...
 

कृत्रिमपत्रिभेदनम्

If we are to preserve our culture and heritage, it is imperative that we acquaint our children with it. Teaching them Sanskrit is a necessary preliminary step towards it. Drshyakavya or drama is an entertaining way to teach language to children.

This drama is intended to be enacted by children of about 8-12 years of age. Through the well-known story of how Arjuna felled the wooden bird (Mahabharata, Adi Parva), it gently instructs the children about concentration. Traditionally, Sanskrit drama has a nandi, after which the sutradhara and the nati, his wife, introduce the drama. Because this is a children’s drama, the introduction is done by two children. The other parts of traditional Sanskrit drama are retained, but are relevant to the present time and age.

Arjuna Wooden Bird  कृत्रिमपत्रिभेदनम् Arjuna-Wooden-Bird-230x300

Arjuna aiming at the wooden bird

पात्रधारिण:
सूत्रधारः
नटी (द्वावपि शालाविद्यार्थि-विद्यार्थिन्यौ)

द्रोणः
दुर्योधनः
युधिष्ठिरः
भीमः
अर्जुनः
अन्ये त्रिचतुरबालाः

(नान्दी)
यत्प्रसादाद्धि वैदुष्यं सिद्ध्यतेऽनलसां ध्रुवम् ।
सिद्धिबुद्धि समेतं तं नमामि गणनायकम् ॥
[नान्द्यन्ते प्रविशति सूत्रधारः]

सूत्रधारः – सखि इत आगम्यताम् ।
नटी (उपसृत्य) – वयस्य इयमस्मि । कथ्यताम् ।
सूत्रधारः – सखि अद्य कृत्रिमपत्रिभेदनं नाम नाटकं नाटयामः । तदस्मत्-परिषदः संतोषार्थं किमपि गीयताम् ।

नटी – अहो रमणीयता आषाढमासस्य । यतः

विकसितनयनाब्जाः बालकाः प्लावयन्तः
हिमकरसितपत्रैर्निर्मितं नावयूथम् ।
घनघनमिव भान्तं तम् बलाकाभिरामं
प्रमुदितहृदयास्ते पङ्किलं लोकयन्ति ॥

सूत्रधारः – सुष्ठु गीतं भवत्या । परन्तु मादृशानाम्

धिक्कष्टं प्रातरुत्थाने दिवास्वप्नं यदोत्थितम् ।
भृक्तं वाञ्छति जिह्वा मदाषाढं कष्टकारणम् ॥

सखि अद्यापि तर्जितोऽहं शालायां यत आचार्यदत्तसमस्या अपूर्णा एव मया प्रत्यर्पिता । कथम् अध्ययने श्रद्धा वर्धनीया। कथमेकाग्रता साधनीया। पठने त्वहं बहु कष्टमनुभवामि ।

नटी – वयस्य मा चिन्तय । महारथी गुरुवरश्च धनुर्धारी द्रोणः शिष्यैः सह इत एव आगच्छति । गुरोः बोधनं श्रुत्वा अस्माकमपि बुद्धिः सम्यक् निर्देशिता भवेत् । तदेहि गच्छावः ।
(इति निष्क्रान्तौ)

(ततः प्रविशति धनुर्धारी द्रोणः शिष्यैः सह)
द्रोणः – (पादं पादं पाठयति, शिष्याः तदेव अनुपठन्ति)

