...
 

दिवः कान्तिमत्खण्डमेकम्—मेघदूते उज्जयिनीवर्णनम्

कविः कालिदासः

सोऽयमत्र विहितः कविकुलगुरोः कालिदासस्य काव्यसौन्दर्यसौविध्याविष्कारात्मकः प्रकल्पः। एष पुनरखण्डानन्दप्रदानपटुं खण्डकाव्यप्रवेकं मेघदूतं विषयीकृत्य कल्पितः। सत्यमेव; कालिदासवाङ्मयस्य नूतनविमर्शः प्रायेण वितथः प्रयासः। तथापि महाकवेरस्य वचोविच्छित्तिर्मां निजास्वादप्रकटीकरणाय मुखरीकुरुते। स्पष्टमेव मन्ये चापल्यचोदितमिदं कर्मेति। कुतोऽस्य पिपठिषाऽपेक्षिता वाचकानाम्? इति प्रश्नः समुदियत्। इदमस्तु कालिदासमुखेनैव समाधानम्—

“प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात्।
शृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य॥” (विक्रमोर्वशीयम्, १.२)

कालिदासः किंस्वरूप आसीत्? न खलु शक्यं तस्य जीवनकर्मादिमर्म भेत्तुम्। प्रमाणाभावात्। किं च तत्काव्याध्ययनेन मनोधर्मं तस्यावगन्तुं पार्यते। अत्र तावदभिज्ञानशाकुन्तलरूपकान्तर्गतं पद्यमेकं यच्छति विपुलं साह्यम्। मारीचाश्रमे कृतवास्तव्याः केचन मुनयस्तीव्रं तप आचरन्तो नयनपथमवतरन्ति दुष्यन्तस्य। ते किल—

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रियाः।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥” (अभिज्ञानशाकुन्तलम्, ७.१२)

कालिदासीया प्रकृतिरेवमेवाऽसीत्। तद्यथा—

वागर्थव्यवसायशोधितजगज्जीवान्तरङ्गः स्वयं
ब्रह्मास्वादसहोदरप्रणयने लोकोत्तरप्रातिभः।
यत्काङ्क्षन्ति तपोभिरन्यकवयस्तत्सर्वयुक्तोऽप्यहो
विद्याधाम्नि तपस्यति प्रतिमुहुः श्रीकालिदासः कविः॥

Meghaduta दिवः कान्तिमत्खण्डमेकम्—मेघदूते उज्जयिनीवर्णनम् kalidasa

MAHAKAVI KALIDASA

“महाकविः,” “कविकुलगुरुः,” “राष्ट्रकविः” इत्यादिसार्थकोपाधिभूषितोऽपि स्वात्मानं कवियशःप्रार्थिनं मनुते कालिदासः। अनेन हि कुमारसम्भवस्य परमेश्वरः स्मर्यते—“स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार”। हन्त! कथमीदृशानां लोकोत्तरचरितानां स्वारस्यसर्वस्वमवगन्तुं पारयेम? तिष्ठतु दूरे स्वारस्यसर्वस्वावगतिः; ज्ञाते सति तद्गरिमैकदेशे वराका वयं धन्या भवेम। यथाऽऽह सप्रश्रयं महामहोपाध्यायः कोलाचलमल्लिनाथसूरिः—

“कालिदासगिरां सारं कालिदासः सरस्वती।
चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः॥”

