...
Home2018October

October 2018

तदयं सङ्क्षेपः—निर्विशिष्टक्लैब्यसन्त्रस्ते सति समाजे, तेन विशिष्टो व्यक्तिगुणः सुतरां नावगम्यते[1]। तादृशस्तु भित्तीतिवृत्तवियुक्तो वाग्व्यापारः सरस्वतीविडम्बनाय रसविध्वंसनाय च कल्पते। अनुलक्षिते सत्यस्मिन्, साम्प्रतिकसमाजे कथानायकार्हता न कस्मिन्नपि मनुजे विद्यत इत्युत्प्रेक्षितुमलम्[2]। भारतीयकाव्यमीमांसादृशा रसः सदैव नायकाश्रितः। अन्यच्च “नायकस्य कवेः श्रोतुः समानोऽनुभवः स्मृतः” इत्यमुं तौतीयमभिप्रायमनुरुध्य पश्यामश्चेत्, साम्प्रतिकं साहित्यं रसशून्यमेवेति सहृदयाय प्रतीयते। यतो हि नायकसत्त्वरहितं यं कमपि नायकीकृत्य वितीर्यमाणं

Read More

अस्यां दिशि सुकविना केचन दोषा यत्नेन वारणीयाः। यथा संविधाने निर्वैशिष्ट्यम्, इतिवृत्ते च निस्सङ्घर्षता। यद्यपि सङ्घर्ष इति परिभाषाविशेषः प्राच्यभारतीयकाव्यमीमांसायां किञ्चिदप्रचुरस्तथापि कथायाः पुरोऽभिवृद्धये विविधपात्राणां पोषणाय च सोऽयमावश्यक इति सुविदितमेव सुधियाम्। श्रीमद्रामायणे श्रीमन्महाभारते च विद्यमानो धर्माधर्मयोः सदसतोश्च सङ्घर्षः सुविख्यातः। महाकाव्येष्ववश्यं मन्त्र-द्यूत-प्रयाण-आजि-नायकाभ्युदयादीनि वर्णनानि भवेयुरिति किल काव्यशास्त्रसमयः। अत्राजिर्नाम न केवलं बाह्यः, अपि तु आन्तरङ्गिकोऽपि भवितुमर्हति।

Read More

As far as I know, there were three eminent vaiṇikas (musicians who play the vīṇā) in Bangalore. Of them, the seniormost was an Iyengar. If I remember right, his full name was either Rangaswami Iyengar or Krishnaswami Iyengar. His house was on the street leading to Chikka Lalbagh from Balepet

Read More