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥

प्रियशिष्याः यथेरितम् अस्मिन् श्लोके तथा समयस्य सदुपयोगः करणीयः ।
अद्य धनुर्विद्याभ्यासः करणीयः खलु । (सर्वान् विलोक्य) अद्य लक्ष्यभेदनं अभ्यासयामः । वत्स दुर्योधन । एहि । (दुर्योधनः उत्थाय द्रोणमुपसर्पति)
स्वहस्ते धनुरेतत् गृह्यताम् । तव लक्ष्योऽस्ति तत्र स्थितः कृत्रिमपक्षी । किं दृश्यते ।
दुर्योधनः – दृश्यते आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
दुर्योधनः – वृक्षः दृश्यते । वृक्षे मधुराणि फलानि दृश्यन्ते । वृक्षमवलम्ब्य वृद्धा लता दृश्यते । लतायां तुषारबिन्दुसदृशानि पुष्पाणि दृश्यन्ते ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
दुर्योधनः (आचार्यमवलोक्य) – निष्चप्रचम् आचार्य ।
द्रोणः – त्वया लक्ष्यभेदनम् अशक्यम् । तद्गत्वा उपविश । वत्स युधिष्ठिर । एह्यत्र ।
युधिष्ठिरः (प्रणम्य) – अयमस्मि आचार्य ।
द्रोणः (धनुर्दत्वा) – किं लक्ष्यः दृश्यते ।
युधिष्ठिरः – दृश्यते आचार्य ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
युधिष्ठिरः – (आचार्यम् अवलोक्य) आम् आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
युधिष्ठिरः – ममानुजाः, वृक्षाः, फलानि, लताः दृश्यन्ते ।
द्रोणः – त्वयापि लक्ष्यभेदनम् अशक्यम् । तद्गच्छ । वत्स भीम । एहि तावत् ।
भीमः – (प्रणम्य) अयमस्मि आचार्य ।
द्रोणः (धनुर्दत्वा) – किं लक्ष्यः दृश्यते ।
भीमः – दृश्यते आचार्य ।
द्रोणः – किम् माम् द्रष्टुम् शक्नोषि ।
भीमः – (आचार्यम् अवलोक्य) आम् आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
भीमः – ममानुजाः, वृक्षाः, फलानि, लताः दृश्यन्ते ।

मन्दानिलेन मकरन्दसुगन्धितेन
सम्प्रेष्य सन्दिशति मां विरमात्र चेति ।
आमन्त्रणं च करपल्लवचेष्टितेन
मित्रं ममाम्रतरुरार्य बुभुक्षितस्य ॥

द्रोणः – त्वयापि लक्ष्यभेदनम् अशक्यम् । तद्गच्छ । वत्स दुश्शासन । एहि तावत् ।

(सर्वे अन्ये छात्राः किमप्यनुक्त्वा केवलं नाटयन्ति । नेपथ्ये)

धार्तराष्ट्राः जिताः सर्वे पाण्डवानां चतुष्टयम् ।
एकाकी विजय: शिष्टः पश्यामोऽस्यापि दक्षताम् ॥

द्रोणः – वत्स अर्जुन । एहि ।
अर्जुनः (प्रणम्य) – अयमस्मि आचार्य ।
द्रोणः – लक्ष्यं पश्य । (अर्जुनः पश्यति) किं लक्ष्यं दृश्यते ।
अर्जुनः – अथ किम् ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
अर्जुनः – न हि आचार्य ।
द्रोणः – किं वृक्षावलम्बिनी सुगन्धिपुष्पयुक्ता लता दृश्यते ।
अर्जुनः – न हि आचार्य ।
द्रोणः – किं वृक्षात् सद्य एव पतन्तीव भासन्तः पक्वानि फलानि दृश्यन्ते ।
अर्जुनः – न हि आचार्य ।
द्रोणः (सस्मितम्) – तर्हि मुञ्च शरम् ।
(अर्जुनः शरं मुञ्चति । लक्ष्यः पतति)
सर्वे – साधु साधु ।
द्रोणः – वत्स लक्ष्यभेदनं समीचीनतया कृतमद्य त्वया । तव एकाग्र-बुद्ध्या सर्वाः विद्याः करगता भवेयुः । मङ्गलमस्तु ते । (सर्वान् विलोक्य)
पञ्चाङ्गुल्योऽभिसङ्गत्य वस्तु कुर्वन्ति हस्तगम् ।
तथा पञ्चेन्द्रियैर्विद्या बुद्धिगम्या भविष्यति ॥

युष्माभिरपि यदि लक्षमेव लक्ष्यते तर्हि सर्वाः विद्याः नितरां सिद्ध्यन्ति ।

इयत्यभ्याशशीलेषु ममता विधियोषितः ।
यदागत्य स्वयम् देवी ह्येतेषां रसनास्थिता ॥
अभ्यासेनैव सिद्ध्यन्ते विद्याः सर्वाः सुदुर्लभाः ।
एकाग्रमतिमस्मभ्यं प्रददातु सरस्वती ॥

Sreelalitha Rupanagudi  कृत्रिमपत्रिभेदनम् sreelalitha

Sreelalitha Rupanagudi

Mother of two. Engineer. Worshiper of Indian music, poetry, and art.
Sreelalitha Rupanagudi  कृत्रिमपत्रिभेदनम् sreelalitha