अयं कविचक्रवर्ती सहृदयहृदयसिंहासने ध्रुवं प्रतिष्ठितः। तस्य काव्यानि मुग्धानां विदुषां च मनांसि युगपदानन्दयन्ति। मुग्धास्तावद्विविधाभिः स्वकपोलकल्पितकथाभिः कविममुं हृदयसात्कुर्वन्ति। तद्यथा—मेषपालः कश्चिद्युवा स्वयं गड्डरिकाप्रवाहन्यायमनुसरन्नप्रगल्भ आसीत्, स च जगन्मातुः कालीदेव्या अनुग्रहेण कालिदासो भूत्वा महाकविपदमलञ्चकार। एवं च विद्वद्धौरेयाः साहित्यशास्त्रसम्बद्धानां समेषां प्रस्थानानां महितोज्जवलनिदर्शनत्वेन कालिदासमूरीकुर्वन्ति। यथा—अलङ्कारप्रस्थाने तावदुपमां सर्वोत्तमां मन्वानाः “उपमा कालिदासस्य” इति जगदुः। रीतिप्रस्थाने वैदर्भीं बहुमन्यमानाः कविरसौ “वैदर्भगिरां वासः” इति बभणुः। वक्रोक्तिप्रस्थानस्य परमाचार्यः कुन्तकः स्वग्रन्थे वक्रोक्तिजीविते कालिदासकाव्येभ्य एवाधिकानि पद्यानि समुदाजहार। अनेन हि वक्रोक्तिविद्याधरः कालिदास एवेति गम्यते। औचित्यप्रस्थानप्रवर्तकः क्षेमेन्द्रस्तु “पठेत् समस्तान् किल कालिदासकृतप्रबन्धानितिहासदर्शी” इति कविकण्ठाभरणे सविश्वासमुवाच। आनन्दवर्धनाचार्यस्तु ध्वनिकारः स्वकृतौ “अस्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्रा पञ्चषा वा महाकवय इति गण्यन्ते” इति सबहुमानं घोषयाञ्चक्रे। रसपक्षपातिनो विद्वद्रसिकाः कालिदासं “रसेश्वरं” जानन्ति। न केवलं शास्त्रकाराः, परं तु गायनाः कुशीलवाः शिल्पिनश्चित्रकाराः सर्वेऽपि कलास्पृहयालवः कालिदासकाव्येभ्यः स्वोत्कर्षमाप्नुवन्ति।

वागर्थात्मना परिणते काव्ये व्यष्टि(रूप)स्तु वक्रोक्तिः, समष्टि(स्वरूप)स्तावद्रसः। कालिदासीयानि काव्यानि व्यष्टिदृशा समष्टिदृशा च परमोत्कृष्टानि। एतेषु काव्येषु दर्शन-कल्पनयोः कथन-वर्णनयोश्च संपृक्तिः काचिदनन्याऽभिरामा दरीदृश्यते। तथ्यमिदं न कदापि विस्मर्तव्यं यदंशा इमे सर्वकाव्यसौन्दर्यसंपादनालम्भूष्णव इति। तथापि कालिदासवाङ्मय एव प्राप्तोत्कर्षा अमी। अतः स्थाने खलु कविकुलगुरुवाङ्मयस्य लोकम्पृणवैशिष्ट्यम्।

दर्शनं कल्पनोद्दीप्तं कथनं वर्णनाञ्चितम्।
यद्भव्यकाव्यसर्वस्वं कालिदासवशंवदम्॥

कालिदासः सकलजगत्सौख्योपनिषद्भूतानां भारतीयमौल्यानां सुन्दरः समर्थश्च प्रतिनिधिः। गुप्तकालीनभारतवर्षस्य संस्कृतिसारं स्वस्मिन्नाकलय्य तं च पुनः साहित्यरूपेण शाश्वतीचकार। स्वोपज्ञता हि कवेरस्य निस्तुला काचिद्विभूतिः। नो चेत्कथमिव कविब्रह्मणो वेदव्यासस्य शाकुन्तलोपाख्यानाख्यां रचनामस्य रूपकमभिज्ञानशाकुन्तलं सलीलमतिशेते? न केऽपि रसिका अभिज्ञानाभरणं विना शाकुन्तलवृत्तान्तमभिजानन्ति। इदमेकमेवालं कालिदासीयप्रतिभाप्राभवनिदर्शनाय। सन्ति परमन्यान्युदाहरणान्यस्यां दिशि। मन्दाक्रान्ता, द्रुतविलम्बितं, रथोद्धतेत्यादीनि वृत्तानि कालिदासस्यैव प्रज्ञाफलानीति विद्वदैकमत्यम्। काव्येतिहासे तावदिदंप्रथमतया दोहदकल्पनं, स्वयंवरवर्णनं च कालिदासेन सुनिपुणमकारि। सुप्रभातपद्यप्रसक्तिरपि या रघुवंशे विहिता सा सुप्रभातसम्प्रदायमुदजीघटत्। तस्मिन्नवसरे प्रयुक्तं वसन्ततिलकवृत्तं निजगतिगरिम्णा सुप्रभातपद्येषु परमानिवार्यमभूत्। ऋतुविषयमधिकृत्य काव्यरचनं शक्यमित्यपि कालिदासेनैव सर्वप्रथमतया न्यरूपि। एवं कविरत्नमेतन्निजरोचिषा साहित्यालयमनाविलमुद्दीपयच्चिरं चकास्ति।

