...
 

ऋतं सत्यं तथा धर्मः — धर्मस्वरूपविवरणम्

This article is part 3 of 3 in the series Rta Satya Dharma


ऋत-सत्ययोरर्थभेदस्तैत्तिरीयब्राह्मणस्य वचनेनानेन स्पष्टीभवति।

“ऋतं त्वा सत्येन परिषिञ्चामीति नायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदादित्येन सायं परिषिञ्चति। अग्निनादित्यं प्रातः सः।”

अत्र रजनीदिवसावेकस्यैव कालतत्त्वस्य द्वे मुखे। तावेकाकारेण गृहीत्वा सेवयेदिति तात्पर्यम्। तत्र सायन्तनसवने ध्येयं दैवतमग्निः। अयमेव ऋतस्वरूपी। प्रातःसवने ध्येयं दैवतं त्वादित्यः। अयं तु सत्यस्वरूपी। एवं पावकभास्करौ द्वावपि तेजोमयौ ऋतसत्यसङ्केतौ। किं त्वग्निः काष्ठादिषु विलीनः स्वात्मानं सर्वदा न प्रकटीकुरुते। सूर्यस्तु नैवं निगूढः। एवमेव ऋतं कदाचिदग्निरिव तिरोहितमास्ते। तदादौ मनोगतं हृदयस्थं यथार्थग्रहणं ननु। सत्यं तु सूर्य इव सर्वदा प्रकाशमानं मुखस्थं व्यवहारगतं च यथार्थप्रतिपादनम्। मूलरूपेण ऋतसत्ये द्वे अपि एकमेव। केवलमभिव्यञ्जनावधौ भिद्येते।

१०

इह जगति सर्वमपि वस्तुजातं पार्श्वद्वयसमञ्चितम्। कानिचन पार्श्वत्रितयेन चतुष्टयेन वापि सन्दृब्धानि स्युः। किं च सर्वाण्यपि न्यूनातिन्यूनं पार्श्वद्वयपरिक्लृप्तानीति निश्चप्रचम्। यथा मानवकायस्य पुरतो भागः पृष्ठतो भागश्च। वृक्षस्यापि दलेषु एवं विभागौ सम्भवतः। वस्त्रस्यापि च बाह्याभ्यन्तरविभागः स्फुटः। परमार्थतः पार्श्वद्वयमप्येकमेव। तथापि व्यवहारार्थं विभागः क्रियते। अयमेव न्यायः ऋतसत्ययोरपि; तत्त्वत एते एकमेव। अतो हि नामलिङ्गानुशासने “सत्यं तथ्यं ऋतं सम्यगमूनि त्रिषु तद्वति” इति सामानाधिकरण्यमनयोरुक्तम्। तस्मादृतसत्ये यथार्थतत्त्वस्य पार्श्वद्वितयमित्यङ्गीकार्यम्। अतः श्रुतिराह—

“अग्निर्वा ऋतम्। असावादित्यः सत्यम्।”

लोकजीवनस्य जीवातुभूतं द्रव्यं तापः। तापेन विना किञ्चिदपि न जीवति। तद्यथा—

“योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति; असौ योऽस्तमेति स सर्वेषां …”

न केवलं जीविनः पृथिव्यां परं व्योम्नि भासमाना ग्रहनक्षत्रादयोऽपि सवितुस्तेजसा शक्तिमाप्नुवन्ति। इत्थं सर्वलोकसामान्यः सर्वसाक्षी भगवान् पूषा निखिलतेजसामायतनम्। इयं तु ब्रह्माण्डमण्डलव्यवस्था। किं च पिण्डाण्डमण्डले समस्तजीविनामन्तर्गतश्चकास्ति जठराग्निः। अयं वैश्वानरोऽपि जगति तापस्वरूपी। असावपि सूर्य इव सर्वसामान्यः। परं तु प्रत्येकस्य जीविनोऽपि विशिष्टस्तेषु समुद्भूतस्तानेव परिपाति। इत्थमादित्यः समष्टितापस्वरूपी; अग्निस्तु वैश्वानरत्वेन व्यष्टितापस्वरूपी। तेजसोरनयोः समायोगेन जगद्व्यापारः। तदिदं पूर्वोक्तस्य श्रुतिवाक्यस्य तात्पर्यम्।

