त्वं मानवो निर्मिमीते। तस्याभिधानं “सत्यम्” इति। ऋतमेव हि सत्यवृक्षस्यादिमूलम्। लोकसम्पर्कवशादृतं किल परिवर्तनमवाप्य सत्यात्मना प्रतिफलति। अस्मज्जीवनाचरणाय परमावश्यकज्ञानसम्पदि सत्यमग्रताम्बूलमर्हति। ऋतं सत्यस्य मूलम्।

एवम् ऋतसत्ये श्रद्धाजीवातुभूते। ऋतसत्ययोरसम्मतं कथनं कर्म च सर्वथा मृषाकल्पम्, अलीकं, मिथ्यात्मकं च। असत्यमनुगच्छत्सर्वञ्च मिथ्यायते। असत्येन च ध्रुवं विनाशः। अनेनैव हेतुना—“सत्यान्नास्ति परो धर्मः” इति स्मरणियं चिरन्तनवचनम्।

सत्यस्य मूलस्वरूपम् ऋतम्। ऋतान्नन्नु सत्यम्। अतो हि सत्यं नाम ऋतस्य समृद्धा दशा।

सृष्टेर्नैकविकाराकारनेपथ्ये कश्चन निर्विकार्यो नियमः क्रमो वा जागर्तीति श्रद्धा तु श्रुतिषु वैदिकसंस्कृतिसुप्रभातादपि दरीदृश्यते। भगवतश्चित्रभानोरुदयास्तेषु, सुधासूतेर्वृद्धिक्षयेषु, ऋतूनां पर्यायपातिषु गतिषु च क्लृप्तिः काचन नियतिः कापि च दृश्यत इति महर्षीणामपरोक्षमासीत्। तथैव जीवराशीनामभिवृद्धिक्रमे काचिद्व्यवस्था तेषां लोचनगोचरासीत्। सृष्टिसन्तानक्रमे कश्चन वंशवाहिनियमः परिपाल्यत इति साक्षात्कृतवेदानामुपज्ञा। यथा घासाद्घासः, वृक्षाद्वृक्षः, वीरुधो वीरुत्, नरान्नरः, मृगान्मृगः। न तु व्युत्क्रमो यथा नरात्तरुः, मृगात्खगो वा। एवमेव पाञ्चभौतिकव्यवस्थायामपि काचित्कार्यकारणनियतिरस्तीति तेषां मनीषा। प्रत्येकस्य भूतस्यापि निर्दिष्टं किञ्चन कर्तव्यमस्ति। नात्रापि क्रमातिक्रमः। न तोयं दहति, नाशुशुक्षणिः शिशिरयति, न सदागतिरचलस्तिष्ठति, नापि स्थिरा प्रचलति।

एवं चराचरजगतः स्थितिगतिषु भासमाना व्यवस्था वेदेषु “ऋत”संज्ञया व्यपदिष्टेति भाव्यम्। ऋतं नाम जगतोऽस्य नानाव्यापारव्यवहारेषु निलीनो निर्दिष्टोऽपरिहार्यो निष्प्रत्याम्नायः कारणकार्यानुबन्धः। वप्तमेव कृषिफलं, पक्वमेव भोजनम्। ईदृशः कार्यकारणसम्बन्धः—ईदृशमेव सान्तत्यम्—ऋतम्।

सर्वस्मिन्नपि वस्तुन्यात्मेति किञ्चिद्द्रव्यमन्तर्भूतमिति ननु वैदिकानां परमं मतम्। अत्मा त्वहमहमिति स्पन्दमानो जीवमूलविशेषः। अस्मिन्नात्मवस्तुनि सच्चिदानन्दा इति गुणास्त्रयः स्वयमेव समुल्लसन्ति। आत्मनो गुणा एते परमात्मनि च प्रभवन्ति। अत्र चिदिति व्यपदिष्टा चैतन्यशक्तिः समस्तलोकव्यवहाराणामादिकारणम्। अस्य चिदंशस्य स्वतःस्फुरणमेव ऋतम्। अतो हि ऋतमात्मनः स्वनिर्मितं स्वतश्चलनम्।