मेघदूतम्

मेघसन्देशापराभिधानं मेघदूतकाव्यं कालिदासस्य निरुपमस्वोपज्ञतायाः परमोत्तममुदाहरणम्। अत्र प्रयुक्तश्छन्दोबन्धः (मन्दाक्रान्ता), स्वीकृतः काव्यप्रकारः (खण्डकाव्यं), आविष्कृतो विषयः (मेघदौत्यं)—सर्वेऽपि कालिदासस्य पूर्ववर्तिभिः कविभिरचुम्बिताः। काव्येऽस्मिन्मानवप्रकृतेः (भावप्रपञ्चस्येति यावत्) प्रकृतेश्च (निसर्गस्येति यावत्) संमुखीकरणमासादितं, येन विप्रलम्भशृङ्गाररसः प्रकृतिसुभगो निर्णिरोधं निस्सरति। अभिजातकाव्यपरम्परायामिदं हि काव्यं विशुद्धतममिति सौन्दर्यविदः समामनन्ति। यतोऽत्र कथाऽपेक्षया वर्णनावैभवमेव दृश्यतेतमाम्। “वर्णनानिपुणः कविः” खलु। तस्मात् कविकर्मापि वर्णनाप्रधानं स्यात्। एवं च नितरां प्रसिद्धमिदं काव्यं षष्ट्यधिकव्याख्यानसंवलितं विराजते। अनुकरणान्यपि काव्यस्यास्य गीर्वाणवाण्यां देशभाषासु च परःशतं लभ्यन्ते। यथा चेतोदूतम्, मृगाङ्कदूतम्, हंससन्देशः, कोकिलसन्देशः, शुकदूतम्, काकदूतम्, पवनदूतम्, चक्रवाकदूतम्, धूमदूतमित्यादीनि। जिनसेननामा कविः पार्श्वाभ्युदयाख्यं काव्यं लिलेख, यस्मिंश्च काव्ये समस्यापूरणविधिना मेघदूतपद्यपादास्तावदन्तर्गताः। मेघदूतस्य प्रत्येकः पादो जिनसेनकृतपादत्रितयान्वितः पार्श्वनाथयशो वर्णयति। “आवेष्टनकाव्यम्” इति प्रसिद्धमिदं मेघदूतस्य सिद्धिं प्रसिद्धिं च द्योतयति। आह च मल्लिनाथसूरिः—“माघे मेघे गतं वयः!” काव्येऽस्मिन् प्रक्षेपकाराणां हस्तलाघवं भूयसा दृश्यते। इदमपि मेघदूतस्य प्रसिद्धिं प्रकटयति, यतो हि न कोऽपि प्रक्षेपकृदप्रसिद्धकाव्ये कस्मिंश्चिन्निजपद्यानि प्रक्षिपति।

यद्यपि पद्यसङ्ख्याविषये भिन्नाभिप्रायाणां भूयस्त्वं विद्वद्वलये विद्यते, तथापि काव्येऽस्मिन् पञ्चदशोत्तरशतसङ्ख्याकानि पद्यानि सन्तीति सामान्यतया वक्तुमलम्। “पूर्वमेघः” “उत्तरमेघः” इति भागद्वये काव्याभिव्यक्तिरस्ति, यत्र चादौ पञ्च पद्यानि कविप्रौढोक्तिबद्धानि कथाप्रसङ्गं निर्दिशन्ति। अवशिष्टानि सकलानि प्रायः कविनिबद्धप्रौढोक्तिरूपाणि, येषु च प्रतिपद्यं मेघोल्लेखः कृतः। मेघोल्लेखस्य पौनःपुन्येन विषयौचिती सन्दर्भसुषमा भावसान्द्रता च सुतरां परिपुष्टाः। मेघदूतस्य कथायां न मनागपि नैकविधानां पात्राणां प्रसङ्गानां वा सङ्कीर्णता वरीवर्ति।