“ऋतं त्वा सत्येन परिषिञ्चामि” इति वा

“सत्यं त्वर्तेन परिषिञ्चामि”

इति वा श्रुतिकथनेन ऋतसत्ययोः परस्परपर्यावरणत्वपूर्वकं समैक्यं व्यपदिष्टमिति भावः।

अयमत्र परमार्थः—अस्मदन्तरङ्गे यद्यथेति प्रतीयते तद्बहिरङ्गप्रमाणपुरस्सरं विमृश्य तन्मननजातं सिद्धान्तमनुसराम इति। एवमुभयप्रमाणपरिशुद्धस्य समाचरणमेव धर्मः।

११

तैत्तिरीयोपनिषत्सु “ऋतं वदिश्यामि। सत्यं वदिष्यामि।” इति शान्तिमन्त्रो विद्यते। ततः “तस्य श्रद्धैव शिरः। ऋतं दक्षिणं पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा।” इत्यपि मन्त्रः श्रूयते।

ऋतं नाम याथार्थ्यमिति भावः। सत्यमित्यपि स एवार्थः। याथार्थ्यं नाम कस्यापि विचारस्य वस्तुनो वा यथावद्ग्रहणम्। एकस्यैवार्थस्य निर्देशनार्थम् ऋतं सत्यं चेति वाचकद्वयप्रयुक्त्या किं वा साधितम्?

अत्र द्विविधमस्ति प्रयोजनम्। ऋतं नाम निजान्तरङ्गे बाह्यप्रेरणनिरपेक्षं स्वयं स्फुरितं याथार्थ्यम्। अस्य तात्पर्यं तावदन्तःस्फुरणं प्रत्यग्दर्शनं च। इदमेव निजत्वेन नैजत्वेन च व्यपदिश्यते। किं च मानवजीवननिर्वाहार्थं नैतावता पर्याप्तिः। केषुचित्सन्दर्भेषु प्रत्यक्स्फुरणस्य परमावश्यकता वर्तत एव। अन्यच्च नैकेषु विषयेषु निजाभ्यन्तर्दर्शनं नैव सम्भवति। कृत्स्नमिव बहिर्जगतः कस्यचिदपि कर्मणो वस्तुनो वा प्रत्यभिज्ञानमस्माकं नान्तरङ्गे प्रभवति। तत्र बहिर्जगतः प्रमाणैः परप्रत्ययैरथवा निजज्ञानेन्द्रियप्रयत्नैः प्रज्ञा सम्पादनीया। एवं बाह्यप्रपञ्चद्वारा यास्माभिः समासादिता प्रज्ञा सा सत्यस्वरूपिणी।

अन्तःस्फुरणं बहिःस्फुरणं चेति द्वितयमपि सत्यस्य प्रमाणम्। तयोः परस्परसमर्थनेन वयं निश्शङ्कं व्यवहर्तुं प्रभवामः। एवम् ऋतमित्यन्तरनुभूतं याथार्थ्यं, सत्यमिति बहिःसाधितं याथार्थ्यम्। उभयमपि मानुषव्यवहारार्थमपरिहार्यम्।

यत्किञ्चिदपि कुर्वाणः स्वक्रियासार्थक्यं साधयितुं नरः प्रथमतया तस्मिन्कर्मणि श्रद्धावान्ननु भवेत्। तन्नाम, निजकर्मणा स्वपरप्रयोजनमनुत्तमं यत्किञ्चिदपि स्यादिति मनीषा परमावश्यका। विनानया न मनागपि सिद्ध्यति सत्त्वौन्नत्यम्। अत एव महर्षिभिः श्रद्धा शिर इत्युपमिता—“तस्य श्रद्धैव शिरः”। सति शिरसि भुजयोरपि भवत्यस्तित्वम्। तयोरुपर्येव ननूत्तमाङ्गम्! अन्तर्बहिःस्फुरणे एव वामदक्षिणौ भुजौ। अन्तःस्फुरणात्मकं ऋतमेव दक्षिणः पक्षः। तत्पोषकत्वेन बहिःस्फुरणात्मकं सत्यं सव्यः पक्षः। एवं बाहुद्वयसमायोगेन परमार्थप्राप्तिः किल निष्प्रत्यूहा। इत्थं पक्षद्वितयसहकारेण स्थिरीकृता श्रद्धा। अनयैव नरजीवनसार्थक्यम्।

