...
 

मानवस्य मूलभूतचोदनानुरोधं रस-पुरुषार्थसमीक्षणम्

तिर्यग्जन्तुभिः सह मानवः कतिपयांशेषु साम्यमावहति। आहार-निद्रा-भय-मैथुनानीत्येतानि सर्वजन्तुसाधारणानि; यानि मूलभूतचोदनानीति कथ्यन्ते। प्रथमं तावदेतेषां स्वरूपं परिशीलयामः।

आहार-मैथुनयोः प्राप्तिर्भयनिवृत्तिश्च विनापवादमन्याश्रिते। आहारो नामास्मद्भिन्नः पदार्थविशेषः। तदवलम्बनेन हि बुभुक्षातृप्तिः। एवञ्च नैकेषु सन्दर्भेषु बुभुक्षापूरणाय पाचकाः पाकसाधनसामग्र्यश्च खल्वनिवार्याः। तस्मादाहारोऽयमन्याश्रितः। मैथुनमप्यन्यावलम्बीति तच्छब्दार्थ एव बोधयति। मिथो भावस्तु मैथुनमिति विवरणात्। सफलं समृद्धञ्च मैथुनं मिथुनाश्रितम्। एकाकिना नालमत्र सर्वथा। अपरमथ विवेचयामस्तावन्मूलभूतचोदनं भयाख्यम्। भयकारणं परायत्तमित्यत्र न विदो विवदन्ते। अन्यच्च भयनिवारणं बहुधा पराधीनमेव कर्म। एतदर्थमायुधादीन्युपकरणानि कदाचिदपेक्ष्यन्ते मनुष्यसाहाय्यं विनापि। इदमत्र तात्पर्यं यदाहारमैथुनभयानां निर्वाहः सुतरां परायत्तः। परन्तु नैषा कथा निद्रायाः। सन्दर्भेषु बहुषु प्रच्छदोपधानादिपरिकरनिरपेक्षमपि नितरामनुभूयते निद्रासुखम्। अतो हि निद्रा नामाऽत्मावलम्बनद्वारा लभ्य आनन्दः।

अथ पुरुषार्थमीमांसा। सर्वविधार्थप्राप्तिप्रतीकमिव परिकल्पिते तावदाहारसञ्चये को वात्र भावः प्रस्फुटमाविर्भवति? उत्साहः। यः खल्वर्थसाधकेषु भावेषु प्रमुखो बाभाति। कामाख्यस्य पुरुषार्थस्य चरमसाधनभूतं हि मैथुनम्। मैथुने तु रतिभावस्य प्राधान्यं सुविदितम्। एतयोः काचन रक्षा व्यवस्था च यदीहिता तर्हि धर्मोऽनुल्लङ्घ्यः। स च पुनरुत्साहाधीनः। भयनिवृत्त्यर्थमप्युत्साह एवाश्रयणीयः। अनेन हि गम्यते यदिष्टप्राप्त्यर्थमनिष्टनिवृत्त्यर्थञ्च परमं साधनमुत्साहः। एष एव सकलसाधनभूतोऽर्थः। निद्रा तु नैवं नैकपरिच्छेदपरिच्छिन्ना। आनन्द एव निद्रा। सत्यामप्यीदृश्यां स्थितौ निद्रा हि तत्त्वतो नैव साक्षान्मोक्षः। सा केवलं मोक्षसदृक्षा दशा। यतो हि निद्रावस्थायामयत्नसिद्धा या निरुपाधिकता जाग्रदवस्थायां सहसैव सा तिरोभवति। निद्रावधौ निर्यत्नसिद्धा निरुपाधिकता यदा जाग्रदवस्थायामपि सप्रयत्नं साधिता तदा हि जीवन्मुक्तिः संसिद्ध्यति। एवं सकलप्राणिनां मूलभूतचोदनादिभ्य एव पुरुषार्थचतुष्टयं शक्यं निष्पादयितुम्।