स्वाधिकारात्प्रमत्तः कश्चिद्यक्षः कुबेरेण निजभर्त्रा संवत्सरमेकं यावद्बहिष्कृतः। सोऽयं कुटुम्बिनीविरहितो रामगिर्याश्रमेषु पर्यटन्नास्ते। अत्रान्तरा तावदष्टौ मासा व्यतीताः। आषाढस्य प्रथमदिवसे यक्षः कंचन मेघं पश्यति। निभाल्य च तं दूतं मत्वा भार्यायै निजसन्देशं प्रापयितुं प्रार्थयति। पूर्वमेघे बलाहकेन गन्तव्यं मार्गं व्यावर्ण्य पुनरुत्तरमेघे स्वगृहमलकानगरस्थं च तत्रत्यां पत्नीं वर्णयति। अन्ते सन्देशं च सूचयति। इत्येवं कथासङ्क्षेपः।

कथं नु चेतनाविरहितं मेघं स्वसन्देशप्रापणार्थं यक्षः प्रार्थयतीति चेदुच्यते कालिदासेन “कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु”। नवनवोन्मेषशालिनी कालिदासीया प्रतिभा प्रतिक्षणमभिनवकल्पनानि समाविष्करोति। एवंविध एव मेघः; यतः सोऽपि कामरूपः सन् प्रतिक्षणं प्रतिनवरूपाणि धत्ते। क्वचिद्वप्रक्रीडापरिणत इव गजः, कदाचिन्नदीनामिव दयितः, कदाचन पर्वतनां सखेव च बाभाति।

पूर्वमेघे कालिदासप्रतिभागीतचोदिता प्रकृतिनर्तकी सर्वाङ्गसुभगा सोल्लासं नानटीति। अत्र हि खग-मृग-फल-पुष्प-व्रतति-पादप-पर्वत-निम्नगादिप्रपञ्चो जडजीवभेदनिरपेक्षं कृत्स्नं प्रपञ्चितः। तद्वर्णनावसरे स्तोकमपि न पक्षपातः कविना प्रदर्शितः। अत्र नीचैराख्यो गिरिर्यावद्विशिष्टस्तावदेव गौरीगुरुः पर्वतराजो हिमालयोऽपि। यया प्रीत्या दशार्णदेशगतं नीडोत्पादननिरतं काकं वर्णयति कालिदासः, तयैव बिसकिसलयपाथेयवन्तं राजहंसमपि विवृणोति। एवं यथा भ्रूविलासानभिज्ञां जनपदवधूं निर्दिशति, तथैव परिचितभ्रूलताविभ्रमां दशपुरवधूं कथयति। अत्र सन्ति पथिकवनिताः, सिद्धाङ्गनाः, वनचरवध्वः, पण्यस्त्रियः, पुष्पलाव्यः, पौराङ्गनाः, अभिसारिकाश्च। एतासां वर्णनेषु क्वापि न कृत्रिमता दृग्गोचरीभवति। कस्मात्? यथावद्वर्णनात्। अकृत्रिमतैव सौन्दर्यसाधयित्री ननु।

एवं च मेघदूते रामायणस्य, महाभारतस्य, बृहत्कथायाः, विविधानां पुराणकथानां च प्रस्तावः कृतः। अनेन संस्कृतिसंस्मृतिः कृताऽनेकवारम्। तथा च नात्र प्रकटिता भोगैकलोलुपता। भगवन्नैकट्यमिह वारं वारमाविष्कृतं वर्णनावसरे। यथा जनकतनयास्नानपुण्योदकपूता रामगिर्याश्रमाः, मेखलासु रघुपतिपदैरङ्कितः शैलः, अलकानगरस्था बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्याश्च। अनेन भगवत्समक्षताभ्यासकथनेन धर्माविरुद्धकामस्य परमौन्नत्यं व्यङ्ग्यवर्त्मना संसूचितम्। अत एवात्रत्यो यक्षः केवलं कामी न; स हि दयिताजीवितालम्बनार्थी। पत्न्या विरहितेन तेन वेश्यागारो न मृग्यते, परं रामगिर्याश्रमाः सेव्यन्ते। विप्रलम्भानुभूतिना विकसिता तस्य सहानुभूतिः। प्रकृतिगतमिथुनावलोकनेन स क्रुद्धो नैव भवति। निरनुसूयः सानुक्रोश्श्च यक्षः सन्देशवाहकस्य मेघस्यापि सौख्यं स्थिरीकरोति। यद्यपि मेघस्य द्रुतगतिरीप्सितैव यक्षस्य, तथापि सः “खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघुपयः स्रोतसां चोपभुज्य” इति मेघं प्रति वक्ति। अन्ते च शुभंयुरसौ “मा भूदेवं क्षणमपि सखे विद्युता विप्रयोगः” इति नान्दीवादमुखरो दृश्यते।