१२

अस्मद्विदितस्य समस्तजगतो व्यक्ताव्यक्तस्य मूलमेकमेवेति श्रुतीनां मतम्। तन्मूलं ब्रह्मेत्याह भगवान्वेदः। बृहि वृद्धाविति निष्पत्त्यनुसारं ब्रह्मैकमेव सर्वोच्चं सर्वव्यापकं सर्वाङ्गीणं तत्त्वम्। अत एव तत्केवलं चैतन्यं ज्ञानस्वरूपं चेति व्यपदिश्यते। जगन्मूलचैतन्यं कारणं ब्रह्म कर्मब्रह्मतया जगतोऽस्य निर्माणात्प्राक्तदेकमेवाद्वितीयमासीत्।

प्राक्सृष्टेः काल इति कः? कदा? स किंस्वरूपः? इति प्रश्नजातानां नास्त्युत्तरम्। तस्मादेव सृष्टिरियमनादिरनन्तेति शास्त्रनिश्चयः। अस्य सर्गस्यादिर्नाम नराणां काचित्कल्पना। यथा कथोपक्रमे कश्चन कालारम्भो ननु कल्प्यते कथनसौकर्यार्थम्। इह जगति विद्यमानस्य सर्वस्यापि वस्तुन आदिमध्यावसानानि बुद्ध्यन्त एवास्माभिः। इयमेव पूर्ववासना जगत्सृष्टिविषयेऽपि तावदादिं मध्यमवसानं वा निरीक्ष्यते। सृष्ट्यादिर्नाम न कोऽपि पञ्चाङ्गनिश्चितो मुहूर्तः। सर्वमिदं सम्भाव्यमभ्यूहनम्। एवं कार्यब्रह्मणो विचारफलितमिदं जगन्निर्माणम्। अतो हि सर्वाण्यपि सर्गप्रभवाणि व्यवहरेयुरङ्गोपाङ्गप्रत्यङ्गरूपेण समाहितमनसा खल्वेकाङ्गस्य जगतः। इयं हि जगद्व्यवस्था। एकस्मादनेके। अनेकेभ्यश्चैकमिति तत्त्वम्। अस्य कृत्स्नस्य साधकरूपेण स्याद्धर्मः। इदं किल धर्मतत्त्वं कारणत्वेनैकं कार्यत्वेनानेकमिति रूपितं जगद्व्यवस्थायाम्।

१३

धर्मो नाम सत्सम्पादनक्रिया। मनुष्यबुद्धिगोचरेषु सद्वस्तुषु सर्वोत्कृष्टं खल्वात्मतत्त्वम्। आत्मनः पारमार्थ्यं तु परमात्मेति गीयते। अतो हि परमसद्रूपः परमात्मा परमशाश्वतः परममङ्गलश्च। तस्मात्परमात्मानमुद्दिश्य विधीयमानं वर्तनजातमखिलमेव धर्मः।