ऋतस्यास्य संवित्सम्भूता सत्यप्रतीतिः। यत्तु सर्वकालेषु सर्वावस्थासु च निरपवादमिवैकरूप्यं भजते तदृतम्। तस्मादेव नान्यप्रेरणापेक्षं, नान्यनिर्बन्धसापेक्षं, स्वतोवृत्त्या वर्तमानं शीलमृतम्। तदेव किल नैजं सहजं वेति निगदितम्। एतदेव प्राणिनां समस्तव्यापारवर्तनमूलभूतम्। वृक्षाय बीजमिव प्राणिने ऋतम्। प्राणिनां गुणशक्तिसर्वस्वमपि ऋते निक्षिप्तमित्यलम्।

एवं ऋतस्य सर्वकालविद्यमानत्वात् तत्सत्यमित्यपि निगद्यते। सत्यं नामास्तित्वसामर्थ्यवत्वम्। तन्नाम देशकालभेदपरिणामराहित्यम्। “अस्—भुवि” इति धात्वर्थानुसारं यस्य विद्यते सन्ततास्तित्वं तत्सत्यम्। यथास्तित्वमात्रमपि सत्यमिति व्यपदिश्यते, तथैव तस्य प्रामाणिकं वर्णनमपि तयैव संज्ञया व्यवह्रियते। यथास्थितं यथार्थत्वमपि भजते। अयमत्र निष्कर्षः—ऋतस्य वाग्रूपं सत्यं, सत्यस्य क्रियारूपं धर्मः।

धर्मो नाम यस्य कस्यापि वस्तुनो धारणगुणो रक्षणलक्षणं च। अतो हि धर्म एव तत्तद्वस्तुनः परमार्थं तत्त्वम् (तत्+त्वम्)। वदने लालाजलचोदनं लवणस्य धर्मः, स्पृष्टस्य निखिलस्यापि दहनं धनञ्जयस्य धर्मः, तृणचरणं गवां धर्मः, मांसभक्षणं तु द्वीपिनो धर्मः, विपुलाङ्गचेष्टा मर्कटस्य धर्मः, गाम्भीर्यं कण्ठीरवस्य धर्मः। एवमेव मनुष्येष्वपि प्रत्येकस्य वंशस्य प्रत्येकः कश्चन लक्षणविशेषश्चकास्ति। प्रत्येकस्यापि नरस्य प्रत्येको विशेषधर्मः।

अन्यप्राणिनामिव मनुष्याणां धर्मनिर्णयो न सुकरः। यतो हि मानवानां मतिः सकलप्राणिनां मनसोऽपेक्षया शक्तिमती स्वातन्त्र्याधिक्यवती च। सा तु स्वयमेव नैकानि रूपाणि धत्ते। तस्मात्तत्र धर्मसाङ्कर्यं सुतरां सुलभम्। अस्मात्साङ्कर्याद्विमोचनमेव मनुष्याणामाद्यकर्तव्यम्। इदमेव हि भगवद्गीतादिशास्त्रेषु निरूपितस्य स्वधर्मोपदेशस्य नेपथ्यम्।

एवम् ऋतं, सत्यं, धर्म इति त्रीण्यपि तत्त्वानि परमार्थतः परस्परं सम्बद्धानि। भारतीयेषु धर्म इति शब्दस्तेन ध्वन्यमानभावश्च यावत्प्राचुर्यमधिवसति न तावदन्येषु राष्ट्रेषु प्रसृत इति दृष्टचरः। सनातनभारतीयानां जीवननीतिसर्वस्वसङ्ग्रहभूतः खल्वनन्यशब्दो धर्मः। अस्य धर्मस्य परमाधिष्ठानम् ऋतम्।

टिप्पन्यः

[1] भगवत्तत्त्वकुतूहलिनः प्रस्तुतलेखकस्य “देवरु”संज्ञितं कन्नडभाषानिबद्धं पुस्तकं पश्येयुः।

To be continued.

This is a serialized Sanskrit translation of D V Gundappa’s Kannada monograph “Rta Satya Dharma” by Shashi Kiran B N.

Series Navigation ऋतं सत्यं तथा धर्मः — अर्थच्छायाः >>
D V Gundappa Rta ॥ ऋतं सत्यं तथा धर्मः॥ d v gundappa

D V Gundappa

Devanahalli Venkataramanayya Gundappa (1887-1975) was a great visionary and polymath. He was a journalist, poet, art connoisseur, philosopher, political analyst, institution builder, social commentator, social worker, and activist.
D V Gundappa Rta ॥ ऋतं सत्यं तथा धर्मः॥ d v gundappa

Latest posts by D V Gundappa (see all)