इदमपि वक्तव्यं यत्कालिदासेन यः पन्था यक्षमुखाद्वर्णितः स नैव यदृच्छाकल्पितः। परं वास्तवसिद्धः। भारतदेशे दक्षिणदिशस्तावदुत्तराशां प्रावृषि प्रस्थिता मेघमाला यं मार्गमधितिष्ठति तमेव परमया सूक्ष्मेक्षिकया परिशील्य कालिदासः स्वकाव्ये न्ययूयुजत्। एवं च “अलकानगरं गत्वा यक्षपत्नीं च दृष्ट्वा मेघः किमु कृतकृत्यो बभूव?” इति प्रश्नस्य नास्त्युत्तरं मेघदूते। भावमौल्यान्नितरामवरं भौततथ्यमिति मन्वानः कालिदासः प्रायः कथासंविधानकमेवं चकार।

उज्जयिनीवर्णनम्

मेघदूते कालिदासेन वर्णनमुज्जयिन्याः सुन्दरतयाऽकारि। अत्र तु कवेरुज्जयिनीप्रीतिः स्फारीभवति निस्संशयम्। ईदृशं पुरवर्णनं कालिदासकाव्येषु नान्यत्र दृश्यत इति हेतुना लब्धवर्णा उज्जयिन्येव तस्य जन्मभूमिरिति खल्वभिप्रयन्ति। यद्यपि न कविना स्वयमुद्घुष्टं, तथापि भावसत्यमेतत् स्वीकार्यम्। एवं च महाकवीनां वाग्वैखरी वाच्यविदूरा व्यङ्ग्यनिकटेति किल सौन्दर्यसमयः[1]। सम्प्रति वयं मेघदूतगतमुज्जयिनीवर्णनमवलोकयामः।

उज्जयिनीमदृष्ट्वा माऽग्रे सरेति मेघमभ्यर्थयते यक्षः।

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥

अत्रेदमवधेयं यद्यक्षः कान्ताविरहक्लेशकदर्थितः सन्नपि न परसुखासहिष्णुः; प्रत्युत परसुखाभिलाषीति। अपि च सन्देशवाहकस्य नितरामपेक्षितानि किलाध्वखेदापसारपटूनि विश्रान्तिविधानानि। तस्मान्मेघस्य सर्वदा सौन्दर्याभिमुख्यं भवेदिति काङ्क्षया मार्गातिक्रममपि सहते यक्षः। अत्र कालिदासस्य स्वपुरीपक्षपातोऽपि स्पष्टः। अन्यच्चात्र निर्दिष्टस्तोयदस्य वक्रमार्गः सुतमां वास्तविकः संशोधकैर्निश्चितः। दक्षिणादुत्तरदिशं गन्तुकामा नीरदा मध्यभारते मनाक्परिवर्तितमार्गा उज्जयिनीमभिमुखीकुर्वते। अहो परिसरपरिशीलनसामर्थ्यं कविकुलगुरोः! “सौधोत्सङ्गप्रणयविमुखो मा स्म भूः” इति कमनीयं वचनम्। उत्सङ्गशब्दोऽत्रत्यः सुतरां व्यञ्जकः सौधानि मातृप्रीत्या मेघं पालयन्तीत्यर्थं सूचयति। पौराङ्गनानां लोलापाङ्गकथनमपि सुन्दरम्। यतस्ते खल्वपाङ्गा मेघदयितास्फुरणचकिताः। अचिरप्रभा यदा प्रस्फुरति, तदा पौराङ्गनादृष्टिषु तस्याः कान्तिरनुस्फुरति। तन्नाम, प्रतिबिम्बतया समिन्धे। ईदृशं प्रेयसीप्रतिबिम्बं दीर्घापाङ्गवेल्लितं निभाल्य मेघः कामप्यभिरामाभिख्यामनुभवति।

प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्
पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम्।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम्॥

उदयनसंज्ञितस्य वत्सराजस्य कथा प्राचीनभारते खल्वतितरां प्रसिद्धाऽसीत्। बृहत्कथान्तर्गतेयं कथा सोमदेवस्य कथासरित्सागरे भासस्य स्वप्नवासवदत्ते चान्येषु काव्य-रूपकेषु लब्धप्रतिष्ठा। अस्या निधानं तु बृहत्कथैव। व्यास-वाल्मीकी इव गुणाढ्योऽपि प्रातःस्मरणीयो महर्षिः। सारस्वतवरिवस्या च तस्य नितरां स्तुत्या। उक्तं हि गोवर्धनाचार्येण—