इह खलु जीवने समेषां लोकानां कानिचिदिष्टानिष्टानि भवन्ति। इष्टं तावद्भोगरूपं यत्प्रीतिमेवोत्पादयति मनसि; अनिष्टं तु वियोगरूपं यद्भीतिमेव हृदि जनयति। भोग एव स्वीयोत्कटदशायां रतिः। यस्यां पुरुषार्थीकृतायां कामसम्भवः। काम एव कलानुभवकाले शृङ्गारः। अनिष्टात्मिका भीतिस्तु क्रोधमूला सती सर्वदा नः शोके निमज्जयति। इष्टवर्गे तु रत्युत्साहविस्मयहासकुतूहलवात्सल्यादयो भावाः सञ्जायन्तेऽस्मासु। द्विष्टवर्गे च भयजुगुप्साक्रोधशोकादयः। ईदृशां भावविकाराणामतीता काचिदुदासीनस्थितिरेव शान्तिसंसिद्धिकारिणी।

इष्टे वस्तुनि भोगो हि रतिः। तत्साधनार्थं क्लृप्तः कर्मोपाय एवोत्साहः। रत्युत्साहयोः कश्चनोत्कर्षप्रभवो हासः। वात्सल्यापरपर्यायः स्नेहस्तावदस्मदिष्टेषु वस्तुव्यक्त्यादिषु प्रकटीकृता प्रीतिः। लालनात्मकं हि वात्सल्यम्। अस्मदिष्टवर्गे कष्टक्लिन्ने सति तद्दुःखनिवारणार्थं या सहानुभूतिसम्पन्ना भावना जागर्ति सा हि कृपापराभिधाना दया। नैषाऽस्मन्निर्वृतिं हिनस्ति। कुतूहलस्त्वपरो भावः। यदा वयं सुखान्वितास्तदा ये वस्तुव्यक्तिविचारादयोऽस्मद्रुचिं चोदयन्ति, तदर्थं विधीयमानान्वेषणस्य मूलं कुतूहलभावः। अयमत्र सङ्क्षेपः—इमे भावा अस्मदस्तित्वरूपमहङ्कारं विकसय्य तद्द्वारा सन्तोषमुत्पादयन्ति।

नैवंरूपिणी विस्मयवार्ता। प्रकृति-संस्कृतिभिः सहास्माकं नैकव्यवहृतिभिर्विरचितः, स्वयंप्रेरणयैव निजाहङ्कारविदलनपरिणामसाधकः सन्नपि विस्मयो जनयति सार्थक्यं सन्तोषञ्च नितान्तम्। अत्र कारणं हि स्वप्रेरणया कृतं यत्तात्कालिकमप्यहङ्कारस्य विलयनं ह्रसनं वा। यदि कर्मेदमन्यचोदनामूलं तर्हि विस्मयेन खलु तादृशेन सुखावाप्तिर्न स्यात्। अतो हि विस्मयः कश्चन विलक्षणो विभूतिपूजापरिणामः। परिभाविते सति विस्मयेऽतिवेलमुत्साहोऽपि प्राप्तोत्कर्षः प्रवर्तते। उत्साहः पुनर्विस्मयकारकाणां वस्तु-व्यक्ति-विचार-संनिवेशानां मर्म भेत्तुं चोदयति कुतूहलभावम्। अनया हि  रीत्या स्वप्रयत्नेषु कृतार्थौ कुतूहलोत्साहौ पुनरपि भोगात्मिकायां रत्यां पर्यवस्यतः। अकृतार्थौ चेत्तदा भय-शोकादीनुत्पादयतः।

अथ भावानां जन्य-जनकसम्बन्धो मीमांस्यते। रति-जुगुप्से, उत्साह-भयौ, क्रोध-शोकौ, हास-विस्मयौ—इमे पायेण मिथः परिशीलनमर्हन्ति।

रति-जुगुप्से। अस्मिदिष्टसर्वस्वस्य परमोत्कटरूपा रतिः; द्विष्टजातस्य सकलस्यापि चरमदशा जुगुप्सा। तस्मादस्य प्रतिकोटित्वेन विद्यमानो विरागः सर्वथा जगद्भोगान्न सहते, तेभ्यश्च विजुगुप्सत इति वेदान्तशास्त्रसमयः। इदमपि सत्यमेव यज्जगति विद्यमानेषु सकलेषु वस्तुषु समस्तानुभवेषु च यदि रतिरुदीयात्तर्हि सा परिणामतः परमप्रीतिरूपा चित्तपरिपाकमुत्पाद्य वैराग्यार्हतामनुगृह्णाति। नूनं विचित्रा हि विधेर्गतिः। अत एवाह तत्रभवान्नीलकण्ठदीक्षितः—

