...
 

रसाभासो निरस्यते—२

This article is part 2 of 3 in the series रसाभासो निरस्यते


अनया हि दृष्ट्या तदेवमभ्युपगम्यते यन्महाकाव्य-महाकथा(Epic Novel)-नाटक-प्रकरणादयो नितरां भूमभावभरिता गुरुसाहित्यप्रकाराः प्रविलसन्तीति। किन्तु खण्डकाव्य-गीतकाव्य(रागकाव्य)-मुक्तक-प्रहसन-नाटिका-भाणादिरञ्जनमात्रावसिता लघुसाहित्यप्रकारा इत्यप्यनुमीयते। परमिदमवधेयं यत्काव्यस्य लघुत्वं वा गुरुत्वं गात्रमात्रेण न निश्चीयते किञ्च गात्रस्यापि कापि गुणवत्ता दरीदृश्यते। यदाहुराङ्ग्लेयवाचि— “Quantity is also a quality” इति। तथापि समृद्धविभावानुभावादिसमग्रीनिर्माणक्षमा वक्रोक्तिमाध्यमद्वारा ध्वन्यमाना परमौचित्यवल्गिता साहिती या कापि रसिकानां रसानन्दमहोत्सवे पर्यवस्यतीति निश्चप्रचम्। केवलं गुरुसाहित्यप्रकारेषु भूमभावबन्धुरेषु प्रायेणेदृशस्य रसपारम्यस्य भूयानवकाशो वर्तत इति किलैवमस्माभिरुद्घुष्टम्।

नैतिकी दृष्टिरुत्कृष्टाप्यन्ततः कर्तृतन्त्रजा।
विसंवदेदतो ह्येव देशकालविपर्ययात्॥२४॥

भावैकभाविता दृष्टिर्न कदापि विसंवदेत्।
यतो हि वस्तुतन्त्रत्वं तत्र जागर्ति सर्वथा॥२५॥

यथा सौन्दर्यशास्त्रापरसंज्ञिते साहित्यशास्त्रे तच्छास्त्रस्य परमसत्ताभूतस्य रसस्य तत्संबन्धिनाञ्च नैकेषां परिकल्पनानां विवेचनं विवक्षितं तथैव वास्तवशास्त्रापरसंज्ञिते न्यायशास्त्रे विद्यमानस्य पदार्थषोडशकस्य विवेचनमपि तौलनिकरूपेण मनसि मनाक्कल्पनीयम्। अतो हि रसाभास-हेत्वाभासयोः सम्मुखीकरणं किमपि रोचकं बोधकञ्च प्रज्ञापाटवं समाविष्कुरुते। इदन्तु केवलं शास्त्रद्वितयस्यास्य परिच्छेदप्रज्ञाप्रत्यभिज्ञार्थमेव व्यवहृतमिति भाव्यम्। नो चेदविचारितरमणीयो विशृङ्खलव्यभिचारश्चानयोर्विद्यास्थानयोरानर्थक्यं परमं जनयतीति जिहीर्षुणा चेतसा ग्रन्थविस्तरोऽयमुपकल्पितः।

हेत्वाभास इति प्रोक्तो योंऽशस्सत्यनिरूपणे।
रसाभाससदृक्षोऽसौ सौन्दर्यस्यानुशीलने॥२६॥

व्यभिचारेण भौतानां कार्यकारणसङ्गिनाम्।
न काव्यं दूषणं याति प्रतिभाप्राणितं यतः॥२७॥

तदेव किन्तु भावानां व्यभिचारो मनागपि।
विभावादिविशिष्टानां दूषणाय कदाचन॥२८॥

व्यभिचारस्तु भौतस्याव्युत्पत्त्यापि क्वचिद्भवेत्।
प्रतिभैका तदाप्यास्ते रक्षेत्यानन्दवर्धनः[1]॥२९॥