“ऋत”शब्द इव “धर्म”शब्देऽपि सन्ति नानार्थच्छायाः।

(१) आत्मगुणसम्पत्तिः—लोकेऽस्मिन् यस्य कस्यापि वस्तुनो यस्मादिव कारणाद्गण्यता प्राप्ता, स कारणगुणस्तु धर्म इति निश्चीयते। योद्धुर्मण्डलाग्रस्य मूल्यं तद्धारानैशित्येन, न पुनस्तस्य मुष्टिघटितनवरत्नमणिभिः। वैणिकस्य वीणामूल्यं तन्त्रीणां नादेनैव सम्पाद्यते, न तु तत्तुम्बीदण्डमण्डितसुवर्णालङ्कारविशेषेण। मनुष्याणामपि विषये युक्तिरियमेव सङ्गच्छते। स्वस्मिन्विद्यमानेन सुगुणेन स्वाभिवृद्धिमासाद्य तत्फलितं लोकजीवनहिताय विनियोजनमेव स्वधर्मः। अयं तु सकलेषु नरेषु निरपवादं लगति। तत्तदाश्रमिणस्तत्तद्धर्मपरायणाः स्युः। तत्तद्वृत्तिमन्तो जनास्तत्तद्वैदुष्यभूषिताः स्युः। एवं तत्त्दात्मगुणप्राचुर्यमेव धर्मः। इयं हि स्वधर्मप्रशस्तिः। एतदर्थमेव स्वातन्त्र्यं जीवति। जनो यः कोऽपि निजाभ्यन्तरं सत्त्वं तेजश्च नैजधर्मानुगुणं परप्रतिरोधेन विना संवर्ध्य समुत्कर्षपथमानेतुं विद्यमानो महावकाश एव व्यक्तिस्वातन्त्र्यत्वेन व्यपदिष्टः। एवं स्वातन्त्र्यस्य नीतिमूलं धर्मतत्त्वे निलीनम्।

(२) अन्यगुणगौरवम्—आत्मविकासावसरे निजचर्यया परस्परव्रतभङ्गो यथा न भवति तथा सर्वोऽपि जनः संयमानुष्ठानपरो भवेदिति धर्मसम्भवः। एवं स्वधर्मनिष्ठया सह परधर्मगौरवं च वाञ्छितम्। निजव्यक्तियोग्यता परस्य कस्यापि तादृशीं योग्यतां यथा न ह्रसयति—प्रत्युत परिवर्धयति—तथैव सर्वः सर्वं समीक्षेत। यथा सङ्गीतके मृदङ्गनादो वीणामाधुरीं नापकर्षेद्वेणुनिस्वनः कण्ठस्वरं गायनस्य च न विप्लावयेत्तथा लोकेऽपि पारस्पारिकः प्रीतिव्यवहारः प्रवर्तयितव्यः। सोऽसौ नियम एव न्याय्यमिति नीतिरिति च प्रतिष्ठितः। अयमेव धर्मस्य सारभूतोंऽशः। प्रायेण लोकभाषासु “न्यायः,” “नीतिः,” “धर्मः” चेति पदत्रितयमैकार्थकत्वेन प्रयुक्तम्। तदिदं युक्तमेव। आत्मगुणविकासः परगुणविकासानुकूली किल भवेत्। तदैव तस्य सार्थक्यम्। यथात्मगुणविकासो धर्मस्यैकं मुखम्, आत्मगुणशोधनं संयमनं चापरं मुखम्। स्वातन्त्र्यमिव न्याय्यं च धर्मस्यैकं रूपम्।

(३) पूर्वोक्तविचारद्वितये जीविनां नानात्वमौपाधिकतया नन्वङ्गीकृतम्। अस्य नानात्वस्य परमान्तराले किमप्येकत्वं मणिमालिकान्तःसूत्रमिव चकास्ति, येन मणीनामन्योन्यसम्बन्धसंक्लृप्तिः सिद्ध्यति[1]। सूत्रात्मनोऽस्य स्मरणानुरोधेन विधीयमानो जीवनक्रमो हि धर्मः। जगदिदमीश्वरस्य। ईश्वरांशस्तु सर्वेषु भूतेषु वर्तत एव। अस्येश्वरस्य सार्वात्म्यत्वं यदनुदिनाभ्यासेन स्वानुभवीक्रियते तच्चात्मशिक्षणविधानं धर्माङ्गमेव। एवमिन्द्रियनिग्रहो विरक्तिर्भगवद्ध्यानं स्वात्मचिन्तनं चेत्यादीनि ब्रह्मानुसन्धानसोपानानि धर्मस्य मुख्योद्देशतया सङ्कीर्तितानि।