“त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ।
कर्तव्यो ममकारः किन्तु स सर्वत्र कर्तव्यः॥” (वैराग्यशतकम्, ७६)  

उत्साह-भयौ। उत्साहस्तावदुदयोन्मुखो विकासरूपो धृतिमांश्च। किन्तु भयः सर्वथा कर्तव्यविमुखः कौरुकुचीकदर्थितो धैर्यावष्टम्भविरहितश्च। अतो हि नाट्यशास्त्रे निगदितम्—उत्साहस्तावदुत्तमप्रकृतीनां प्रधानं लक्षणम्; भयश्चाधमप्रकृतीनामिति। परमिदमत्रानुसन्धेयम्। सर्वेषु भवन्त्येव भावाः सकलाः। तत्र क्वचित्प्रमाणवैपरीत्यं स्यात्। एतस्मिन्नंशेऽनङ्गीकृते सति कलावैविध्यहानिर्जायते; मातृकीकरणं (Typification) चातिमात्रं लालसीति।

क्रोध-शोकौ। अतृप्तः कामः किल समर्थस्य क्रोधात्मना परिणमति; असमर्थस्य तु शोकीभूय विलुठति। तथा च यदि समर्थस्य कस्यचन क्रोधः कञ्चनासमर्थमुपयाति, तर्हि शोक एव शरण्यो नितरामसमर्थस्य। अतो हि स्फुट एवानयोर्जन्य-जनकसम्बन्धः।

यदा सामार्थ्याभावः स्वेष्टनाशचिन्ता च नास्ति तदा शोकः समासादितप्रीतिरूपः स्नेह-दया-वात्सल्यादिभावमृच्छति (अमरकोशो हि करुणपर्यायेण घृणाकृपादयानुकम्पादीनपि गणयति [१.२२६]। नेदं युक्तियुक्तं समीकरणम्। तथापि न सर्वात्मना हेयम्)। अत इमे भावाः स्वतन्त्रतया रससिद्धिमधिगन्तुं समर्था इत्यपि शक्यं वक्तुम्। अमी हि वात्सल्यापरपर्यायस्य प्रेयोरसस्य मूलभूताः। शोकभावादेते भिद्यन्त इति निशितपरामर्शनेन ज्ञायत एव। रससङ्ख्यामीमांसने विहिते विश्वजनीनानुभवानुसारमिमे खल्वंशाः सुतमां परिशीलनीयाः। अवसरेऽस्मिन्नुल्लेख्यः स्वोपज्ञो रसः। यो हि कुतूहलस्थायिभावसमुद्भिन्नो धीररसः। स्वीयपर्यन्तदशायां कुतूहल एव लोकहितमात्महितञ्च सिसाधयिषुर्जिज्ञासारूपेण कृतावतारो भवतीति स्वसंविद्रसिकानामपरोक्षम्। तदिदमस्माभिरन्यत्र प्रतिपादितमिति सम्प्रति विस्तराद्विरम्यते।

हास-विस्मयौ। परस्थरूपिणो हास्यस्य प्रवृद्धाहङ्कार एव जीवातुः। विस्मयस्तु परं स्वयंप्रेरिताहङ्कारविलयनेन विद्योतितो भावः। हास्ये यद्विजृम्भते बुद्धिप्राबल्यं तद्विस्मये स्तोकमपि नोत्पतिष्णु। आत्मस्थहास्ये तु न तथा। तत्र स्वाहङ्कारखण्डनमेव प्रथमः कल्पः (अत्रेदं वक्तव्यं यत्प्रकृतलेखकस्याऽत्मस्थपरस्थहासविवरणं किञ्चिदिव भरतमताद्व्यत्येति। एतदनुसारमात्मस्थहासो नाम निजप्रेरणया स्वमेव हास्यविषयतां नयनम्। परस्थहासस्तु स्वभिन्नेषु वस्तुषु व्यक्तिषु वा लघुलोपदोषप्रतिक्रियात्मना जायमानः। अत्र तावदस्मदुपज्ञः प्रबन्धः परिशीलनीयः <http://prekshaa.in/hasya-rasa-aesthetics-sanskrit-bhava-emotion-mood/#.Ws5gnpclFPY>। विस्मयोऽपि पर्यन्ततः स्वाहङ्कारविलयनमेवेष्यति। विशिष्य विभूतिदर्शनाद्यो जायते विस्मयः स किलावश्यमात्मसमर्पणात्मकः।