भौतव्यभिचारस्तु प्रायेण महाकविष्वपि तत्र तत्र दृश्यते यथा कविकुलगुरोरनर्घे रघुवंशकाव्ये त्रेतायुगघटिते त्विन्दुमतीस्वयंवरे शूरसेनराजस्य वर्णनावसरे द्वापरयुगघटितस्य श्रीकृष्णस्य कालीयमर्दनप्रस्तावः (६.४९), स्वनामधन्यस्य वर्तमानकर्णाटवाणीवरिष्ठलेखकस्य भैरप्पवर्यस्य सार्थसंज्ञितायां महाकथायां कुमारिलभट्टस्य (कथानुरोधेन कवेः कल्पनानुसारं विधुरस्य) नित्याग्निहोत्रवर्णनं, शेक्स्पियर्-महाकवेर्विविधेषु रूपकेषु क्वचिदैतिहासिकसङ्गतीनां विसंवाद इत्यादयः। किमधिकेन, साहित्येतरासु कलास्वपि दृष्टचरैव किलैतादृशी विसङ्गतिः। चलच्चित्रेषु दूरदर्शनधारावाहिनीषु नृत्यप्रदर्शनेषु च वयमसकृदिमां विसङ्गतिं पश्याम इति नातिशयोक्तिः। यथा पौराणिकचलच्चित्रेषु सरस्वत्याः करे किन्नरीवीणायाः प्रत्याम्नायत्वेन तञ्जावूरुवीणाया विनियोगः, पाण्डवानां विवाहावसरेऽपसव्ययज्ञसूत्रधारणं, निष्कञ्चुकानां दुष्यन्तादिभूपालानां दीर्घकञ्चुकधारणं, कृष्णदेवरायादीनां सेनाप्रस्थानावसरे विद्युद्दीपस्तम्भादीनामाकस्मिकं दर्शनं चेत्यादि परश्शतं सन्दर्भा मनोमार्गेऽनुधावन्त्यहमहमिकया। भावव्यभिचारोऽपि कदाचिन्महाकविषु परापततीति सखेदाश्चर्यमेव। हन्त! के वा न मायया मोहितास्स्युः। सुरगन्धसिन्धुरोऽपि कदाचित्स्खलेत्, सुधासमुद्रभवोऽपि दम्भोलिधरसैन्धवः क्वचिद्विसंष्ठुलधारया पराजयं प्राप्नुयात्। एवमेव ब्राह्मीदत्तवरप्रसादा अपि विजल्पेयुर्वराका इव। केवलं रससिद्धानां महाकवीनां रचनासु क्वचिद्विसंवादनिदर्शनानि समाकलय्य निरूपयामश्चेत्प्रत्यग्रशुभ्रवस्त्रे मललव इव प्रस्फुटो भवति गुणदोषविवेकाशय इति नम्रयैव धियाऽस्माभिर्नयोऽयमादृतः । न वयं स्वप्नेऽपि पुरोभागिनो, विनोदायापि रन्ध्रान्वेषिणः। आस्ताम्। साम्प्रतिकं साधयामः। महाकवेर्भासस्येति विश्रुते पञ्चरात्रे दुर्योधनस्य निर्हेतुकमानृशंस्यं वितरणशीलता च, कर्णाटवाणीकविवरेण्यस्य कुवेम्पुवर्यस्य रामायणदर्शनमाहाकव्ये  सीतायां स्वजनित्रीप्रत्यभिज्ञानप्रवणो रावणः, कर्णाटदेशीयकथाकारेष्वन्यतमस्य भैरप्पवर्यस्य पर्वसंज्ञितायां महाकथायां न केवलं पुत्रशोकविधुरस्य किञ्च नैजात्मदर्शनदीप्तिरहितस्य वेदव्यासस्य प्रकृतिनिरूपणं चेत्यादि सन्ति सहस्रं दृष्टान्ताः।

सर्वमिदं विचारजातं मनसि कृत्वा पश्यामश्चेद्रसाभास इति यदुच्यते तद्धर्मशास्त्र(Ethics)-नीतिशास्त्र (Morality)-द्रव्यगुणशास्त्र(Positive Sciences)-दर्शनशास्त्र(Philosophy)मुखानां विद्यानां नेपथ्ये पुनर्विमर्शनमर्हति। तथापि परमिदमवधेयं यत्सौन्दर्स्यशास्त्रं सर्वथा लोकोत्तरमेव कलानुभवं समादृत्य नियतिकृतनियमरहितं ह्लादैकमयमनन्यपरतन्त्रं रसास्वादसमुद्भवं ताटस्थ्यपरममपि तन्मयताप्रवणं स्वात्माश्रयं बिभर्तीति। अतो हि नात्र शास्त्रान्तरपरिवेषपरिनिष्ठितविवेचनेऽपि समयस्यास्य सार्वभौमत्वं स्तोकमपि विस्मर्तव्यम्। प्रायेण पूर्वसूरयस्तु विषयेऽस्मिन्व्यामोहिता इव, लोकनीत्या व्यालुप्ता इव, कर्मकाण्डेन व्यस्ता इव च दर्शनाभासधिषणया तत्र तत्र स्खलन्तीति वच्मश्चेत् पूज्यपूजाव्यतिक्रम इव माभूदिति सर्वथा तेषां सूक्तिसहस्रद्योतिनामाधमर्ण्ये वर्तमाना वयं वराकाः साञ्जलिबन्धं स्वमनीषितां प्रेक्षावतां पुरः प्रतिनवां समर्पयामः। अत एव काव्यसन्दर्भेषु नैकत्र रसाभासप्रस्तावं निरूपयितुं कुतुकिनो विसंवदन्तीति दिक्।