श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना॥ (आर्यासप्तशती, ३४)

कथामातुरुत्सङ्ग एव ननु संस्कृतिशिशुः ससुखं सुचिरं जीवति। अतो वत्सराजकथोल्लेखेन संस्कृतिरुज्जयिन्याः सूचिता। उज्जयिनी विशालापरपर्याया सर्वसुखप्रदा सम्पत्समृद्धा च। अत एव तस्याः “श्रीविशाला” इति संज्ञा। स्वर्गिणां लोकानां पुण्यैर्हृतो नाक इवेयं पुरीति हेतुना सा पुण्यभूमिरिति ध्वन्यते। तन्नाम, अत्रत्या सम्पन्न केवलं भौतिकश्रमसंसिद्धा, अपि तु पुण्यनिर्मितेति गम्यते। अन्यच्च नाकभाग्यानि धरिण्यामिव स्वर्गेऽपि समनुभवितुमशक्यानीति कल्पनं तु कवेः “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति वचनं स्मारयति।

उज्जयिनीं प्रविश्य मेघः शिप्रानदीमक्षिलक्ष्यीकरोति। तदा प्रातः शिप्रानद्योपरि प्रसृतं वातं मनोज्ञतया वर्णयति कालिदासः। यथा—

दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥

महाकवेः कालिदासस्य गणनातीतेषु वैशिष्ट्येषु परमन्यतममस्तीदं यद्वर्णनानि तस्य पञ्चेन्द्रियतृप्तिकारीणि। इदमेव पद्यं परिशीलयामः। अत्र शिप्रावातः शब्द-स्पर्श-रूप-रस-गन्धाख्यतन्मात्रसंवलितः पञ्चेन्द्रियाणि नः समुल्लासयति। तत्कथमिति विव्रियते। प्रथमं तावद्वातः सारसानां कूजितानि दीर्घीकुरुत इति वर्णनमेव नितान्तं चारु। सर्वेऽपि वयं भौतशास्त्रविद्यार्थिनो जानीम एव यन्नादप्रसारमाध्यमेष्वन्यतमो वात इति। नदीतटस्य कस्मिंश्चित्कोणे कृतः पक्षिनादो वातेन तटिन्यन्तं यावन्नीयते। एवं च वातवेगहेतुना पक्षिनादतरङ्गा उपबृंहिता इव लक्ष्यन्ते। नादोऽसौ न पुनः श्रवणभैरवः। अपि तु शृङ्गारोद्दीपकः पटुमदकलरवः। अनेन शब्देन्द्रियस्तृप्तः। अथ गन्धः। गन्धबन्धुरयं स्फुटितकमलामोदमैत्रीकषाय इति कथयति कालिदासः। कषायो नाम कश्चिदुन्मादकारी तिक्तगन्धः। अत्र रसोऽपि विवक्षितः। कषायगन्धः कस्यापि कटुतिक्तरसस्यानुभूतिं जनयति। अन्यच्च कमलकथनावसरे रूपमपि सूचितम्। सद्य उत्फुल्लानां कमलानां रागः, विकासक्रमः, चित्रभानुगभस्तिभिस्तेषां संस्पर्शः—सर्वोऽपि नयनोत्सवायते सताम्। स चाङ्गानुकूलो वातः स्त्रीणां सुरतग्लानिं हरतीति वर्णनेन स्पर्शः सूचितः। प्रत्यूषेषु वातः प्रार्थनाचाटुकारः प्रियतम इवास्त इति वर्णनेन तु लोकोत्तरं शृङ्गारप्रपञ्चमेव निर्मिमे कालिदासः।

अथ च तस्मिन्नगरे पुष्टो भवति मेघ इति वर्णयति कविः।

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
लक्ष्मीं पश्यल्ललितवनितापादरागाङ्कितेषु॥