अमी सर्वे च भावाः क्वाचित्केन योगि-प्रतियोगितया भासमाना अपि परमोत्कटरसस्थितावखण्डा एव। तदा तावदिमे शान्तरसपदमञ्चन्तीति सौन्दर्यशास्त्रस्य स्वारस्यातिशयम्। प्रथमे स्तरे यद्विद्यते भावानामनन्यत्वं तत्तु द्वितीये स्तरे सम-विषमभेदविलयने पर्यवस्यति। चरमस्तरे तु सकलाः खलु भावाः परमैकघनरूपेण परिणमन्तीत्यहो रससिद्धान्तस्य निरुपमसिद्धिः!

रससङ्ख्यामीमांसा हि नितरां संशयभूमिः। आ रुद्रटाज्जगन्नाथपर्यन्तं यो बुद्धिव्यवसायो विहितस्तेन निर्णयात्मकं फलं पौष्कल्येन नोत्पादितमिति खेदास्पदं वास्तवम्। “अयं तु प्रत्नोदन्तः; उच्यतां तावन्नवीनविचारः। आधुनिकैः किमु नात्र कर्मानुष्ठितम्?” इति चेदुच्यते। वेङ्कटराघवः, रामचन्द्रशुक्लः, नगेन्द्रः, पुल्लेलश्रीरामचन्द्रुडुवर्यः—एतादृशा आधुनिकविद्वांसः सोत्साहमस्यां दिशि कृतपरिश्रमाः। तथापि नयनपथं नावतरति क्षोदक्षमं तर्कसहिष्णु च प्रज्ञाफलम्। अत्र विशिष्य स्नेह/वात्सल्य/प्रेयोरसस्य, तथा च भक्तिरसस्य विषये भिन्नाभिप्रायाणां भूयस्त्वम्। अतिमात्रं चोद्यमिदं यदालङ्कारिकाः केचन भरतोक्तास्तावदष्टौ नव वा रसा इति कारणेनैकेन  रसान्तरसम्भवनीयतां न्यक्कुर्वते। न केवलं प्राञ्चाः परमाधुनिका अपि जीवभावसंवेदनं परमप्रमाणत्वेनानङ्गीकुर्वाणाश्चर्वितचर्वणे बद्धस्पृहाः सर्वथा। मनागपि नैतैः प्रकटीक्रियते तर्कशुद्धविचारसरणिः। मनश्शास्त्रादितात्कालिकप्रमेयानाश्रित्य संशोधयन्ति नवीनाः पण्डिताः। अनेन हि दोदूयते साहित्यसरस्वती।

प्रकरणमिदं कार्त्स्न्येन विवेक्तुं नात्रावकाशः। दिङ्मात्रमिव प्रस्तूयते किमपि मतिमथितम्। विदाङ्कुर्वन्तु विपश्चिदपश्चिमाः।