प्रतिनायकपारदारिकाद्या असतीतिर्यगचेतानादयोंऽशाः।
रसपुष्टिपरा न वेति वादा न लगन्ति प्रतिभावतां समक्षम् [2]।।30।।

भोजराजादयः क्वचित्प्रतिनायकेषु रससम्भवं न मन्यन्ते। आस्तां तच्छृङ्गारे वीरे वा यथा वाल्मीकिरामायणस्य रावणप्रकृत्यां, व्यासमहाभारतस्य दुर्योधनप्रकृत्यां वा। किञ्च रौद्र-बीभत्स-भयानकादयो रसाः खल्ववश्यं विलसन्ति प्रकृतिष्वीदृशीष्विति नास्ति संशीतिलेशः। अन्यच्च कदाचिल्लोककथासु वाऽऽर्षकाव्येषु नायकत्वयोग्यतारहितान्यपि पात्राणि नायकत्वं प्राप्य परवर्तिषु साहित्येषु शृङ्गार-वीरादीन्पुरुषार्थप्रवर्तकान् रसान्द्योतयन्तीति ज्ञायत एव। यथा व्यासमहाभारतान्तर्गतो  धूर्तप्रायो दुष्यन्तः कालिदासोपज्ञे तावदभिज्ञानशाकुन्तले सहृदयसहानुभूतिपात्रतां याति, बृहत्कथाया धीरललितो वत्सराजस्तु भासशेमुषीके स्वप्नवासवदत्ते धीरोदात्ततां भजति च। एवमेवासतीचरितं वा पारदारिकवृत्तान्तं वा रसत्वेन सभाजयितुं सन्ति नैकान्युदाहरणानि यथा राधामाधवयोर्विलासश्शताधिकश्रव्यदृश्यकाव्यादिषु जेगीयते, हालसातवाहनस्य गाथाकोषे शताधिकान्यसतीवृत्तान्तगर्भितानि पद्यानि रसिकजनमनोरञ्जनानि, सुप्रसिद्धस्य लियो-टाल्स्टाय्-वर्यस्य “अन्ना केरेनिना” माहाकथाया नायिका भावुकहृदयकारुण्यहारिणी च। आस्तां तावदिदं, बहुपतिव्रतायां द्रौपद्यां वा पुरुहूतजारिण्यां गौतमकुटुम्बिन्यां वा शिष्यरतायां बृहस्पतिसहधर्मिण्यां वा का स्यात्कथा? ईदृशेषु वेद-पुराणसमाम्नातसन्दर्भेषु रसनिर्माणसामग्री समृद्धेति के वा न विजानन्ति? अपि च तेषु तेषु रसविप्रतिपत्तिं कथं वाऽङ्गीकुर्युरुदारचेतसः? अतो हि भोजादीनां गजनिमीलितकेनालमिति मन्महे वयम्।

अस्मदुपज्ञं सिद्धान्तमिव वयमिममुदीरयामो यत्कवेस्सहानुभूतिरेव रसाभासस्यास्तित्वनास्तित्वादिषु परमं प्रमाणम्। यतो हि कवेर्मूलस्वरूपमेव वर्ण्यविषयसहानुभूतित्वेन समुल्लसति। तथा च स्वानुभूतिभासुरा वाग्वधूटीप्रसादसुभगा प्रतिभावतः कवेरभिव्यक्तिरेव काव्यत्वमधिगच्छति। तदेवं श्रूयते—

सहानुभूतिस्सुकवेः प्रतिष्ठिता यदि स्फुटं वर्ण्यपरेषु वस्तुषु।
अनौचितीवीतरुचा निरूप्यते रसः किलैको रसिकोत्सवास्पदम्॥३१॥