अत्र कालिदासस्य पद्यशिल्पकल्पनं रचनारासिक्यं च भावुकैर्द्रष्टुमलम्। त्रिषु स्तरेषु कृतमत्र सौन्दर्यवर्णनम्। उपरि दृश्यते वियद्गतो धूपः, मध्ये तावन्नृत्यन्तो मयूराः कुसुमानि च, अधो हि भूमिगतो वनितापादरागः। पूर्वमेव निगदितं कविना यन्मेघः “धूमज्योतिःसलिलमरुतां सन्निपातः” इति। अत एवात्र स धूपैः परिपुष्टो भवतीति कथितम्। धूमनिर्मितदेहो मेघ इति हेतुत्वात्केनापि निकृष्टेन धूमेन तस्य पुष्टिर्यद्यपि शक्या तथापि रसिकोऽसौ केशसंस्कारधूपैः सुगन्धिलैरेवोपचितवपुः प्रभवति! एवं च भवनशिखिभिर्दत्तनृत्तोपहारो मयूरबन्धुस्तोयदः। नृत्तं नाम कश्चनाऽङ्गिकाभिनयप्रकारः।

मेघदूते नैकविधाः शिखिनो वर्णिताः। बलाहकं निशम्य ते विविधप्रकारा मयूराः किं किमकार्षुः? आदौ तावद्वनमयूराः शुक्लापाङ्गैः सजलनयनैः स्वागतीचक्रिरे। बाष्पस्तु सात्त्विकविकारोऽत्र दर्पराहित्यसङ्केतः। तथा हि भवनशिखिनो—तन्नाम नागरकाः प्रचलाकिनः—ये सम्प्रति विलोकिता आङ्गिकाभिनयैः स्वागतं कल्पयामासुः। अग्रे च काव्ये सुब्रह्मण्यवाहनभूतस्य मयूरस्य वर्णनमेवमस्ति—

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥

सोऽसौ मयूरस्तोयदं निभाल्यापि स्वाभिमानदिग्धो न किञ्चित्करोति। यदा मेघः स्वगर्जितैस्तं रञ्जयति, तदा स नृत्यति। एवमैश्वर्याधिकारनैकट्यहेतुना कथमवलेपलिप्ता भवन्ति मयूरा इति सूचितं महाकविना। दर्पातिशय ईदृशो मयूराणामेव चेत् का कथा पुनर्मनुष्याणाम्!

सम्प्रति महाकालविषयं प्रस्तौति।

अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः।
कुर्वन्सन्ध्याबलिपटहतां शूलिनः श्लाघनीया-
मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥

प्रकृतिसौन्दर्यं, उज्जयिनीवसुवैभवं च दर्शं दर्शं मेघो यदि सुचिरं तत्रैव तिष्ठति, तर्हि कथं सन्देशवहनम्? का खलु कथा यक्षपत्न्याः? अतो मेघेनावश्यं द्रुतगतिना भाव्यम्। एवं चादर्शनं महाकालस्य महते पापाय कल्पते। अलकाजिगमिषा महाकालदिदृक्षा च मेघस्य। सत्यामीदृश्यां स्थितौ किं नु वाऽनुष्ठेयम्? वक्ति कालिदासः—अप्यन्यस्मिन् काले महाकालमासाद्य, सन्ध्यावधि स्थित्वा निजगर्जितैः पटहतामाचर्य धन्यो भवति मेघः। अहो समुचितकल्पनचातुरी कवेः!

सम्प्रति रमणीनां नृत्यं वर्णयति—

पादन्यासक्वणितरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्॥

अत्र वर्णितं किञ्चिदुद्दामं दैशिकनृत्यम्। विशालाभ्यर्णे विद्यमानेषु वनप्रदेशेषु कृतवास्तव्यास्तरुण्य इदं खड्ग-वस्त्र-दण्ड-माला-वीणा-चामरादीन् प्रगृह्य नृत्यन्ति स्मेत्यनुश्रूयते। तथा ह्युज्जयिनीनगरस्य देवदासीभिर्देवकुले सतालमिदं ललितमनोहरविधिना नृत्यत इति कालिदासेन वर्णितम्। भारतीयनृत्यपरम्पराऽध्ययनरसिकेभ्यः सुतरां प्रयोजनकारीदं पद्यम्। अपि चात्रत्यं “मधुकरश्रेणिदीर्घकटाक्षः” इति प्रयोगं कालिदासोत्तरकालीनाः कवयः सर्वेऽपि निजकाव्येषु प्रयुयुजुः प्रयुञ्जानाश्च प्रयोक्ष्यन्ति। दासतां कालिदासस्य कवयः सर्वे वहन्त्येव। उक्तं च गङ्गादेव्या—