भक्तिः। भक्तिर्भावो रसो वेति विचिकित्सा। केचन प्राञ्चा हेमाद्रि-मधुसूदनसरस्वती-रूपगोस्वामिमुख्याश्च नव्या नगेन्द्रादयः (प्रायेण) भक्तिं रसं मन्यन्ते। किञ्च जगन्नाथादयः प्राञ्चा राघवादयो नव्याश्च न तथा। वयं तु भक्तिं रसत्वेन न मन्यामहे। आस्तां नाम भक्त्यां पराकाष्ठा दशा चर्वणायाः। परं शुद्धसहृदयदृष्ट्या भक्तिर्न कदापि रसत्वमधिरोहति। रससिद्धान्तेऽधिकारो न देवभावप्रियम्भावुकस्य नवविधभक्तिप्लावितस्य वा भक्तस्य। अत्र केवलं सहृदयस्यैव साम्राज्यम्। अपि च भक्तिर्न नैसर्गिकी। सा तु संस्कारसम्भूता काचिद्भावना (Cultivated Feeling)। अन्यच्च भक्तेः स्थायिभावः क इति नाद्यावधि विनिश्चितः। यतो हि भक्तिः परप्रत्ययनेयबुद्धिरिव सर्वदा भावानपराननुरुद्ध्य सिद्धये यतते। महाजनसमूहे विहरन्ती कापि त्रपाकुलेव बालिका सन्ततं निजधात्रीकरकीलिता, भक्तिरपि रसिकसन्दोहे रत्यादिभावधात्रीरुरीकुरुते। अपरिष्कृता भक्तिः स्वीयतिर्यगवस्थायां भयशोकसमुद्भवा। अत एव सा प्राकृता।  विकसिता भक्तिर्न तथा। सा हि नितरां दयावात्सल्यमयी रत्युत्साहपूर्णा च। तस्मादेव संस्कृतेति तां व्यपदिशन्ति। संस्कृतं सम्पन्नमपि भावजातमश्वतरजीवितमिव सर्जनशक्तिरहितं सीदति। अत एव भक्तिभावो रसत्वं नाधिगच्छति।

तथा च भक्तेः सार्थक्यं सौन्दर्यञ्च रसानामन्येषामुपजीवित्वेन वर्तनेऽस्ति। यथा मधुरभक्तिः शृङ्गारोपजीविनी, वीरभक्तिस्तु वीरोपजीविनी, दास्यभक्तिश्च करुणोपजीविनी। नायं निश्चयः प्रत्याख्याति भक्तिपारम्यम्। आत्मविकासिनि मार्गे महती खलु भक्तिप्रसक्तिः। किञ्च साधनमिदमागमिकं सर्वथा रहस्यमैकान्तिकञ्च। परन्तु रसास्वादनं तावत्सदस्यमनैकान्तिकं ननु। साधारणीकृता एव हि भावा रसत्वमञ्चन्तीत्यत एव निश्चितः। भक्तस्य हृदयसंस्कारः काव्येतराभ्यासवासितो भवतीति च सद्यःपरनिर्वृत्यैकप्रयोजनबाह्योऽपि भवतीति हेतुना भक्तेर्भावस्य न साधारणीकरणक्षमता। परं भगवद्भागवतयोः सन्धानरूपिणी सा शक्तिरसाधारणधारणा। अत्र निदर्शनरूपेण तन्त्रशास्त्रीयमुद्राणां नाट्यशास्त्रीयहस्तानां प्रसक्तिः संस्मार्या। मुद्रा तु निजनाम्नैव सर्वलोकानां निरोधरूपिणीत्यवगम्यते। हस्तास्तु वितरणशीलतां निजनिरुक्त्यैव ध्वनन्तीति तेषां लोकानुरोधिता सिद्धा। एवमहं ब्रह्मास्मिरूपेण मुद्राणां वा भक्तिभावस्य मतिः प्रसरति; सर्वं खल्विदं ब्रह्मेति तत्त्वेन हस्तानां वा भक्तीतरभावानां गतिः प्रचलति। इत्थं पौनःपुन्येन भक्तेर्वैरस्यमेव सौन्दर्यजगति प्रतिभातीत्यलमतिविस्तरेण।