कवेराग्रहा एव नैजाढ्यशक्त्या समृद्ध्या च वक्रोक्तिमय्याऽभियुक्त्या।
कदाचित्समिद्धा जगद्भावभङ्ग्या जनाराधनायापि सम्यग्भवन्ति॥३२॥

कदाचिन्महाकवयोऽपि निजाग्रहनिगीर्णाः स्वस्वदेशकालविवशावेशवशीकृताः, प्रातिभासिकविचारव्यालुप्ताः, क्वचित्प्रसिद्धपूर्वसूरिक्षुण्णमार्गाभासमुग्धाः “साम्प्रतिकत्व”मोहमदिरामदमूर्छिताः, पौराणिकैतिहासिकप्रसिद्धप्रकृतिषु “पतितोद्धरण”परायणत्वस्मयसमिद्धाः, सदैव प्राक्तनेषु सन्दर्भेषु वार्तमानिकं ध्वनिमेव बलेन पिपठिषवः, सर्वमपि चिरन्तनज्ञानविज्ञानसञ्चयं त्वधुनातनतन्त्रज्ञानविधानेन समर्थयितुं बद्धस्पृहाः स्वयमप्रबुद्धाश्च तेषु तेषु विद्यास्थानेषु, स्वेषु स्वेषु कथा-काव्य-रूपकादिषु नायके वा नायिकायां स्वात्मानमेव निजासिद्धकामनासंसिद्धिकामनया दिदृक्षवस्तथैव तत्तत्प्रकृतिनिर्माणनिलीनाः सन्ति बहुविधाः। यथा स्वात्मारोपणपरायणतया नायकान्पश्यन् कर्णाटमहाकविः कुवेम्पुवर्यः (स्वीयमहाकथायां “कानूरुहेग्गडति”संज्ञितायां पूवय्य-पात्रे), आन्ध्रप्रदेशीयो महाकविर्विश्वनाथसत्यनारायणश्च (स्वोपज्ञमहाकथायां “वेयिपडगलु”संज्ञितायां धर्मारावु-पात्रे), पुनश्च कर्णाटवाणीज्ञानपीठप्रतिष्ठितो गोकाकवर्यः (स्वीयमहाकथायां “समरसवे जीवन”संज्ञितायां नरहरि-पात्रे)। स्वीयगान्धितत्त्वादर्शभावं रामायणकथायामपि निरूपणलिप्सया स्वोपज्ञे “साकेत”महाकाव्ये तावदूर्मिलां “चरखा”धारिणीं कुर्वाणो मैथिलीशरणागुप्तः, स्वकीयसाम्यसिद्धान्तलम्पटतया सर्वत्र तदेव निर्विरामनिरूपणेन निजकथासु यथा “वोल्गा से गङ्गा”, “दिवो दास”, “सिंह सेनापति”, “जय यौधेय” इत्यादिषु सभाजयन् राहुलसाङ्कृत्यायनवर्यः; किं बहुना, शङ्करविजय-मध्वविजय-यतिराजविजयादिषु नायकोत्कर्षसाधनार्थमैतिहासिकं तथ्यं वा निस्सामान्यमौचित्यं वा निस्सीमानं सामान्यधर्मं वा निर्विशङ्कमुल्लङ्घयन्तो मतोन्मत्ताः सन्ति किल कवि-कथकाः। जगत्साहित्ये न चैतेषां कापि विद्यते सङ्ख्यान्यूनता।

टिपन्न्यः

[1] अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः।

किन्त्वशक्तिकृतो दोषः स झटित्यवभासते।।—Dhvanyālokaḥ. New Delhi: Motilal Banarasidass Publishers, 1982. p.124.

[2] रसः प्रकृष्टो भवरूपा आभासश्च। … यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स शृङ्गाराभासः।—Śṛṅgāraprakāśaḥ, Vol 2.  Mysore: Sanskrit Academy, 1963. p. 431.

हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु गणेष्वेव पदार्थेषु तमाभासं विजानते।—सरस्वतीकठाभरणम् (५.३०).

To be continued.

Series Navigation << रसाभासो निरस्यते—१रसाभासो निरस्यते—३ >>
Shatavadhani Dr. R. Ganesh Rasabhasa रसाभासो निरस्यते—२ r ganesh

Shatavadhani Dr. R. Ganesh

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.
Shatavadhani Dr. R. Ganesh Rasabhasa रसाभासो निरस्यते—२ r ganesh