दासतां कालिदासस्य कवयः के न बिभ्रति।
इदानीमपि तस्यार्थानुपजीवन्त्यमी यतः॥ (मधुराविजयम्, १.७)

यथा पूर्वमुक्तं मेघदूते प्रायः प्रतिपद्यं मेघोल्लेखोऽस्ति। अत्रेदं निदर्शनम्—

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या॥

अत्र मेघस्य लाभप्राप्तिरपि काचिच्चकास्ति। स हि तोयदः परमेश्वरपरिधानम् उमोद्वेगशान्तिकारणं च। अपि के न चिकीर्षन्ति पुण्यसाधनमीदृशं कर्म? जगदादिदम्पतिसपर्या कस्य न स्यान्मुदे? अपि चात्र गजचर्माञ्चलगतशोणितरेखया सह सावर्ण्यं वहति मेघलेखासृता प्रतिनवजपापुष्परुचिः। औचित्यं न पृथग्वाच्यं ननु वर्णनस्यास्य।

मार्गे किञ्चिदिवाग्रे गत्वा सहायको भवाभिसारिकाणामिति मेघमभ्यर्थयते यक्षः—

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः॥

विद्युदुद्दीपनेन तासामभिसारिकाणां मार्गदर्शको भव, निजगर्जितैर्मा तासां भीतिजनको भवेति कथनं तु यक्षस्य हृद्वैशाल्यं ख्यापयति। अयं हि वियोगानुभवसंस्कृतो यक्षस्य जीवनपरिपाकः खण्डकाव्यपदान्मेघदूतं महाकाव्यपदं प्रति निस्संशयमभ्युद्धरति।  तथा चात्रानुसन्धेयः “सूचिभेद्यं तमः” इति प्रयोगः। कालिदासप्रतिभाप्रभावादमूर्तः कृष्णिमा घनिष्ठः सञ्जातः! अन्यच्च “कनकनिकषस्निग्धा सौदामनी” इति वर्णने कवेरनुपमा वर्णवर्णनवैदग्धी विलसति। वात्सल्यसूचकः स्निग्धशब्दः पुनश्च यक्षस्य हृदयौन्नत्यं द्योतयन्महदौचित्यं तनुते।

पुनरपि विलम्बमकृत्वा मार्गशेषं वाहयेद्भवानिति वारिदं वदति गुह्यकः।

तां कस्याञ्चिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥

भवनवलभौ कपोता वसन्तीत्यत्र कवेः पक्षिचर्यापरिशीलनप्रवणता सूर्यस्पष्टा। अपि च विद्यते सवर्णित्वं पारावतमेघयोः। अनेन हि पालितं काव्योपनिषद्भूतमौचित्यम्। अर्थान्तरन्यासस्तावदन्ते विद्यमानः प्रार्थयितॄणामुपदेशाय कल्पते। अनुनय एव नितरामाश्रयणीयोऽभ्यर्थिभिः; न पुनराज्ञा। न वा क्रोधः। मैत्रीगमकमिदं यक्षः सम्यगेव जानाति। अतः स मेघमनुनयविधिनैव सम्बोधयति। नान्यथा सर्वथापि।

सम्पन्नमुज्जयिनीवर्णनम्। वर्णनेयं नितरामतिद्वयीति सकलमतिभद्रम्।

टिप्पन्यः

१ संस्कृतसाहित्ये वाच्यविधानेन कविभिः कृतं निजपुरवर्णनं क्वचिद्दृश्यते। यथा बिल्हणकृतविक्रमाङ्कदेवचरितस्य प्रवरपुरवर्णनम् अष्टादशे सर्गे। अनेन हि व्यङ्ग्यैकविश्रान्तं किञ्चिद्वर्णनं गच्छता कालेन कथं वाच्यतामापेति विशदीभवति।

Shashi Kiran B N Meghaduta दिवः कान्तिमत्खण्डमेकम्—मेघदूते उज्जयिनीवर्णनम् shashi

Shashi Kiran B N

Shashi Kiran holds a bachelor's degree in Mechanical Engineering. His interests include Indian aesthetics, Hindu scriptures, Sanskrit literature, and philosophy. A literary aficionado, Shashi enjoys composing Sanskrit verses set to classical poetic meters.
Shashi Kiran B N Meghaduta दिवः कान्तिमत्खण्डमेकम्—मेघदूते उज्जयिनीवर्णनम् shashi