(४) सर्वस्यापि जीवस्य परमं लक्ष्यं कर्मक्षेत्रविस्तारपूर्वकं विश्वजीवनसात्करणं; तन्नाम स्वार्थह्रासपुरस्सरं लोकहितभावोज्जीवनम्। अस्मिन्पथि सहकारीणि सर्वाण्यपि सत्कर्माणि धर्मत्वमञ्चन्तीति निश्चप्रचम्। उपाधिभूतानां देहेन्द्रियाणामभिमानवशात्सङ्कुचितः खलु जीवात्मा क्रमशो विमुच्यमानः समनुसन्धीयाद्विश्वात्मभावम्। अत्र किल साधनायन्ते वितरणशीलता परोपकृतिर्भूतदया जीवसहानुभूत्यादयः। आत्मविस्तरणाभ्यासार्थं लोकसम्पर्क एव परमावकाशः। गृहं कुलं गोष्ठी समाजो राज्यं चेति सर्वाश्च साङ्घिकव्यवस्थाः क्रमेण नैस्स्वार्थ्यमभ्यसितुं, लोकसहानुभवमवाप्तुं च साधनभूता भवन्ति धर्मसंस्थाः। इत्थं लोकजीवनव्यवस्थापनं, लोकजीवनधारणं, लोकजीवनपरिपोषणं कृत्स्नं चापि धर्मत्वेन निगद्यते।

अस्मदिष्ट-हितयोर्मध्ये, श्रेयःप्रेयसोर्मध्ये, तात्कालिकसुख-चिरन्तनशिवयोर्मध्ये, व्यष्टि-समष्टिहितयोमध्ये, भोग-संस्कारयोर्मध्ये यदा यदा हि सङ्घर्षः प्रतीयते तदा तदा विधिना येन सद्भावनिकटीकरणं शक्यं तेनैव धर्मो दर्शनीयः।

धारणाद्धर्म इत्याहुः। ईदृशो जगज्जीवधारकशक्तिरेव सदित्यभिधीयते। सन्नाम परब्रह्मतत्त्वम्। अत एव सत्प्राप्तये विहितमखिलमपि कर्म धर्म इत्यभिधीयते। एवमात्मा ऋतं सत्यं धर्मो नीतिर्न्याय्यं नियतिर्व्रतं श्रेय इति परस्परानुबद्धानि तत्त्वानि।

१४

अत्रायं मथितार्थः—अस्मन्मनसि साक्षात्कृतं याथार्थ्यं, तन्नाम ऋतं, सत्यत्वेन वाग्रूपमुपेत्य व्यवहरणावधौ कमपि व्यत्ययं भजते। अत्र स्वार्थप्रेरणया विना विद्यमानानि कारणानि भवन्त्येवम्—

(१) शुद्धसत्यस्य वा परिपूर्णसत्यस्य विषय एवास्मासु विद्यमानः सन्देहः। अन्यच्चास्मदन्तरङ्गे प्रकल्पितभ्रान्तिप्रमादादीनां परिज्ञानेन विना स्वयंसम्भूयमानस्खालित्यविषये विचिकित्सा।
(२) वचसामपर्याप्तिः। अत्र कोशव्याकरणादीनां नैसर्गिकी भाषिकन्यूनता, निजव्युत्पत्तिदारिद्र्यमनवधानं वा हेतुत्वेन गण्यन्ते।
(३) अस्मद्वचोविग्लापनेन कस्यापि हानिरुदीयादित्याशङ्का।
(४) अस्मदुक्त्या कस्यापि ग्लानिसम्भव इति विचिकित्सा।
(५) अधिकारभेदानुसारं किल सत्यप्रवचनं विधेयमिति चिन्तया प्रवर्तिते निजोपायवैविध्ये तारतम्यसन्दिग्धता[2]

एवं ऋतं सत्यमाध्यमेन धर्मीकरणक्रमे भवन्ति नैका आशङ्काः। ताभिः किल सत्यस्य बाह्यरूपनिष्कर्षः क्रियते।

१५

प्रकृतिनियमानुरोधेन धर्मनियमा इति स्थितिः। एतयोरस्त्येव व्यत्यास इति स्पष्टम्। नैसर्गिकाः सृष्टिनियमा न खलु पर्याप्ता मानुषोत्कर्षाय। भूतपञ्चकस्य नियमास्तु जडलोकव्यावर्तित्वान्न जीवान्तङ्गोन्नत्यै साह्यभूताः स्युः। एवमेव जीवजगत्यपि तिर्यग्जन्तुलोकस्य नियमाः केवलं चोदनामात्रत्वान्न मानवस्य विवेकोज्जीवनाय प्रभवन्ति। यतो हि तिर्यक्षु नितारामाहारनिद्राभयमैथुनानि विना, “जीवो जीवस्य जीवनम्” इति सूत्रेण विना न किञ्चिद्विद्यते महत्। किं तु मानुषलोके काचिद्भिन्नैव सरणिः। युयुत्सुरपि भीतः कुरुक्षेत्रे परिपन्थिपरम्परां प्रसमीक्ष्य किमाह?

“दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति।।

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥”

अयं हि हृदयध्वनिः। ईदृशमन्तरङ्गपर्याकुलत्वं पशुमात्रातीतम्। पशुर्यद्यपि निजवत्सं स्निह्यति तत्तु क्षणिकमेव। स्थायित्वेन तावन्निजयोगक्षेमकातर्यमेव जागर्ति। एवं प्रवृत्तिमात्रं तस्य जीवनम्। एतासां प्रवृत्तीनां मूलचोदनं तु स्वार्थ एव। अतो हि परोपकारप्रवृत्तिः प्रत्यगात्मप्रावीण्यं भगवद्विषयानुसन्धानं भाविहितयत्नश्चेति गुणा न पशुसामान्याः। विशिष्य स्वस्वरूपानुसन्धानत्वेन विधीयमानमध्यात्मचिन्तनं सर्वथा मानुषमात्रमाहात्म्यम्। भगवती प्रकृतिरन्तःकरणमात्रव्यावर्तनेन मानवं तदितरजीवराशिभ्यो विशेषयति। अन्तःकरणं तु मनोबुद्धिचित्ताहङ्कारचतुष्टयसम्पुटम्। सुखदुःखानुभवाः प्रियाप्रियसूचनाश्च मनसः कार्याणि। वस्तुविज्ञानं स्मरणं चेति चित्तचरितम्। विवेचनं निश्चयीकरणं तु बुद्धिक्रिया। अहं ममेति सन्ततप्रतिबोधनं तावदहङ्कारस्य कर्म। तदिदमन्तःकरणं यद्यपि प्रकृतिकार्यं तथापि मानुषैकसौभाग्यं नान्यजीविसम्भाव्यम्। अतो हि धर्मनियमाः प्रकृतिनियमानुरधेन स्युरिति वक्तव्ये तत्र हृद्भावचिद्भावयोर्युक्तमस्ति स्थानमिति धारणा।

एवं मानवः प्रकृतिजातस्य परिणामोऽपि, तस्यैव भागः सन्नपि, केनापि किल विशिष्टेन लक्षणेन निखिलजीविनां मध्ये स्वीयसमुत्कर्षं साधयति। ईदृगात्मोद्धारसामर्थ्यं प्रकृत्यैव तस्मिन्निक्षिप्तम्। तस्य तु स्वोत्कर्षविधानं धर्मः। अत एव जन्मना प्रकृतिवशंवदोऽपि कर्मणा प्रकृत्यतीततां समश्नुत इति मानुषो विशेषधर्मः।

पारावारे पतितः पाथसा तेनैव यथा प्लवमानः प्राप्नोति पारं, तथैव प्रकृतिनिबद्धो नरस्तया सह व्यवहरन्ननारतं तामेव तरति। एवं प्रकृतिसन्तरणसाधनमेव धर्मः।

टिप्पन्यः

[1] मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥ (भगवद्गीता, ७.७)

[2] Some secrets may the poet tell,
For the world loves new ways;
To tell too deep ones is not well—
It knows not what he tells.
(Matthew Arnold—Obermann)

Concluded.

This is a serialized Sanskrit translation of D V Gundappa’s Kannada monograph “Rta Satya Dharma” by Shashi Kiran B N.

Series Navigation << ऋतं सत्यं तथा धर्मः — अर्थच्छायाः
D V Gundappa Dharma ऋतं सत्यं तथा धर्मः — धर्मस्वरूपविवरणम् d v gundappa

D V Gundappa

Devanahalli Venkataramanayya Gundappa (1887-1975) was a great visionary and polymath. He was a journalist, poet, art connoisseur, philosopher, political analyst, institution builder, social commentator, social worker, and activist.
D V Gundappa Dharma ऋतं सत्यं तथा धर्मः — धर्मस्वरूपविवरणम् d v gundappa