वात्सल्यम्। अभिनवगुप्तस्तु वात्सल्यं रतावुत्साहे वान्तर्गतं मनुते। उच्यते तेन यत्सुतानां जननीजनकप्रीतिस्तावद्भयमूला, युवकयुवतीनां वयस्यप्रीतिरवश्यं रतिमूला  ,स्नेहश्च प्रबुद्धानामुत्साहमूलो धर्मवीरे पर्यवस्यतीति। नेदं विवरणं साहित्यशास्त्ररसिकानां तृप्तये वापि तुष्टये। न कोऽपि लब्धवर्णो निराकरोति रत्युत्साहयोर्महतीं जीवनव्याप्तिम्। इयं हि सुकरमनुमीयते तयोस्त्रिवर्गप्रदिपादकसामर्थ्येन। परं व्याप्तिरेव नालं भावस्य कस्यचन रसत्वप्रतिष्ठापनाय। किं ते भावा जीवसहजा इति प्रमुखः परिशीलनीयोंऽशः। मितव्याप्तयोऽपि रौद्र-बीभत्स-भयानकादयो रससिंहासने ध्रुवं प्रतिष्ठापिताः। अत्र तेषां जीवसहजतैव कारणम्। एवञ्च हास्यम्। पुरुषार्थप्रतिपादनावसरे नितरामसमर्थमपि हास्यं मानुषसहजं सार्वत्रिकञ्चेति हेतुना रस इति गण्यते।

एवं परिशीलिते सति ,रतिभावस्य तृप्तीकरणसामर्थ्यं प्रगाढञ्च मनोवाक्कायव्याप्तित्वमवगम्यते। अथ च विमर्शनार्हं भावद्व्यं यद्रतिसम्बद्धमपि कमपि वैशिष्ट्यमातनोति। सर्वजीवसाहजिकी सिसृक्षा ,तथा च विकसितजन्तुषु दृष्टिगोचरा सन्तानपालनप्रवणता। यद्यपि सिसृक्षा रत्या एवाङ्कुरीभवति तथापि रतिभाव एव सिसृक्षां पोषयतीयत्र नास्ति विप्रतिपत्तिः। यतो हि सर्वेषु जीविषु विनापवादं विद्यमाना जिजीविषा मरणस्यानिवार्यतामभिज्ञाय ,परम्परानित्यत्वन्यायानुसारं सन्तानोत्पादनेन स्वात्मानं कृतार्थं मनुते। अर्थात्  ,सिसृक्षया हि जिजीविषायाः परमार्थप्राप्तिः। सिसृक्षायै ननु रतिरनिवार्या। एवं सन्ततिपर्यवसायिनी रतिः कदाचिदुपकरणरूपिणी कदाचिच्च मूलाधारस्वरूपिणी। अयं हि न्यायः    स्नेहमीमांसनेऽपि सङ्गच्छते। मैथुनयुता प्रीतिरेव रतिः ;तद्विरहितं हि वात्सल्यम्। तन्नाम  ,रत्या अपहृते सति मैथुनांशे सैव वात्सल्यमिति निगद्यते। रति-वात्सल्यभावयोरेतयोः सम्बन्धनैकट्याद्दुश्शकस्तद्विवेकः। तथापि स्वानुभवनिष्ठविधिना विमृष्टे तदिदं विज्ञायते। सर्वेषामपि जीविनां सख्यं परमावश्यकम्। दुरापनेयश्च सम्भोगः। पर्यन्ततः सख्यस्यैवावस्थाविशेषः सम्भोगः। अवश्यं मननीयं तथ्यमिदं यत्सर्वे जीविनः संस्कार-विधि-निषेधादिव्यवस्थायाः पूर्वमात्मजेष्वेव स्नेहं रतिञ्च साधयन्ति स्मेति। एवञ्च सन्त्यन्यान्युदाहरणानि। यथा केचन जन्तवो मैथुनोपफलभूतां सन्ततिं जनयित्वा ,तस्यां पालनप्रीतिमप्रकटयन्तो रतिमेव कामयन्ते साधयन्ति च। गमकेनानेन गम्यते यदन्ततः स्नेहो रतेः कश्चन विभागविशेषः। नायं स्वतन्त्रः सर्वथा। तस्माद्वात्सल्यं “उपरस” इति व्यवहारमर्हति। नासौ स्वतन्त्रो रसः।

Shatavadhani Dr. R. Ganesh Rasa मानवस्य मूलभूतचोदनानुरोधं रस-पुरुषार्थसमीक्षणम् r ganesh

Shatavadhani Dr. R. Ganesh

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.
Shatavadhani Dr. R. Ganesh Rasa मानवस्य मूलभूतचोदनानुरोधं रस-पुरुषार्थसमीक्षणम् r ganesh